सार
sāraपुं · masc.In 22 kośas: 44 synonym verses, 12 as a nānārtha head word, 15 as a meaning of another word.
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ॥ ६२५ ॥मांसपित्तं श्वदयितं कर्करो देहधारकम् ।मेदोजं कीकसं सारं करोटिः शिरसोऽस्थनि ॥ ६२६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सारो मज्ज्ञि त्वचि च्छल्ली चोचं वल्कं च वल्कलम् ॥ ११२१ ॥
अनुष्टुप्
genderपुंmasc.
सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
metre not recognised
genderक्लीneut.
त्वग्वल्कं वल्कलं प्रोक्तं मज्जा सार उदाहृतः ।करहाटं भवेत्कन्दः पादो मूलं जटा शिफा ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
जलन्तु सलिलं नीरं क्षीरं वारि शम्बरम् ।शरं सारं जडं कुम्भमम्भश्चापश्च कथ्यते ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
महामुखं मेघपुष्पं जीवनं जीवितं शरम् ।जीवनीयं शुचिः सारं शम्बरं चाप्यधोमुखम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
अपि स्याच्छंकरावासः पांसुः शीतकरः पुनः ।पिञ्जोब्जसारः सारोपि जूटिका वालुकः पुनः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
अश्मलोहोऽस्त्रियां सारं न स्त्रियां कृमिलोहकम् ।तीक्ष्णं शस्त्रायसं कालपिण्डं पिण्डायसं शठम् ॥ ५५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पादपर्यायिमूलं स्यान्नेत्रं च चरणोऽस्त्रियाम् ।अग्रं क्लीबे शिरः पुंसि मज्जा सारश्च पुंस्युभौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कृपीटं कमलं सारं क्षीरं विषमिदं घृतम् ।कबन्धमुदकं पाथः कीलालं पुष्करं सरम् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
सारश्च शृङ्गसारश्च वञ्चिलो वालकस्तथा ।कण्टकारः संकुचकश्चर्मजाः सागरोद्भवाः ॥ ९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
genderपुंmasc.
धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ ।न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नु (wrong syllable)
genderक्लीneut.
छल्ली त्वचश्चोचमन्त्ये न स्त्रियां वल्क-वल्कलौ ।मज्जायां सारमज्जानौ विस्तारो विटपोऽस्त्रियाम् ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
लकुचो लिकुचः क्षुद्रपनसो ग्रन्थिमत्फलः ।पीतनो सौ**साक्षौ गर्भस्त्वेतस्य कण्टका ।लिङ्गत्रये दाडिमः स्यात्सारश्च करकोऽस्त्रियाम् ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सौ (syllables merged)
genderविadj.
कि(की)कसं श्वप्रियं सारः कर्करस्तरुणं तु तत् ।ग्रीवाकर्णघ्राणनेत्रकोशजं वलयं पुनः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
हलाहश्चित्रितो वाजी पुष्पाण्यङ्गेषु बिन्दवः ।सारस्तु वर्णमिश्रत्वमावर्तो रोमसंस्थितिः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
असारं फल्गु सारं तु वरं क्लीबे ध्रुवं क्वचित् ।शून्यं शुन्यं रिक्तकं च वशिकं तुच्छमित्यपि ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
न्याय्ये वरं सारमजस्रवास्रेवीरं तथा भ्रामरमृक्षरं च ।उलूखलं गुग्गुलुवाच्यथौ[229b]र्वेपातालमुक्तं खलमप्यवन्याम् ॥ १० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 उ (wrong syllable)
genderक्लीneut.
गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् ।फलकी सुरभिः सारं महार्हं रोहणोद्भवम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
सारो मज्जा पुमान्स्थाणुः शङ्कुर्ध्रुवक इत्यपि ।अंह्रिर्बुध्नः पुमान्मूले शिखरेऽग्रं शिरोऽपि च ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
वाताप्रमीरोहितौ च कन्दली सार इत्यपि ।इत्यादयोऽपरे भेदाः स्वयं ज्ञेया मनीषिभिः ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
तज्जटायां तु मदनं तत्खड्गे खचितः स्मृतः ।तद्दण्डे मणिदः सारः तद्धनौ घोररूपिणी ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
सारः कृष्णश्च रङ्कुश्च कृष्णसारः सुराकृतौ ।मण्डलादिक्रमेणैव कुण्डलीत्यादिकं विदुः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
जलप्रस्रवणे स्रावः परिवाहश्च चङ्कटः ।जलोच्छ्वासः परीवाहो सारो विसर इत्यपि ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
प्रियजीवो बन्धुजीवो बन्धूको बिन्दुपुष्पकः ।शिंशिपा धूमिका धीरा सारस्तिन्दुकस्फूर्ज्जकौ ॥ १७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 क (wrong syllable)
genderपुंmasc.
जीवनं सर्वभद्रं च पाथः काण्डं कुशं विषम् ।भूसारं सारसाधारं सारं नीरं जलं जडम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
चित्संविज्ज्ञानसंवित्तिर्भगबोधोपलब्धयः ।तत्त्वं रहस्यं सारश्च परमार्थश्च निश्चयः ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
पृक्थमृक्थं च रिक्थं स्वं स्वापतेयं च रास्तथा ।ऋक्णमर्थो हिरण्यं स्याद् सारं द्युम्नं तथोच्यते ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
genderपुंmasc.
सारो मज्जा च मज्जा स्त्री वृक्षादेः सारभागके ।त्वक् स्त्री त्वचा त्वचं चोचं वल्कं वल्कलचोलकम् ॥
अनुष्टुप्
genderपुंmasc.
सारिः शारिः सारशारौ पाशा इत्यपि कुत्रचित् ।नयने सर्वमारीणां परिणायस्तु सर्वतः ॥
अनुष्टुप्
genderपुंmasc.
सारोऽस्त्रियां निधाने तु शेवधिर्नर-षण्ढभाक् ।शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हरः ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 टी (wrong syllable)
genderपुंक्लीm. n.
सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् ।जलं जडं च सलिरं सरिलं सलिरं तथा ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderक्लीneut.
जगत्प्राणो-जगत्प्राणौ गन्धाद्वाहि-वाह-वहाः ।वातिर्वातो भवेत् सारो दन्त्य-तालव्यपूर्वगः ॥ ११८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मूले वृक्षस्य बुध्नः स्याद् ब्रध्नोऽह्रिरङ्घ्रिसंयुतः ।मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥ १२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह्रि (wrong syllable); pāda 3, syllable 4 न्तो (syllables merged)
genderपुंmasc.
निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् ।स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥
गीतिः
genderपुंक्लीm. n.
गिरिसारोऽश्मसारश्च सरकः सार आयसः ।धूर्तसिंहाणमण्डूराण्यमूनि त्रीण्ययोमले ॥ ४१७ ॥
अनुष्टुप्
genderपुंmasc.
अप्रकाण्डे स्तम्बगुल्मौ द्रुमाङ्कः कण्टकोऽस्त्रियाम् ।समौ स्कन्धप्रकाण्डौ द्वौ सारो मज्जा समावुभौ ॥ ४४७ ॥
अनुष्टुप्
genderपुंmasc.
यकृत्कुहकसिध्मानि तीरं कशिपु जानु च ।धामार्द्धसारमित्राण्यङ्गदलन्यायबन्धुषु ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
चोचं वल्कं च सारस्तु मज्जा स्नावः किनाटकम् ।निष्कुटः कोटरो न स्त्री विदलं दारु पाटितम् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कुल्यं मेदोभवं मेदस्तेजो मज्जाकरं बलम् ।भारद्वाजं श्वदयितं सारसंघातकर्कराः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
स्थिराङ्गे रेतसि व्योम्नि सरणे च नरि त्रि तु ।सुन्दरोत्कृष्टयोर्दत्तस्तूत्कृष्टे नरमभ्यधात् ॥ १४८५ ॥
अनुष्टुप्
doubtful
न्याय्ये तु सिंहस्त्रिरिति दत्तस्तु क्लीति सा पुनः ।सारी स्त्री भ्रुकुटौ सालः पुनर्नान्ये तु नप्यपि ॥ १४८६ ॥
अनुष्टुप्
meaningsन्याय्य
अर्धं क्लीबे समांशार्थे धर्मं दानादिके पुनः ।सारं न्याय्ये खलं भुम्यां कामं चानुमतावपि ॥ ७८ ॥
अनुष्टुप्
meaningsन्याय्य
स्वरो नासानिलोदात्तध्वनिषड्जादिके पुमान् ।सारो मज्जास्थिरांशे च बलेऽप्यतिदृढे पुमान् ॥विपिनन्याय्यनीरेषु क्लीबलिङ्गं वरे त्रिषु ।सान्द्रं स्निग्धे मनोज्ञे च नालवाले नपुंसकम् ॥सिप्रो निदाघनीरे ना सिप्रा स्त्री सरिदन्तरे ।सूत्रन्तु सूजनाग्रन्थे व्यवस्थायाञ्च तन्तुषु ॥
अनुष्टुप्
सार as a meaning in nānārtha verses
- धरणिकोश निकरनिकरो निवहे सारे कपर्दानां विनिचये । सुषिरं विवरे वाद्ये संबन्धे सुषिरा नदी ॥ Dharaṇikośa 26.2.25
- कोषकल्पतरु मण्डषण्ढे पुंसि मतौ तु योषिति भवेत्पण्डोऽथ पाण्डुः सिते कुन्तीभर्तरि चास्त्रियां तु गदितः शाके च मस्तुन्यपि । एरण्डेऽपि च मण्डनेऽग्रगजले सारे च मण्डोऽथ स स्त्री धात्र्यां ना तु विधुंतुदे च दनुजे मुण्डोऽस्त्रियां मूर्धनि ॥ ७८ ॥ Koṣakalpataru 6.12.78
- कोषकल्पतरु निर्माणसमञ्जसे निर्मितिसारयोश्च दैवेऽपि निर्माणमुशन्ति विज्ञाः । अपाङ्गदेशे करिणां च मोक्षे निर्याणमुक्तं किल निर्गमेऽपि ॥ ३१ ॥ Koṣakalpataru 6.15.31
- कोषकल्पतरु निकरयादोविशेषे मकरो निधौ च राशिप्रभेदे निकरस्तु सारे । सङ्घे तथा न्यायगते च वित्ते ऽथो शीकरः स्त्री न कणे जलस्य ॥ ९७ ॥ Koṣakalpataru 6.27.97
- कोषकल्पतरु आकर्षउत्कोचसंभोगमनोज्ञमूर्ति- रूपादिकेषु प्रथितः प्रवीणैः । आकर्ष उक्तः फलके तु सारे द्यूते तथा पाशक इन्द्रिये च ॥ ५९ ॥ Koṣakalpataru 6.30.59
- नानार्थार्णवसंक्षेप गर्भशिशावपत्ये शुक्रे च समूहे सारबीजयोः । गन्धस्तु गन्धवद्द्रव्ये चन्दनादौ महीगुणे ॥ ४० ॥ Nānārthārṇavasaṃkṣepa 2.2.40
- नानार्थार्णवसंक्षेप धामन्गेहदेहप्रभावान्नभोजनव्योमजन्मसु । स्थानेऽधिकरणे सारे धने लक्ष्मणि चाप्यथ ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 2.3.35
- शिवकोष करककण्टकः कोरके वेणौ पद्मबीजे तु कण्टकम् । स्त्री शाल्मलीकछुरयोः करकः सारलट्वयोः ॥ १९ ॥ Śivakoṣa 1.3.19
- शब्दरत्नावली बलजपरञ्जस्तैलयन्त्रे तु फले च छुरिकादने । बलजं सङ्गरे क्षेत्रे शस्ये सारे च गोपुरे ॥ Śabdaratnāvalī 7.8.25
- शब्दरत्नावली मण्डमण्डः शाकविशेषे स्यादेरण्डदधिमण्डयोः । मण्डा त्वामलकीवृक्षे न स्त्रियां पिच्छसारयोः ॥ Śabdaratnāvalī 7.13.22
- शब्दरत्नावली निर्माणनिर्याणं क्लीबलिङ्गं स्यान्मतङ्गापाङ्गमोक्षयोः । निर्माणं निर्मितौ सारे परिमाणे हमञ्जसे ॥ Śabdaratnāvalī 7.15.42
- शब्दरत्नावली शितिशान्तोऽभियुक्तरसभिच्छान्तियुक्तेषु पुंस्ययम् । शितिस्त्रिषु सिते कृष्णे भूर्जे सारेऽपि च द्वयोः ॥ Śabdaratnāvalī 7.16.58
- शब्दरत्नावली निकरदासेरो दास्यपत्ये स्याद्ग्रामजाले नपुंसकम् । धूसरो ना खरे स्त्री तु किन्नर्यां पाण्डरे त्रिषु । निकरो निवहे न्याये धने सारे निधावपि ॥ Śabdaratnāvalī 7.27.80
- शब्दरत्नावली निष्ठुरनिकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च । निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् ॥ प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् । प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥ Śabdaratnāvalī 7.27.81
- त्रिकाण्डशेष मण्डसमूहे चान्तरावेद्यां मण्डः स्यात्सारपिच्छयोः । एरण्डे मस्तुनि क्लीबे मार्तण्डौ खगदंष्ट्रिणौ ॥ ११५ ॥ Trikāṇḍaśeṣa 3.3.115