जघन्य
jaghanyaवि · adj.In 13 kośas: 16 synonym verses, 5 as a nānārtha head word.
एकात्तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ १४५८ ॥पौरस्त्यं प्रथमं पूर्वमादिरग्रमथान्तिमम् ।जघन्यमन्त्यं चरममन्तपाश्चात्त्यपश्चिमे ॥ १४५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
genderविadj.
अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः ।
अनुष्टुप्
genderविadj.
उपाधिर्धर्मचिन्ता स्यान्निःशोध्यमनवस्करः ।कुप्रियं च जघन्यं स्यान्निःशेषं न्यक्षमिष्यते ॥ ७७० ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमोन्तोऽस्त्री जघन्यश्चरमोन्तिमः ।पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥ १४० ॥
अनुष्टुप्
genderविadj.
माध्यंदिनमथान्तोऽस्त्री जघन्यमवरान्तिमे ।पश्चिमापर-पाश्चात्त्याः पश्चात्तु चरमेऽव्ययम् ॥ ९६ ॥
अनुष्टुप्
genderविadj.
जिह्मभुग्ने अरालं चादिमादी प्रथमः पुनः ।पौरस्त्यमग्र्यपूर्वे च जघन्यान्तेऽन्तिमं मतम् ॥ ३४५ ॥
अनुष्टुप्
genderविadj.
अन्ते जघन्यं चरमं पश्चिमं नीचमित्यपि ।उल्बणं च स्फुटं स्पष्टेऽप्येकाकी त्वेक एककः ॥ ७०१ ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमः पूर्व आदिराद्यादिमोऽग्रिमः ।जघन्यः पश्चिमोऽन्त्यश्च पाश्चात्त्यश्चरमोऽन्तिमः ॥ ९९ ॥
अनुष्टुप्
genderविadj.
अन्त्यमन्तिममन्तश्च पाश्चात्यं पश्चिमं पुनः ।जघन्यं चरमं चेति नामानि चरमस्य वै ॥ २६५३ ॥
अनुष्टुप्
genderविadj.
जघन्यजः कणिष्ठः स्यात् कनीयान् अतुजोऽपि च ।स्याद्यवीयान् अवरजो जघन्योऽपि च कुत्रचित् ॥
अनुष्टुप्
genderविadj.
शूद्रो जघन्यजो दासः पादजोऽवरवर्णजः ।अन्त्यजन्मा च वृषलो जघन्यो द्विजसेवकः ॥
अनुष्टुप्
genderपुंmasc.
प्रथमे पूर्वपौरस्त्यौ भवेदादिः पुमानिह ।अन्तोऽस्त्रियान्तु चरमं स्याज्जघन्यान्त्यपश्चिमम् ॥
अनुष्टुप्
genderविadj.
आदिराद्योऽग्रिमः पूर्वः पौरस्त्यः प्रथमादिमौ ।अन्तो जघन्यः पाश्चात्यश्चरमोऽन्त्योऽन्तिमोऽपरः ॥ १६७९ ॥
अनुष्टुप्
genderविadj.
पत्रांगं रञ्जनं सेव्यं धूर्तमैरावतं लसम् ।कुचन्दनं जघन्यं च रक्तं च तिलपर्ण्यपि ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
जघन्यं तु कुपूयं स्यादसारं लघु फल्गु च ।पुंस्यादिराद्यपौरस्त्यप्रथमप्रमुखादिमाः ॥ ७६ ॥
अनुष्टुप्
genderविadj.
अग्र्यं त्वग्रिममग्रस्थं मध्यमीयं तु मध्यमम् ।अन्त्ये जघन्यपाश्चात्यचरमान्तिमपश्चिमाः ॥ ७७ ॥
अनुष्टुप्
genderविadj.