गर्ह्य
garhyaवि · adj.In 11 kośas: 8 synonym verses, 18 as a meaning of another word.
गुणोपसर्जनोपाग्र्याण्यप्रधानेऽधमं पुनः ॥ १४४१ ॥निकृष्टमणकं गर्ह्यमवद्यं काण्डकुत्सिते ।अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ ॥खेटं पापमपशदं कुपूयं चेलमर्व च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderविadj.
निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः ।कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥
अनुष्टुप्
genderविadj.
कुपूयकुत्सितावद्यखेटगर्ह्याणका अपि ।स्युर्वाच्यलिङ्गा मलिनं कल्मषं च मलीमसम् ॥ १०४ ॥
अनुष्टुप्
genderविadj.
द्वयहीनं त्वप्रधानमुपसर्जनमित्यपि ।निकृष्ट-प्रतिकृष्टापकृष्ट-याप्यावमाधमाः ॥रेप-रेफ-कुपूयार्व-कपूयावद्य-गर्हिताः ।गर्ह्य-कुत्सित-खेटापसद-चेल-ब्रुवाणकाः ॥ ७० ॥
अनुष्टुप्
genderविadj.
प्रकाण्डतल्लजेत्यादिशब्दा ज्ञेया यथायथम् ।अप्रधानाधमे गर्ह्यमणकं कुत्सितं पुनः ॥ ३३० ॥
अनुष्टुप्
genderविadj.
अधममणकं गर्ह्यं निकृष्टं काण्डकुत्सिते ।अवद्यमपकृष्टञ्च प्रतिकृष्टं ब्रुवं पुनः ॥ २६२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderविadj.
अधमस्तु निकृष्टोऽर्वा कुपूयः कुत्सितोऽवमः ।खेटगर्ह्यावद्ययाप्या अणकः रेकरेपसौ ॥
अनुष्टुप्
genderविadj.
प्रतिकृष्टनिकृष्टार्वरेफगर्ह्याधमावमाः ।कुपूयः कत्सितः खेटो याप्योऽवद्योज्वरोऽणकाः ॥ १५८३ ॥
अनुष्टुप्
genderविadj.
गर्ह्य as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् हीनहीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ । Amarakośa 3.3.242
- नामलिङ्गानुशासनम् वक्तव्यगर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ । Amarakośa 3.3.303
- धरणिकोश प्रतिकृष्टप्रतिसृष्टश्च प्रहिते दत्तप्रख्यातयोरपि । प्रतिकृष्टं विदुर्गर्ह्यं द्विरावृत्या च कर्षितम् ॥ Dharaṇikośa 10.2.16
- धरणिकोश काण्डकाण्डं चावसरे बाणे नाले स्कन्धे च शाखिनाम् । स्तम्बे रहसि वृन्दे च गर्ह्यपानीययोरपि ॥ Dharaṇikośa 12.2.1
- धरणिकोश हनिइनः सूर्ये प्रभौ राज्ञि योनिः स्यादाकरे भगे । हनिन्यूनौ [च?] गर्ह्यार्थौ सूनुः पुत्रेऽनुजेऽपि च ॥ Dharaṇikośa 19.1.5
- धरणिकोश अधमप्रथमौ तु प्रधानादी अधमो हीनगर्ह्ययोः । कुसुमे स्त्रीरजःपुष्पे तलिमे तल्पकुट्टिमौ ॥ Dharaṇikośa 24.1.5
- कोषकल्पतरु न्यूनन्यूनं च हीनं त्रिषु गर्ह्य ऊने दीनस्तु भीते त्रिषु दुर्गते च । स्त्रियां त्वसौ मूषिक[11a]योषिति स्या- द्बुध्नस्तु शंभौ गदितोऽपि मूले ॥ ९१ ॥ Koṣakalpataru 6.21.91
- कोषकल्पतरु वक्तव्यवक्तव्यमाहुः स्ववशे च गर्ह्येऽ- न्वयस्तु सम्बन्धकुलाभिधायाम् । पुरद्रुमः स्यात्खगभिज्जटायु- रूर्णायु[रु]रभ्र[स्य]कुथेऽप्युरभ्रे ॥ ८० ॥ Koṣakalpataru 6.26.80
- नानार्थार्णवसंक्षेप हीनत्रिरूनगर्ह्ययोर्ना तु नागकेसरपादपे । हीरः पुंसि शिवे द्वे तु सर्पे सिंहे च स त्रि तु ॥ १५९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1597
- नानार्थार्णवसंक्षेप अखिलअवरस्त्वप्रशस्ते स्यादर्वाच्यप्यखिलं पुनः । कृत्स्ने गर्ह्येऽनुगस्तु स्यादनुगामिनि सेवके ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 3.4.3
- नानार्थार्णवसंक्षेप अवद्यअगर्ह्ये चाथ रभसः प्रमादीदमवोचत । अवद्यमपशब्दे च गर्ह्ये चेत्याप्लुतः पुनः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 3.4.5
- शब्दरत्नावली प्रतिकृष्टपुरपुष्टः कोकिले स्यात् स्त्रियां वारस्त्रियामपि । प्रतिकृष्टन्तु गर्ह्ये स्याद् द्विष्णवल्या च कर्षिते ॥ Śabdaratnāvalī 7.11.59
- शब्दरत्नावली न्यूनधानाः स्त्रियां भृष्टयवे धन्याकेऽभिनवाङ्कुरे । धेना नद्यां नदे पुंसि न्यूनं गर्ह्योनयोरपि । नग्नस्त्रिषु विवसने बन्दिक्षपणयोः पुमान् ॥ Śabdaratnāvalī 7.20.13
- शब्दरत्नावली हीनहनुः कपोलावयवे द्वयोर्नृत्यपदेऽस्त्रियाम् । स्त्रियां हट्टविलासिन्यां हीनं गर्ह्योनयोस्त्रिषु ॥ Śabdaratnāvalī 7.20.25
- शब्दरत्नावली अधमअधमो गर्ह्यन्यूने स्यादागमः शास्त्र आगतौः ॥ Śabdaratnāvalī 7.25.31
- वैजयन्ती याप्ययाप्यं गर्ह्ये यापनीये पृथक्संयुक्तयोर्युतम् । न्याय्यसंयुक्तयोर्युक्तं रूक्षो निष्प्रेम्ण्यचिक्कणे ॥ १३ ॥ Vaijayantī 6.4.13
- वैजयन्ती काण्डकांस्यं कंसोऽस्त्रियां पानपात्रे तैजस आढके । काण्डोऽस्त्रीषौ बले नाले गर्ह्येऽवसरवर्गयोः ॥ ११ ॥ Vaijayantī 6.5.11
- वैजयन्ती अखिलअधमौ गर्हितन्यूनावभीकौ निर्भयाभिकौ । प्रत्यक्षेऽधिकृतेऽध्यक्षमखिलं गर्ह्यकृत्स्नयोः ॥ १ ॥ Vaijayantī 7.4.1