कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

थान्ताः · थपादः

॥ [इति तान्तवर्गः]॥

॥ थपादः ॥

कुथं कुशे प्रवेण्यां च प्रस्थः स्यात्सानुमानयोः ।तुथौ गन्धाश्वभेदौ च रथः स्यन्दनदेहयोः ॥
16.1.1 · p. 89
अनुष्टुप्
ग्रन्थः शास्त्रे धने चैव पार्थौ ककुभपाण्डवौ ।यूथौ जातकुरुण्टौ च गाथा वाग्भेदवृत्तयोः ॥
16.1.2 · p. 89
अनुष्टुप्
निर्ग्रन्थः क्षपणे निःस्वे क्षवथुः क्षुतकासयोः ।मन्मथौ स्मरकपित्थौ सिद्धार्थौ बुद्धसर्षपौ ।गोग्रन्थिः करवीरे तु षड्ग्रन्था तु शटी वचा ॥
16.1.3 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)