झल्लरी
jhallarīस्त्री · fem.In 8 kośas: 7 synonym verses, 5 as a nānārtha head word.
भेरिर्भेरी च तुल्ये द्वे विपञ्ची स्याद्विपञ्चिका ।झर्झरो झर्झरी झल्ली झल्लरी झालरी समाः ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
पिच्छोला स्वरनौकार्था झल्लरी झल्लरिः स्त्रियौ ।झर्झरश्चाथ वेणुस्तु वंशो विवरनालिका ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
पणवो मध्यतन्त्रीको झर्झरोऽस्त्री च झल्लरी ।मुखघण्टा कुलकुटी किङ्किणी क्षुद्रघण्टिका ।किङ्किणीका प्रतिसरा घर्घरीका तु पादगा ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
चर्चरी झल्लरी शारि-खारी तुरीवल्लरी मञ्जरिर्भूरिरभ्रिश्च धूः ।घर्घरी-कर्परी-कर्तरी-काश्मरी-कण्डरासृग्धरा-शर्करा-वागुराः ॥ ६५ ॥
स्रग्विणी
genderस्त्रीfem.
मृदङ्गो मुरजश्चैव मर्दलः पुष्करस्त्रिधा ।स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः ।वाद्यभेदाः शङ्खताला झल्लरीपटहादयः ॥ ११० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
झर्झरो झल्लरी झल्ली झत्नरी झर्झरीत्यपि ।पणवः प्रणवः पाङ्कः प्राङ्कणः पणवेत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
सुरुङ्गा सूचिका श्रोणी पत्रिका गृहकारिका ।झल्लरी चर्चरी पारी हिक्का [का]कुः कुहेलिका ॥ २३१३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याज्झल्लरी च झलरी हुडुक्कवाद्ये च बालचक्रे च ।कावेरी तु हरिद्रापण्यवधूसिन्धुभेदेषु ॥ ८७ ॥
आर्या
वाद्यभेदेऽजयस्त्वाह हुड्डुक्क इति चिन्त्यधी ।अवस्थाभेदमापन्ने केशभेदे च कीर्तिता ॥ ३४ ॥
अनुष्टुप्
doubtful
झम्पटिक्षुविगब्दाभ्यां प्रसिद्धे शब्दवेदिनाम् ।छत्रान्तालम्बिवस्त्रे च तृणता तु धनुष्यपि ॥ ३५ ॥
अनुष्टुप्
doubtful
झल्लरी वाद्यभेदे स्याच्छत्रान्तालम्बिवाससि ।हारमध्यमणौ पुंसि तरलस्त्रिषु चञ्चले ॥ २०९५ ॥
अनुष्टुप्
जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः ।छत्रान्तालंबिवस्त्रेऽपि झल्लरी केशवाद्ययोः ॥ ९ ॥
अनुष्टुप्