निगड
nigaḍaपुं · masc.In 12 kośas: 13 synonym verses, 5 as a meaning of another word.
बिन्दुजालं पुनः पद्मं शृङ्खलो निगडोऽन्दुकः ।हिञ्जीरश्च पादपाशो वारिस्तु गजबन्धभूः ॥ १२२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले ।अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
करीरी दन्तमूलं स्याद्वारी च गजबन्धनम् ।निगडः पादबन्धश्च हिञ्जीरः शृङ्खलोऽन्दुकः ॥ २२३ ॥
अनुष्टुप्
genderपुंmasc.
अन्दुकः पुंसि निगडो न स्त्रियां शृङ्खलं त्रिषु ।पादपाशश्च हिञ्जीरो न स्त्रियां गजबन्धभूः ॥ १७२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderपुंक्लीm. n.
वारुण्ड-खाण्ड-खण्डानि दण्डाण्डौ निगडो नडः ॥ ४३ ॥
genderपुंक्लीm. n.
शृङ्खलः पादपाशस्तु हिञ्जीरनिगडान्दुकाः ।वारिस्तु गजबन्धस्य भूमिः स्यात्त्रिपदी त्वथ ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
अङ्कुशे तु सृणिः प्रोक्तः शृङ्खले निगडोऽन्दुकः ।गजस्य सज्जीकरणे सज्जना कल्पना समे ॥ २९२ ॥
अनुष्टुप्
genderपुंmasc.
वैरं विरोधो विद्वेषः शृङ्खलो निगडोऽन्दुकः ।विघ्नोऽन्तरायः प्रत्यूहो रोगातङ्कगदामयाः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
अन्दुकोऽन्दूश्च हिञ्जीरो निगडो निगलः पुनः ।प्रसिद्धः शृङ्खलश्चैव पादपाशोऽपि मन्यते ॥ २२२४ ॥
अनुष्टुप्
genderपुंmasc.
शङ्कुरालानमक्षोडो बन्धस्तम्भे च हस्तिनाम् ।हिञ्जीरो निगडोऽस्त्री स्यादन्दुकः शृङ्खलं त्रिषु ॥
अनुष्टुप्
genderपुंक्लीm. n.
शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः ।अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderपुंmasc.
वल्मीकवृषणद्रोणगाण्डीवनिगडानि च ।मुकुलादि च विज्ञेयं शिष्टसन्दर्भतोपरम् ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निगड as a meaning in nānārtha verses
- कोषकल्पतरु शृङ्खलापुंसः कटीवाससि बन्धने च स्याच्छृङ्खलासौ निगडे त्रिलिङ्ग्याम् । स्त्रियां कुचेला किल विद्धकर्ण्यां कुवस्त्रके तु प्रथितान्यलिङ्गा ॥ ५४ ॥ Koṣakalpataru 6.28.54
- परमानन्दीयनाममाला अन्दूअहिः सर्पे रवौ वप्रवृत्रयोः केतुपान्थयोः । अद्रिः शैले रवावन्दूर्निगडे भूषणेऽपि च ॥ १२ ॥ Paramānandīyanāmamālā 5.1.12
- शब्दरत्नावली अन्दूअब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
- शब्दरत्नावली शृङ्खलशृगालो जम्बुके दैत्ये शृगाली डमरे स्त्रियाम् । शृङ्खलः पुंस्कटीवन्ध्यांशुके च निगडे त्रिषु ॥ Śabdaratnāvalī 7.28.98
- त्रिकाण्डशेष शृङ्खलतरुजातौ मत्स्यभेदे शालो हाले नृपेऽपि च । निगडे पुंकटीबद्धवस्त्रे च शृङ्खलं त्रिषु ॥ ४०८ ॥ Trikāṇḍaśeṣa 3.3.408