आढक
āḍhakaपुं · masc.In 12 kośas: 13 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।
अनुष्टुप्
genderपुंक्लीm. n.
प्रस्थौ स्त्रियामाढकः स्यात् त्रिषु द्रोणोऽस्त्रियां पुनः ।खारी स्त्री षोडशद्रोणैस्ताभिः षोडशभिः पुनः ॥ ५२७ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
कुडवौ द्वौ सरावोऽस्त्री प्रस्थोऽस्त्री तौ च मानिका ।त्रिष्वाढकश्चतुःप्रस्थो द्रोणोऽस्त्री चतुराढकः ॥ १२ ॥
अनुष्टुप्
genderविadj.
हरीतकविभीतकामलकवच्च भल्लातका-ढकौ पिटक-तारकौ करक ईरितोऽब्दोपले ।स्फुलिङ्गस[दृ]शं विडङ्गमथ किंच केदारका-र्थकश्च वलजो वटः पटपुटौ[235b]तटः पेटवत् ॥ ८६ ॥
पृथ्वीmetre not read in every line
genderपुंस्त्रीक्लीm. f. n.
आढकस्तु चतुर्भिः स्यात्प्रस्थैरथ तथाढकैः ।चतुर्भिर्द्रोणनामाथ खारी षोडशभिश्च तैः ॥ ४१३ ॥
अनुष्टुप्
genderपुंmasc.
तटपुटवटवाटाः कुण्डपेटौ कपाटःकटशकटविडङ्गास्तारकस्तूणनीडौ ।पटपिटकविषाणा आढको मण्डलस्तुकुवलपिठरछत्राः कङ्कतः कन्दलोऽपि ॥ १७६ ॥
मालिनीmetre not read in every linenearly मालिनी: pāda 2, syllable 6 र (wrong syllable)
genderविadj.
कार्षापणः कार्षिकश्च पणश्चाचित इत्यपि ।चतुःप्रस्थपरीमाणे त्वाढको द्रोण इष्यते ॥ ५३० ॥
अनुष्टुप्
genderपुंmasc.
आढकश्चतुर्भिः प्रस्थः द्रोणश्चतुर्भिराढकैः ।खारी षोडशभिर्द्रोणैर्मन्यते व महीतले ॥ १४८९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अस्त्रियामाटकद्रोणौ खारी वाहो निकुञ्चकम् ।कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।तुर्योभागन्तु पादः स्यादंशो भागश्च वण्टकः ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
ते चत्वारोऽस्त्रियां प्रस्थ आढकस्तच्चतुष्टयम् ।तौ द्वौ शिवस्तौ द्रोणस्तौ खारी वाहो निकुञ्चकः ॥ १५०० ॥
अनुष्टुप्
genderपुंmasc.
कोणप्रतिग्राहि शिरोविष्टब्धिकरमाढकम् ।सूकरी तूपरिस्थूणा सन्धिकाष्ठं तु वासिकम् ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
माषशाणस्तलं मुष्टिरंजलिः प्रस्थ आढकः ।द्रोणो गोणी च खारी च क्रमादेतच्चतुर्गुणम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
इत्येवमाखादने च त्रिषु त्वास्वादिते भवेत् ।आढकोऽस्त्री चतुष्प्रस्थपरिमाणे स्त्रियां पुनः ॥ १७० ॥
अनुष्टुप्
meaningsचतुष्प्रस्थपरिमाण
आढक as a meaning in nānārtha verses
- कोषकल्पतरु द्रोणप्रायो भूम्न्यसुषु त्रिषु त्वयमिह स्यात्पूरितेऽथ द्रुणं चापेऽसौ च पुमांस्तु वृश्चिकगतो भृङ्गेऽथ कूर्म्यां द्रुणी । वार्द्रोण्यां च कृपीपतौ तु गदितः पुंस्याढके तच्चतु- ष्के द्रोणः करटेऽसिते द्रुणिरिव द्रोणी च नीवृद्भिदि ॥ ५ ॥ Koṣakalpataru 6.15.5
- नानार्थार्णवसंक्षेप कांस्यकार्यं प्रयोजने क्लीबं कर्तव्ये त्रिरथास्त्रियाम् । कांस्यं स्यादाढके पानपात्रे घोषाख्यतैजसे ॥ १९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.199
- नानार्थार्णवसंक्षेप राशिराशिः क्रत्वन्तरे पुञ्जे मेषादावाढके च ना । साम्नोस्त्वग्निन्नरोवर्गगीतयोः स्यान्नपुंसकम् ॥ ११०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1105
- नानार्थार्णवसंक्षेप शतमानशतोन्मिते तण्डुलानां व्रीहेः कर्षद्वये परे । आढके त्वाह कश्चिद्वै शतपत्त्रं तु पङ्कजे ॥ ५९३ ॥ Nānārthārṇavasaṃkṣepa 6.593
- शब्दरत्नावली द्रोणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- वैजयन्ती कांस्यकांस्यं कंसोऽस्त्रियां पानपात्रे तैजस आढके । काण्डोऽस्त्रीषौ बले नाले गर्ह्येऽवसरवर्गयोः ॥ ११ ॥ Vaijayantī 6.5.11