पद्मक
padmakaक्ली · neut.In 7 kośas: 7 synonym verses, 3 as a nānārtha head word, 8 as a meaning of another word.
genderक्लीneut.
स्यात्पद्मकं पद्मगन्धि पद्माह्वं पद्मदारु च ।पीतरक्तं मरूत्थं च पाटलापुष्पवर्णकम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderक्लीneut.
शैलेय-सृक्कत्त्वचभेषजानांस्थानाञ्जन-द्वार-शुकच्छदानाम् ।ह्रीबेर-पुष्पान्तिक धन्व-वल्क-कुसुम्भ-कल्कौमक-पद्मकानाम् ॥ ८१ ॥
उपजातिः
genderक्लीneut.
गजचर्म्मणि रक्तबिन्दुः पद्मं पद्मकमुच्यते ।मातङ्गस्य पुनः प्रोक्तं चरणबन्धनमत्र ॥ २२२३ ॥
metre not recognised
genderक्लीneut.
अथ हस्तिमुखादौ तु विन्दुवृन्दे च पद्मकम् ।हस्तिनां पार्श्वभागे च पक्षभागः स ईरितः ॥
अनुष्टुप्
genderक्लीneut.
परिमण्डलमध्यश्च पद्मकं हेमपुष्पकम् ।मधुपत्रं हिङ्गुपत्रं कमलं शीतलं च तत् ॥ ५५० ॥
अनुष्टुप्
genderक्लीneut.
पद्मकमस्त्री करिणों-ऽशुबिन्दुजाले च पद्मकाष्ठे च ।व्याघ्रे तु चित्रको नाद्रुमभेदे पुण्ड्रके नस्त्री ॥ ८५ ॥
metre not recognised
पट्टनं शकटैर्गम्यं घोटकैर्नौभिरेव च ।पद्मकं पद्मकाष्ठे स्याद्धस्तिनां बिन्दुजालके ॥ ५४ ॥
अनुष्टुप्
पद्मक as a meaning in nānārtha verses
- कोषकल्पतरु पत्राङ्गगुह्ये गुडत्वचि शिरोगजयोर्वराङ्गं पत्राङ्गमाहुरिह पद्मकभूर्जयोश्च । कोके रथाङ्ग उदितश्चरमे तु चक्रे धाराङ्ग आदिमगतोऽप्यसितीर्थवाची ॥ २२ ॥ Koṣakalpataru 6.3.22
- कोषकल्पतरु पद्मपद्मः पुमान्व्यूहनिधिप्रभेदे नागान्तरे स्त्री तु न पङ्कजे स्यात् । संख्यान्तरे पद्मकबिन्दुनाले स्त्रियां तु लक्ष्म्यामपि फञ्जिकायाम् ॥ ७० ॥ Koṣakalpataru 6.25.70
- शिवकोष पत्राङ्गनागरङ्गोपि पत्राङ्गं पद्मके रक्तचन्दने । भूर्जे परागः सुमनोरेणुः पर्पटचन्दने ॥ ९१ ॥ Śivakoṣa 3.2.91
- शिवकोष पीतरक्तपारावती श्यामले ना जम्भीले कपितिन्दुके । अथ पीतरक्त उदितो बाल्हीके पद्मके कुसुम्भे च ॥ २०६ ॥ Śivakoṣa 12.3.206
- शिवकोष पद्मपद्माऽव्यथाफञ्जिकयोः पद्मो स्त्री पद्मकेऽम्बुजे । ब्राह्मी तु फञ्जिकासोमवल्लरीशाकभित्सु च ॥ ३२९ ॥ Śivakoṣa 20.1.329
- शब्दरत्नावली पत्राङ्गनिसर्गः सर्गरूपादौ निषङ्गः सङ्गतूणयोः । पत्राङ्गोऽस्त्री भूर्जपत्रे पद्मके रक्तचन्दने ॥ पन्नगः स्यादौषधीभित् पन्नगाशनयोरपि । प्लवगोऽरुणमण्डूकवानरप्लवपक्षिषु ॥ Śabdaratnāvalī 7.3.39
- शब्दरत्नावली नीरजगिरिजा मातुलुङ्ग्यान्तु पार्वत्यामोषधीभिदि । नीरजं पद्मके कुष्ठे जलजं पद्मशङ्खयोः ॥ Śabdaratnāvalī 7.8.24
- शब्दरत्नावली पद्मनेमः खण्डेऽवधौ गर्ते नाहादौ कैतवान्ययोः । पद्मोऽस्त्रीपद्मके पद्मे निधिसंख्याभिदोर्न्नजौ(?) । नागे ना स्त्री चारटी-श्री-फञ्जिका-पन्नगीषु च ॥ Śabdaratnāvalī 7.25.14