All kośas › Śabdacandrikā
शब्दचन्द्रिका Śabdacandrikā
125 verses · 947 words tagged · 244 marked doubtful (dashed)
समुद्राधिकारश्चतुर्थस्सर्गः
इति बाणकविविरचितायां शब्दचन्द्रिकायां भूम्यधिकारस्तृतीयस्सर्गः ॥
चतुर्थः सर्गः
समुद्रः सागरः कन्धिः पयोधिर्जलशेवधिः ।नदीनः सिन्धुरम्भोधिः पयस्वान्पवनानुगः ॥ १ ॥
4.1 · p. 40
अनुष्टुप्
कोलाहलस्तु तद्घोषे तरङ्गे बुद्बुदाकरः ।सलिलं कमलं नीरं पुष्करं सर्वतोमुखम् ॥ ३ ॥
4.3 · p. 40
अनुष्टुप्
जीवनं सर्वभद्रं च पाथः काण्डं कुशं विषम् ।भूसारं सारसाधारं सारं नीरं जलं जडम् ॥ ४ ॥
4.4 · p. 40
अनुष्टुप्
नदी शुक्तिमती वेगवती च तटिनी झरी ।स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा ॥ ५ ॥
4.5 · p. 40
अनुष्टुप्
गोदावरी वृद्धनदी नर्मदा शुभगर्भिणी ।शोणभद्रा भद्रनदी गवाक्षी कर्णिकावती ॥ ८ ॥
4.8 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
कृष्णवेणी तु शिवदा कावेरी तु मरुद्वृधा ।स्वर्णद्वीपवती सह्यतनया पूर्वगामिनी ॥ ९ ॥
4.9 · p. 41
अनुष्टुप्
विष्णुमाला चोलवती श्रीरङ्गोत्सङ्गगामिनी ।ताम्रपर्णी लोहनदी मणिसैकतवाहिनी ॥ १० ॥
4.10 · p. 41
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चो (wrong syllable); pāda 3, syllable 5 लो (wrong syllable)
कुल्या तु कृत्रिमनदी मुखजा सूक्ष्मवाहिनी ।केदारगामिनी चाथ कासारः सरसी सरः ॥ ११ ॥
4.11 · p. 41
अनुष्टुप्
पद्माकरो जलासारः पुष्करिण्यम्बुशेवधिः ।श्रीपत्रं नलिनं पद्मं पुटिनी नलिनीति च ॥ १२ ॥
4.12 · p. 41
अनुष्टुप्
शरजं त्वम्बुजं पर्वं बिसजं कुसुमाग्रजम् ।कुवेलयं कुवलयं करभीरु निशोन्मुखी ॥ १३ ॥
4.13 · p. 41
अनुष्टुप्
सुसरो मकरो ग्राहे जलचारो वनौकसः ।मीनो मसलकः पुच्छी चिरजीवी निलिम्पकः ।गलग्राही काभिमुखः प्रद्युम्नः कर्णसागरः ॥ १४ ॥
4.14 · p. 41
अनुष्टुप्