कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रै

raiपुं · masc.

In 14 kośas: 18 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.192 · p. 12
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.163 · p. 41
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.90
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.80 · p. 10
द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
metre not recognised
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.173 · p. 22
हेम स्वर्णं जातरूपं सुवर्णं,भर्मं रुक्मं हाटकं शातकुम्भम् ।गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
शालिनी
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.52 · p. 132
स्यान्महारजतं जाम्बूनदं च कलधौतकम् ।चारुरत्नं च पिङ्गाशं हरिणं काचिघः पुमान् ।हारिद्रं स्त्री तु सुरभि डूर्वर्णिः(?)सानसिश्च राः ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 294
द्रव्यं द्युम्नं वित्तं रमृक्थं मघं रिक्थम् ।स्तः स्वापतेय-वसुनी द्रविणं न स्त्री न राः क्लीबे ॥ २१ ॥
metre not recognised
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.34 · p. 123
पादपूर्तौ चापि तथा तु हि च स्महवैद्यकम् ।यथा कथा च रै एतदनादरसमार्थकम् ॥ ३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.36 · p. 123
रै दाने देवताभ्यस्तु हविषः प्रतिपादने ।श्रौषड्वौषड्वषट्स्वाहा पितृभ्यस्तु स्वधा मतम् ॥ ३६ ॥
अनुष्टुप्
genderअindecl.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.17 · p. 10
दशवर्णे सुवर्णे श्रीः पञ्चवर्णे तु रैः स्मृतम् ।तुङ्गं तु द्वादशे वर्णे कुदणं षोडशे स्मृतम् ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 95 · p. 47
वित्तं वस्तु वसु द्रव्यं स्वार्थं रा द्रविणं धनम् ।कस्वरं तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.75 · p. 15
स्वापतेयं हिरण्यार्थौ रा निधाने तु शेवधिः ।निधिः कुनाभिरप्येवं नवसंख्या भवन्त्यमी ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.534 · p. 94
द्रव्ये वित्तं स्वापतेयं ऋक्षं(क्थं?) रिक्षं(क्थं?) हिरण्यकम् ।धनं वसु हिरण्यं च द्युम्नं रा विभवो धनम् (मघम्?) ॥ ५३४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.176 · p. 19
द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् ।अर्थो लक्ष्मीः स्वापतेयं रिक्थमृक्थ तथा वसु ॥ १७६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.225 · p. 30
पृक्थमृक्थं च रिक्थं स्वं स्वापतेयं च रास्तथा ।ऋक्णमर्थो हिरण्यं स्याद् सारं द्युम्नं तथोच्यते ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1809 · p. 295
राः महारजतं भूरि रजतं तारजीवनम् ।निष्कश्चाऽष्टापदं जाम्बूनदं जातरूपं पुनः ॥ १८०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderपुंस्त्रीm. f.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.175 · p. 149
वित्तं द्युम्नं हिरण्यस्वद्रव्यानि द्रविणं वसु ।रिक्थमृक्थं स्वापतेयमर्थो रैर्विभवो धनम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.139 · p. 18
निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् ।स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥
गीतिः
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.315
स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.1 · p. 161
रशब्दः पावके तीक्ष्णे रैशब्दः कनके धने ।धूश्चिन्ता धूश्च भारोऽग्रे चाश्विशेकदेशयोः ? ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.17 · p. 9
पार्थिवे क्रतुभेदे च रैशब्दो धनरुक्मयोः ।नृस्त्रियोर्नाम्बुदेऽथ द्वे विः खगे त्रिषु गन्तरि ॥ १७ ॥
अनुष्टुप्

रै as a meaning in nānārtha verses