ग्रन्थि
granthiपुं · masc.In 18 kośas: 22 synonym verses, 7 as a nānārtha head word, 13 as a meaning of another word.
ग्रन्थिः पर्व परुर्बीजकोशी शिम्बा शमी शिमिः ॥ ११३० ॥शिम्बिश्च पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः ।कृष्णावासो बोधितरुः प्लक्षस्तु पर्कटी जटी ॥ ११३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः ।
अनुष्टुप्
genderपुंmasc.
शलाटुः कोमलं प्रोक्तं वानं शुष्कफलं भवेत् ।बीजकोशी शमी शिम्बा ग्रन्थिः पर्व परुस्तथा ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
तन्मध्यसंधिर्ग्रन्थिः स्त्री क्लीबे पर्व परुः पुनः ।यदङ्गुष्ठाङ्गुलीमध्ये तत्स्यात्क्षिप्रं पुनस्ततः ॥ १७५ ॥
अनुष्टुप्
genderस्त्रीfem.
पेशी कर्कटकी च स्त्री पक्वं तत्तु पचेलिमम् ।निर्यासोऽस्त्री वृक्षरसो बीजं त्वङ्कुरकारणम् ।परु-ग्रन्थी ग्रन्थव(गु ?)ल्माः स्तः पर्व-परुषी समे ।* * * * * * * * बीजकोशी शमी शिमिः ।शिम्बिः शिम्बा चाथ सर्वं मूले पुष्पे फले भवेत् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
तुबरो वशिरस्तीक्ष्णस्तथा कुक्कुटमस्तकः ।मूलं तु ग्रन्थिकं ग्रन्थिः षड्ग्रन्थिचटिकाशिरः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
पुरादीनि नपुंसके विजानीयात् । इदं पुरं नगरम् । मधु क्षौद्रम् । जगद्विश्वम् । अर्च्चिःशब्दः स्त्रियां भवति वा । इयमर्चिः । इदमर्चिर्दीप्तिः । त्वतलौप्रत्ययौ यथासङ्ख्यं नपुंसकस्त्रीविधौ द्रष्टव्यौ । ब्राह्मणस्य भावो ब्राह्मणत्वं ब्राह्मणता । एवमिदं शूद्रत्वं इयं शूद्रता । अहःशब्दः यदा सङ्ख्यादिः तदा पुंल्लिङ्गो भवति । अयमेकाहः द्व्यहः त्र्यहः । सङ्ख्यादेरिति किम् । पुन्याहम्? । प्रत्यहम् ।रुत्वन्ताः पुंसि कशेरुदारुजतुवस्तुमस्तूभिस्त्यक्ताः ।स्युः सग्रन्थिप्रस्था इसुसू ष्य[घ्य]ञन्तानां नपुंसकता ॥ ४४ ॥
metre not recognised
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् ।ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
आमं शलाट्वथ ग्रन्थिः शिम्बिः शिम्बा शमिः परुः ।बीजकोशीपर्वणी च पिप्पलो बोधिपादपः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
वह्न्यग्निदीदिविग्रन्थिकृमयो वमतिस्तथा ।गिरिजायू दृतिः शिश्रुरर्दनिः कलिरञ्जलिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
अन्तरीयं निवसनं परिधानमधोंशुकम् ।नीवी तद्बन्धनं ग्रन्थिः प्रालम्बं जुम्बणं समे ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
गोविट् गोमयमाख्यातं पवित्रं भूमिलेपनम् ।गोग्रन्थिः छगणं चैव करीषं शुष्कगोमयम् ॥ २२९७ ॥
अनुष्टुप्
genderपुंmasc.
ग्रन्थिर्ना परुषं क्लीबे परु पर्व च पर्वकम् ।शरो मुञ्जस्तेजनकः सरः स्यात् गुन्द्र इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शस्यं तालव्य-दन्त्यादि वानावाने तु शुष्कके ।ग्रन्थौ पकः षण्ढं सन्तं पसश्च बीजकोशिका ॥ १३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
परुः पर्व पुमान् ग्रन्थिर्विस्तारो विटपोऽस्त्रियाम् ।शाखालता स्कन्धशाखा शाला तुल्ये शिफाजटे ।अवरोहस्तु सा शाखा या मूलादग्रमाश्रिता ॥ ४४५ ॥
अनुष्टुप्
genderपुंmasc.
विदलः पाटितं दारु काष्ठं दार्विन्धनैधसी ।इध्ममेधः समित् स्त्री स्याद्वं शिर्ना परुरङ्कुरः ॥ ४५३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
पुंस्त्वे हाहा हूहू-र्ग्रन्थिः पाणिः कलिर्दृतिर्मौलि ।अञ्जलिङ्घ्रिः कुक्षिर्लावकलोकोत्तरासङ्गाः ॥ २ ॥
metre not recognised
genderपुंmasc.
प्ररोहश्चाथ वंशः स्याद्योंऽकुरः पर्वसूत्थितः ।परुः पर्व पुमान् ग्रंथिर्निर्यासः खपुरो लशः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.doubtful
ग्रन्थिर्बन्धो व्रजो गोष्ठो गौष्ठीनं तु पुरा व्रजः ।मन्थस्तु मन्था मन्थानो वैशाखः खजकोऽपि च ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
पृथुरादिनृपे प्रोक्तः कृष्णजीरे महत्यपि ।ग्रन्थिर्व्याघिविशेषः स्याद्ग्रन्थिः कौटिल्यपर्वणोः ॥
अनुष्टुप्
ग्रन्थस्तु शास्त्रे द्रविणे द्वात्रिंशद्वर्णसञ्चये ।वचस्यथ ग्रन्थिरिक्षुवेण्वादेः काण्डयोर्द्वयोः ॥ ४४ ॥
अनुष्टुप्
meaningsकाण्डसन्धि
सन्धौ ग्रन्थनदेशे च रज्जुवस्त्रादिवस्तुनः ।रोगभेदेऽप्यथ गरुत् पक्षिपक्षे च तेजसि ॥ ४५ ॥
अनुष्टुप्
ग्रन्थिः स्यात्पिप्पलीमूले ग्रन्थिपर्णे तु नो नरि ॥ २१३ ॥
गन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च ।ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते ।तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि ।तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु ।प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 1 तट (syllable split); pāda 3, syllable 4 ब (wrong syllable)
ग्रन्थि as a meaning in nānārtha verses
- धरणिकोश नीवीनीवीं ग्रन्थिं विदुर्नारीजघनस्य च वाससः । धनं चोपचयाजीवैर्मूलं यस्य न हिंस्यते ॥ Dharaṇikośa 28.3.8
- कोषकल्पतरु पर्वन्पर्वोत्सवेऽन्त्ये तिथिपञ्चके च ग्रन्थौ च दर्शप्रतिपत्सुसंधौ । प्रस्तावके लक्षणभिद्यपि स्यात् तद्वत्प्रदिष्टं विषुवादिकेषु ॥ ८९ ॥ Koṣakalpataru 6.21.89
- नानार्थार्णवसंक्षेप परुस्पयः सामान्तरे दुग्धे रजन्यामन्नतोययोः । परुरिक्ष्वादिकग्रन्थौ धर्मे पाजो बलान्नयोः ॥ ४० ॥ Nānārthārṇavasaṃkṣepa 2.3.40
- नानार्थार्णवसंक्षेप पर्वन्इक्षुवेण्वादिदण्डानां ग्रन्थौ त्वेवेति केचन । पद्वा वत्से द्वयोः पुंसि त्वन्ये गत्यवसानयोः ॥ ७४० ॥ Nānārthārṇavasaṃkṣepa 2.5.740
- नानार्थार्णवसंक्षेप पाशपाशो ना पाशनायां सुब्धातोः पाशयतेर्घञि । रज्ज्वादिप्रान्तविन्यस्तग्रन्थिभेदे तथा पुनः ॥ ७५३ ॥ Nānārthārṇavasaṃkṣepa 2.5.753
- परमानन्दीयनाममाला पर्वन्प्लक्षो द्वीपे वटे स्वच्छे पटुर्नीरोगदक्षयोः । पर्व ग्रन्थौ पुराणाङ्गे दर्शप्रस्तावयोरपि ॥ ३०२ ॥ Paramānandīyanāmamālā 5.19.302
- शब्दरत्नावली आकल्पकप्रीत्युत्कण्ठा तमोमोहग्रन्थिष्वाकल्पको मतः । वायुव्याधौ व्याधनिन्दाकरेष्वाक्षेपको भवेत् ॥ Śabdaratnāvalī 7.1.158
- शब्दरत्नावली पर्वन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नाकर पर्वन्पर्व पञ्चदशीग्रन्थ्योः प्रस्तावे विषुवादिके । पार्श्वमस्त्री समीपे च प्रजा तु जनपुत्रयोः ॥ १९६१ ॥ Śabdaratnākara 4.1.1961
- त्रिकाण्डशेष शुकशङ्कुः कीलकसङ्ख्यास्त्रजलजन्तुषु दृश्यते । शिशुकः शिशुमारेऽपि शुकं ग्रन्थिशिरीषयोः ॥ ४४ ॥ Trikāṇḍaśeṣa 3.3.44
- त्रिकाण्डशेष पर्वन्ग्रन्थिप्रस्तावयोः पर्व विषुवत्प्रभृष्वपि । प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः ॥ २४६ ॥ Trikāṇḍaśeṣa 3.3.246
- वैजयन्ती पर्वन्पर्व ग्रन्धौ पंचदश्यां प्रस्तावे विषुवादिके । पक्ष्म सूत्राद्यवयवे किंजल्के नेत्रलोमसु ॥ १९ ॥ Vaijayantī 6.3.19
- वैजयन्ती काण्डग्रन्थौ स्तंबे प्रकाण्डेप्सु कश्यं मद्यकशार्हयोः । क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ॥ १२ ॥ Vaijayantī 6.5.12