कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निधि

nidhiपुं · masc.

In 19 kośas: 18 synonym verses, 27 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.192 · p. 12
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.115 · p. 55
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.71
निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः ॥महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.82 · p. 10
निक्षेपः स्यादुपनिधिः कथ्यते शेवधिर्निधिः ।किन्नरः स्यात्किम्पुरुषो मयुरश्वमुखस्तथा ॥ ८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कि (wrong syllable)
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात नवसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 9.19 · p. 200
भूखण्ड-कृत्तरावणमुण्ड-सुधाकुण्ड-जैनपद्मानि ।ग्रैवेय-रस-व्याघ्रीस्तन-गुप्ति-निधि-ग्रहास्तु नवसंख्याः ॥ १९ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.78 · p. 388
तुरङ्गार्थमुखार्थोऽथ निधिः स्त्री सेवधिः पुमान् ।शेवधिश्च कुनाभिश्च स्याद्वर्णकविरप्यथ ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.174 · p. 25
स्यात्किंनरः किंपुरुषो हयास्योमयुश्च किंनार इहोपदिष्टः ।क्लीबे निधानं नरि शेवधिः स्यान्-निधिः कुनाभिश्च नवास्य भेदाः ॥ १७४ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.3 · p. 93
बाधते प्रतिपदोक्तविधानंलिङ्गसंग्रहविधिं हि समस्तम् ।पुंसि नाम सभिदां निधि-नाक-भूभृदम्बुधि-मुखाग्नि-शराणाम् ॥ ३ ॥
स्वागता
genderपुंmasc.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.75 · p. 15
स्वापतेयं हिरण्यार्थौ रा निधाने तु शेवधिः ।निधिः कुनाभिरप्येवं नवसंख्या भवन्त्यमी ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.9 · p. 212
निधिरश्मिकफा वायुद्रुममानार्थवाचकाः ।देहभृद्विषयाद्याः स्युः सभेदा नरलिङ्गगाः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.346 · p. 24
कै[कौ]लासाद्रिः स्थलं पुत्रः श्रीदस्य नलकूबरः ।शेवधिर्निधिभण्डारौ दीनारं स्वर्णकाम्बिकम् ॥ ३४६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.177 · p. 30
निधानं तु कुनाभिश्च शेवधिर्निधिरित्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ङ्ख (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.166 · p. 12
शेवधिर्ना निधिः पुंसि निधानन्तु नपुंसकम् ।पद्म-शङ्खौ महापद्म-मकरौ खर्व-कच्छपौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.137 · p. 18
सैव वस्वौकसारा स्यात्समानौ निधिशेवधी ।शङ्खः पद्मो महापद्मः कच्छपो मकरो वरः ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 21 · p. 532
निधिः शेवधिरस्त्रियाम् ॥ २१ ॥
genderपुंmasc.
निधिः शेषो गुह्यकर्त्ता तपनः पञ्चमस्तथा ।वीरभद्रा च सावित्री कालरात्रिः पुरारिहा ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.60 · p. 14
निधानं गूढकोशो ना निधिः शेवधिरस्त्रियाम् ।भेदाः पद्मो महापद्मः शंखो मकरकच्छपौ ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.

निधि as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् शङ्खशङ्खो निधौ ललटास्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि खम् ॥ १८ ॥ Amarakośa 3.3.18
  • धरणिकोश शङ्खशङ्खो निध्यन्तरे नख्यां शङ्खः कम्बुललाटयोः । प्रेङ्खा पर्यटने नृत्ये प्रेङ्खामश्वगतिं विदुः ॥ Dharaṇikośa 2.2.4
  • धरणिकोश महाशङ्खमहाशङ्खो निधौ दृष्टः संख्याभेदे नरास्थिनि । अग्निमुखस्तु विख्यातो देवे भल्लातकेऽपि च ॥ Dharaṇikośa 2.2.8
  • धरणिकोश कुन्दकुन्दो भ्रमणयन्त्रे स्यान्निधिपुष्पप्रभेदयोः । नन्दिरानन्द उद्दिष्टो द्यूते शुभविशेषयोः ॥ Dharaṇikośa 17.2.3
  • धरणिकोश महापद्मप्लवंगमः स्मृतो भेके वानरे च प्लवंगमः । महापद्मो निधौ दृष्टः संख्यानागविशेषयोः ॥ Dharaṇikośa 24.2.21
  • धरणिकोश पद्मपद्मो दाशरथौ निधौ च गदितो व्यूहप्रभेदेऽप्यसौ संख्यानागविशेषयोरपि तथा पद्मकाष्ठौषधौ । पद्मान्विद्धि गजास्यबिन्दुनिकराम्पद्मं सरोजं स्मृतं पद्मा ब्राह्मणयष्टिका हरिवधूः स्यात्पद्मधारिण्यपि ॥ Dharaṇikośa 24.3.9
  • कोषकल्पतरु शङ्खशङ्खो ललाटास्थनि कम्बुनख्यो- र्न स्त्री च तादृग्वलये निधौ ना । शिखण्डिचूडाग्रकनीनिशाखा- शिखण्डयात्रार्चिषु लाङ्गलिक्याम् ॥ ७९ ॥ Koṣakalpataru 6.2.79
  • कोषकल्पतरु महाशङ्खगजेऽथ बाणे भ्रमरे शिलीमुखः कन्दो नुत( ? )र्व्याघ्रनखे नखौषधौ । संख्याविभेदे च नरास्थ्नि पण्डिता निधौ महाशङ्ख [मुदाहरन्ति] ॥ ८६ ॥ Koṣakalpataru 6.2.86
  • कोषकल्पतरु महापद्मसंख्याभेदभुजङ्गयोरपि[34b]महापद्मो निधौ चोदितः Koṣakalpataru 6.25.44
  • कोषकल्पतरु मकरयादोविशेषे मकरो निधौ च राशिप्रभेदे निकरस्तु सारे । सङ्घे तथा न्यायगते च वित्ते ऽथो शीकरः स्त्री न कणे जलस्य ॥ ९७ ॥ Koṣakalpataru 6.27.97
  • कोषकल्पतरु नीलपुमान्महीभृन्निधिरत्नभेद- कपिप्रभेदेष्वथ चिह्नभेदे । स्त्रियां च[नीली]मधुपर्णिकायां कूलं तडागस्तुपयोः प्रतीपे ॥ ६८ ॥ Koṣakalpataru 6.28.68
  • नानार्थार्णवसंक्षेप खनिविप्रादन्तावसायिन्यां जाते खोडे तु स त्रिषु । खनिः खनतिधातौ ना स्त्री तु स्यादाकरे निधौ ॥ ३१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.314
  • परमानन्दीयनाममाला कुन्दकोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः । कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥ Paramānandīyanāmamālā 5.7.108
  • परमानन्दीयनाममाला शङ्खशङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते । शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥ Paramānandīyanāmamālā 5.25.354
  • शब्दरत्नावली नन्दअब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
  • शब्दरत्नावली पद्मनेमः खण्डेऽवधौ गर्ते नाहादौ कैतवान्ययोः । पद्मोऽस्त्रीपद्मके पद्मे निधिसंख्याभिदोर्न्नजौ(?) । नागे ना स्त्री चारटी-श्री-फञ्जिका-पन्नगीषु च ॥ Śabdaratnāvalī 7.25.14
  • शब्दरत्नावली महापद्मसंख्याभेदे निधौ नागे महापद्मो भवेत्पुमान् । परिभुक्तोज्झिते जीर्णे यातयामोऽपि वाच्यवत् ॥ Śabdaratnāvalī 7.25.49
  • शब्दरत्नावली निकरदासेरो दास्यपत्ये स्याद्ग्रामजाले नपुंसकम् । धूसरो ना खरे स्त्री तु किन्नर्यां पाण्डरे त्रिषु । निकरो निवहे न्याये धने सारे निधावपि ॥ Śabdaratnāvalī 7.27.80
  • शब्दरत्नावली मकरमन्थरः पुंसि मत्थानवाधकोषफलेषु च । पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥ मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः । मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥ महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः । मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥ Śabdaratnāvalī 7.27.95
  • शब्दरत्नाकर पद्मपद्मोऽस्त्री पङ्कजे ना तु निधौ व्यूहेऽहिपुंगवे । स्त्री श्रियामौषधे षण्डः संख्यायां गजबिन्दुषु ॥ १९५५ ॥ Śabdaratnākara 4.1.1955
  • शब्दरत्नाकर शङ्खवाणी वाग्देवतावाचोर्वीतं दुर्गजवाजिनोः । शङ्खो निधौ ललाटास्थ्नि नागे कम्बौ तु न स्त्रियाम् ॥ २००७ ॥ Śabdaratnākara 4.1.2007
  • शब्दरत्नाकर मकरराष्ट्रक्षोभेऽपि मकरो मुकुन्दौ निधिकेशवौ । मार्गणो याचके बाणेऽन्वेषणे मार्गणं न ना ॥ २१४६ ॥ Śabdaratnākara 4.1.2146
  • तन्त्राभिधान पपः पू(शू)रप्रियता तीक्ष्णा लोहितः पञ्चमो रमा । गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥ १२१ ॥ Tantrābhidhāna 2.38.121
  • त्रिकाण्डशेष पद्मयन्त्रणाबन्धयोश्चाऽथ पञ्चमः स्वरसङ्ख्ययोः । पद्मोऽस्त्री बिन्दुजालेऽब्जे व्यूहे सङ्ख्यान्तरे निधौ ॥ २९९ ॥ Trikāṇḍaśeṣa 3.3.299
  • उत्पलिनी कूर्चकोष्ठागारोऽभवत् कूर्चो निधिर्वा तेन तादृशः ॥ ५९ ॥ Utpalinī 59
  • वैजयन्ती पद्मपद्मोऽस्त्र्यब्जेष्टकायां क्ली संख्यायां गजबिंदुषु । ना तु नागे निधौ व्यूहे पंकोऽस्त्री कर्दमैनसोः ॥ ४८ ॥ Vaijayantī 6.5.48
  • वैजयन्ती शंखशंखोऽस्त्री वलये कंबौ संख्यायां च निधौ तु ना । अमावस्यां च नागे च शितौ बाणतनूकृतौ ॥ ८३ ॥ Vaijayantī 6.5.83