दन्तभाग
dantabhāgaपुं · masc.In 9 kośas: 9 synonym verses.
genderपुंmasc.
genderपुंmasc.
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
अथ पुच्छे स्थिताः किल्ली संवालो वालपुष्करम् ।दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वकः ॥ १७४ ॥
अनुष्टुप्
genderपुंmasc.
करिपार्श्वे पक्षभागः पक्षो भागश्च सम्मतः ।स्यान्मातङ्गपुरोभागे दन्तभागः प्रकीर्तितः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
गजस्य तु पुरोभागो दन्तभागो हि कथ्यते ।पार्श्वकः पक्षभागश्च मन्यते पण्डितैः पुनः ॥ २२२१ ॥
अनुष्टुप्
genderपुंmasc.
दन्तभागोऽग्रतोभागे भवेद्दन्तसमन्विते ।गात्रं गात्रात् पूर्वभागेऽवरं जङ्घादिदेशयोः ॥
अनुष्टुप्
genderपुंmasc.
पद्मानि स्युर्बिन्दवोऽन्नं विधानंशुण्डा हस्तश्चूलिका कर्णमूलम् ।स्यान्निर्याणं दृष्युपान्तः करीरंदन्तादिः स्याद्दन्तभागोऽग्रभागः ॥ ६९९ ॥
शालिनी
genderपुंmasc.
वालपाशक इत्येवमधोऽधः स्युर्यथोत्तरम् ।दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वतः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.