कुडव
kuḍavaपुं · masc.In 9 kośas: 8 synonym verses, 3 as a meaning of another word.
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।
अनुष्टुप्
genderपुंmasc.
अपि स्यात्कार्षिकस्तत्र कार्षिके ताम्रिके पणः ।पणैश्चतुर्भिः कुडवस्तावद्भिः कुडवैरपि ॥ ५२६ ॥
अनुष्टुप्
genderपुंmasc.
प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः ।अष्टमानं च कुडवः सेटकः कुटपश्च सः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
तुलानां विंशतिर्भार आचितः शाकटोऽपि च ।कुडवानां चतुष्केन प्रस्थः स्यात्पुंसलिङ्गकः ॥ ४१२ ॥
अनुष्टुप्
genderपुंmasc.
उभयाञ्जलिमानं वै प्रसृतं कुडवोऽथवा ।चतुर्भिः कुडवैः प्रस्थः प्रोच्यते हि महीतले ॥ १४८८ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्रियामाटकद्रोणौ खारी वाहो निकुञ्चकम् ।कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।तुर्योभागन्तु पादः स्यादंशो भागश्च वण्टकः ॥
अनुष्टुप्
genderपुंmasc.
शाकटोऽपि शलाटश्च शरारोऽपि तुरीयके ।प्रस्थभागे कुटपः स्यात् कुडवः कुलवोऽपि च ॥ ३२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
genderपुंmasc.
कुडव as a meaning in nānārtha verses
- धरणिकोश अञ्जलिशैवलं पद्मकाष्ठे च कमलं चातकेऽपि च । अञ्जलिः कुडवेऽपि स्याच्छ्रद्धालुर्दोहदिन्यपि ॥ Dharaṇikośa 27.1.9
- कोषकल्पतरु अञ्जलितरुणीनामनि तु स्त्री[ग]न्धोली स्त्री वरट्यां स्यात् । भद्राशच्योश्च कुडवकरसंपुटयोस्तथाञ्जलिः पुंसि ॥ ६९ ॥ Koṣakalpataru 6.28.69
- शब्दरत्नावली अञ्जलिअचलः पर्वते पुंसि भुवि स्त्री निश्चले त्रिषु । अञ्जलिः पुंसि कुडवे हस्तभेदेऽपि कीर्त्यते ॥ Śabdaratnāvalī 7.28.42