करीर
karīraपुं · masc.In 15 kośas: 26 synonym verses, 11 as a nānārtha head word, 15 as a meaning of another word.
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः ।कुटः कुम्भः करीरश्च कलशः कलसो निपः ॥ १०१९ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
genderपुंmasc.
कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् ।घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
कुम्भश्च कलसोऽपि स्यात्करीरोऽपि कुटोऽस्त्रियाम् ।निपोप्यथ स्त्रियां पारी दोहनी रोहणीति च ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्री करीरो वंशाग्रं तद्ग्रन्थौ तु द्वयोः परुः ।पर्वा स्त्री काण्डसन्धिर्ना परुः पारु त्वगस्य तु ॥ १२५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
ग्रन्थिलः कृकरो गूढपत्रः स्यात्कररः पुनः ।करीरोऽपि च कारीरो निःपत्रस्तीक्ष्णकण्टकः ॥ ३२० ॥
अनुष्टुप्
genderपुंmasc.
करीरवज्रयोस्तद्वच्छेखरस्य पलस्य च ।भालालवालभूलानां खलपल्वलयोरपि ॥ १८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
करीरो ना मृदुफलः क्रकरः क्रकचोऽस्त्रियाम् ।शाकपुष्पो गूढपत्रस्तीक्ष्णसारो हुताशनः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वंशादेरङ्कुरोऽस्त्री स्यात्करीरोऽथ तुका तुगाः ।तुगाक्षीरी तवक्षीरी त्वक्क्षीरी नादिमे शुभा ॥ ४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हस्तिनासा करः शुण्डा तद्धस्ताग्रं तु पुष्करः ।विषाणौ त्रिषु दद्दन्तौ करीरं दन्तमूलकम् ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः ।* * * * * * * * कुम्भी कुम्भीरुखा कुला ।चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु ।घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ ।घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
हिञ्जीरमञ्जीरशरीरजीराःकर्पूरवन्नूपुरकर्णपूराः ।शृङ्गारकान्तारकरीरकूरा-न्धकारवत्कूबरबेरमेढ्राः ॥ ६० ॥
उपजातिः
genderपुंक्लीm. n.
चुल्यधिश्रयिणी स्थाली पिठरोखे चरुस्तथा ।कुटो निपो कटः कुम्भः करीरकलसौ समौ ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
मातुलिङ्गो मातुलुङ्गो बीजपूरे तु कथ्यते ।-------------------- करीरे क्रकरो मतः ॥ ७३ ॥
metre not recognised
genderपुंmasc.
वाहोत्थमप्यथ क्लीबे करीरं दन्तमूलके ।स्याद्दन्तकुम्भमध्ये तु प्रतिमानं च मानकम् ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
घटः कुम्भः करीरश्च कलशः कलसः कुटः ।निपश्चेत्यादिनामानि मन्यन्ते पण्डितै जनैः ॥ १७५३ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
करीरमस्ति वंशस्याङ्कुरेऽग्रं पूर्वभागतः ।काण्डमेरण्डवंशादौ विरूढः स्यात् फलाङ्कुरे ॥ २१३५ ॥
अनुष्टुप्
genderक्लीneut.
मूलपत्रकरीराग्रफलकाण्डविरूटकम् ।त्वक् पुप्पं कवकञ्चैव शाकं दशविधं स्मृतम् ॥
अनुष्टुप्
genderक्लीneut.
अनिलोत्थस्वने वंशे वंशमात्रे च कीचकः ।अथ वंशाङ्कुरे न स्त्री करीरं करिरं तथा ॥
अनुष्टुप्
genderपुंक्लीm. n.
केसराम्लोऽम्लकेसरो मातुलिङ्गश्च लिङ्गवत् ।मातुलुङ्गोऽपि, ग्रन्थिले करीर-क्रकरौ समौ ॥ १८१ ॥
metre not recognised
genderपुंmasc.
शतपर्वाप्यथ क्ष्वेलः करीरोऽस्त्री तदङ्कुरः ।कीचका वेणवस्ते ये स्वनन्त्यनिलपूरिताः ॥ ६५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पद्मानि स्युर्बिन्दवोऽन्नं विधानंशुण्डा हस्तश्चूलिका कर्णमूलम् ।स्यान्निर्याणं दृष्युपान्तः करीरंदन्तादिः स्याद्दन्तभागोऽग्रभागः ॥ ६९९ ॥
शालिनी
genderक्लीneut.
अलिञ्जरो द्वयोः कुम्भघटौ पुंसि निपः कुटः ।कलशं त्रिषु वा क्लीबे करीरः कर्करी स्त्रियाम् ॥ ८९७ ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गारो हेमकरकः करंको नालिकेरजः ।निपो घटः कुटः कुंभः करीरः कलशी त्रयी ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
रतिभुक्त्योः सम्भोगः पथिदेये स्त्रीधने च शुल्कं स्यात् ।वंशाङ्कुरे करीरं वृक्षविशेषेऽपि कथयन्ति ॥ ८२८ ॥
आर्या
मसूरश्च मसूरी च व्रीहौ पापरुजि क्रमात् ।करीरस्तरुभेदः स्यात्कलशे वैणवाङ्कुरे ॥
अनुष्टुप्
करिणः प्रेरयितरि करकस्तु पुमानयम् ।कमण्डलौ च कर्कर्यां शण्डे त्वप्याह कश्चन ॥ ३१५ ॥
अनुष्टुप्
meaningsकरिप्रेरक
doubtful
कशिपुर्भोजने वस्त्रे करीरः स्याद्द्रुमान्तरे ।कलशे वैणवाङ्कूरे कपिलो वासवे मुनौ ॥ ११५ ॥
अनुष्टुप्
शबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् ।कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् ।कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् ।करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)
अस्त्री त्वह्नोऽष्टमे भागे कर्बुरः पुंसि राक्षसे ।वर्णे च कर्बुरं हेम्नि करीरस्तु घटे पुमान् ॥ २०७६ ॥
अनुष्टुप्
meaningsघट
वंशाङ्कुरे हस्तिदन्तमूलभागेऽपि न स्त्रियाम् ।यज्ञायुधे कर्परे च कपालं पुंनपुंसकम् ॥ २०७७ ॥
अनुष्टुप्
doubtful
करीरो ना घटे न स्त्री पादपे वैणवांकुरे ।करेणुस्तु करिण्यां स्त्री कर्णिकारे गजे च ना ॥ १९ ॥
अनुष्टुप्
करीर as a meaning in nānārtha verses
- धरणिकोश ग्रन्थिककार्मुकः कर्मशक्ते स्यात्कांर्मुकं धनुषि स्मृतम् । ग्रन्थिकं पिप्पलीमूले सहदेवकरीरयोः ॥ Dharaṇikośa 1.2.33
- कोषकल्पतरु ग्रन्थिकवरुणेऽपि जम्बुकः स्याद्- ग्रन्थिक आद्ये करी[रः]स्यात् । गुग्गुलुमाद्रीसून्वो- र्दैवज्ञेऽन्त्ये तु पिप्पलीमूले ॥ ९२ ॥ Koṣakalpataru 6.1.92
- कोषकल्पतरु चोलकीकरिण्यां धेनुका धेनौ पुंलिङ्गे दनुजान्तरे । मल्लिका तृणशूल्ये ना हंसभिद्दीपपात्रयोः । चोलकी नागरङ्गे च करीरे किष्कुपर्वणि । नग्नाचार्ये हिण्डकः स्याद्दीनाया[256b]मपि मूषिका ॥ १८ ॥ Koṣakalpataru 6.1.18
- कोषकल्पतरु कोशागतुरगी तु वाजिगन्धा पुंसि हंसे तु चक्राङ्गः । चक्राङ्गी कटुकायां कोशागः स्यात्करीरेक्ष्वोः ॥ २७ ॥ Koṣakalpataru 6.3.27
- कोषकल्पतरु गोग्रन्थिनिर्मन्थ उक्तोऽथ करीरगोष्ठ- दार्वीषु गोग्रन्थिरिति प्रदिष्टिः । अथाव्यथोऽहौ नरि निर्व्यथेऽन्य- लिङ्गोऽभयायां गदितः स्त्रियां सः ॥ १२ ॥ Koṣakalpataru 6.18.12
- कोषकल्पतरु कुण्डलिन्स्यात्कुण्डली वारिपतौ पराभः सकुण्डले वेणुकरीरयोस्तु । नारङ्गके पुंसि च चोलकी स्या- त्स्याच्चर्मपाणौ फलकी च मत्स्ये ॥ ४४ ॥ Koṣakalpataru 6.21.44
- कोषकल्पतरु ग्रन्थिलवास्तुके स्रुवतरौ तु पुंगतो ग्रन्थिलोऽपरसमः स पर्वणि । स्यात्करीरधरणीधरे पुमान् वामदाम्भिकगतस्तु वामिलः ॥ २६ ॥ Koṣakalpataru 6.28.26
- नानार्थार्णवसंक्षेप ग्रन्थिलग्रन्थिलस्तु पुमाञ्ज्ञेयः करीरद्रौ विकङ्कते । भेद्यवद्ग्रन्थिसहिते रभसेनेदमीरितम् ॥ ६५५ ॥ Nānārthārṇavasaṃkṣepa 4.655
- नानार्थार्णवसंक्षेप चोलकिन्पुमांस्तु नागरङ्गे च करीरे किष्कुपर्वणि । चौरिको ना पुराध्यक्षे द्यूतकारे तु स द्वयोः ॥ ७५६ ॥ Nānārthārṇavasaṃkṣepa 4.756
- शिवकोष करटकरटी कुसुम्भेऽक्लीबं पुंसि बिल्वकरीरयोः । कञ्चटं तोयपिप्पल्यां तण्डुलीयकभिद्यपि ॥ १२५ ॥ Śivakoṣa 8.2.125
- शिवकोष चोलकीगवादनीन्द्रवारुण्यां शतपद्यां च तद्भिदि । चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ॥ २७४ ॥ Śivakoṣa 16.2.274
- शिवकोष अगुरुकरीरे गूढपत्रे च न स्त्री वंशस्य कन्दले । कच्छुरा शुकशिम्बायां शटीद्रुस्पर्शयोरपि ॥ ३९४ ॥ Śivakoṣa 22.3.394
- शिवकोष ग्रन्थिलकोविदारे च कुटिला देव्यां जिह्मे तु न द्वयोः । ग्रन्थिलो क्षुरके बिल्वे करीरे च विकङ्कते ॥ ४५५ ॥ Śivakoṣa 23.2.455
- शब्दरत्नावली ग्रन्थिकग्रन्थिकं पिप्वलीमूले ग्रन्थिपर्णे च गुग्गुलौ । पाण्डवे सहदेवाख्ये करीरे गणके पुमान् ॥ Śabdaratnāvalī 7.1.66
- शब्दरत्नावली चोलकिन्चित्रभानुर्वीतिहोत्रभैरवे भास्करे पुमान् । चोलकी नागरङ्गे ना करीरे किष्कुपर्वणि ॥ जलाटनन्तु कङ्के स्याज्जलौकायां जलाटनी । तपस्विनी जटामांसीरोहिन्योस्तापसु त्रिषु ॥ Śabdaratnāvalī 7.20.109