वारी
vārīस्त्री · fem.In 8 kośas: 9 synonym verses, 2 as a nānārtha head word.
genderस्त्रीfem.
करीरी दन्तमूलं स्याद्वारी च गजबन्धनम् ।निगडः पादबन्धश्च हिञ्जीरः शृङ्खलोऽन्दुकः ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
वारिर्वारी च प्राची च प्रारब्धिश्च स्त्रियामिमाः ।गात्रबन्धे तु त्रिपदी चैकस्मिन्नपरेऽपि च ॥ १७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable); pāda 3, syllable 5 तु (wrong syllable)
genderस्त्रीfem.
लता गीतिस्रुचो भेदे ध्रुवाविटः प्रजाविशोः ।घटीभबन्धयोर्वारी दुन्दुभावक्षविन्दुषु ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderस्त्रीfem.
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रारब्धिः प्रतिमा हस्तिबन्धो वारीभबन्धभूः ।आलानं त्वस्त्रियां बन्धस्तम्भोऽथ तलभं भवेत् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
गजस्य बन्धनस्थानं वारिर्वारी निगद्यते ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥ २२२५ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ वारिश्च वारी स्यात् प्रारब्धिर्गजबन्धनी ।आरण्यादिकमातङ्गा बध्यन्ते यत्र रज्जुषु ॥
अनुष्टुप्
genderस्त्रीfem.
शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः ।अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderस्त्रीfem.
देशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् ।वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् ।वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥
अनुष्टुप्