कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पक्षभाग

pakṣabhāgaपुं · masc.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.20 · p. 47
दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.67
पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.170 · p. 107
पार्श्वतः पक्षभागः स्यात्पद्मार्थं बिन्दुजालकम् ।मदयोगविधानं तु व्यस्तारमथ तल्पनम् ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.200 · p. 253
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.174 · p. 30
अथ पुच्छे स्थिताः किल्ली संवालो वालपुष्करम् ।दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वकः ॥ १७४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.290 · p. 62
करिपार्श्वे पक्षभागः पक्षो भागश्च सम्मतः ।स्यान्मातङ्गपुरोभागे दन्तभागः प्रकीर्तितः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2221 · p. 363
गजस्य तु पुरोभागो दन्तभागो हि कथ्यते ।पार्श्वकः पक्षभागश्च मन्यते पण्डितैः पुनः ॥ २२२१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.235 · p. 127
अथ हस्तिमुखादौ तु विन्दुवृन्दे च पद्मकम् ।हस्तिनां पार्श्वभागे च पक्षभागः स ईरितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.707 · p. 91
पक्षभागः पार्श्वभागो मेदः स्थूलोच्चयो गतेः ।तत् फलं त्वंसयोर्मध्यं विस्तारो गजशास्त्रकम् ॥ ७०७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.81 · p. 110
वालपाशक इत्येवमधोऽधः स्युर्यथोत्तरम् ।दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वतः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.