चूर्ण
cūrṇaक्ली · neut.In 17 kośas: 26 synonym verses, 7 as a nānārtha head word, 6 as a meaning of another word.
genderक्लीneut.
genderक्लीneut.
रंहस्तरः स्यदः स्यात्प्रसरो वेगो रयो जवो वाजः ।पांशुः क्षोदो रेणुश्चूर्णं धूली रजश्च तुल्यार्थाः ॥ ४४३ ॥
गीतिः
genderक्लीneut.
चूर्णानि वासयोगाः स्युर्वासितं भावितं त्रिषु ।प्रियंगुः फलिनी श्यामा प्रियवल्ली फलप्रिया ॥ ३९८ ॥
अनुष्टुप्
genderक्लीneut.
पुंसि पांसुश्च पांशुश्च वातकेतुः क्षितेः कणः ।अस्त्री तूस्तमपि क्षोदश्चूर्णः सर्वत्र चूर्णिते ॥ ३३५ ॥
अनुष्टुप्
genderपुंmasc.
चणोत्थे वेसवारो ना पिष्टं माषभवे न ना ।सर्वं स्याच्चाक्रिकं चूर्णं शिलापिष्टे तु पिष्टिका ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
अम्लसारा मालवोत्था मागधी होसणीति च ।स्यादन्द्रपुष्कलीचाथ चूर्णमम्लं सुधार्थकम् ॥ ३३७ ॥
अनुष्टुप्
genderक्लीneut.
रसशोधी पाचनको लोहश्लेषणकोऽपि सः ।चूर्णोऽस्त्रियां सुधा तु स्त्री क्षारे ताम्बूलपौगिके ।औद्भिदं पांसुजं शाकंभरं तत्स्थानसंभवम् ॥ २६ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
स्थानात्स्थानान्तरं गच्छन्धूमो गन्धपिशाचकः ।तरूणां प्रसवाधायी भवेद्दोहदधूपकः ।चूर्णोऽस्त्री वासयोगाः स्युर्भावितं वासितं त्रिषु ।पिष्टातः पटवासः[95a] स्यादुद्य(?)लिप्तक इत्यपि ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
रेणुस्त्रिषु स्त्रियां धूली रजनं शूक-पांशकः ।पांशुश्च न रजो द्वंद्वे क्षोदश्चूर्णो न योषिति ॥ ४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्रतिसारणमङ्गुल्या घर्षणं वदनादिषु ।पिण्डो रसक्रिया चूर्णस्तिस्रोऽञ्जनविकल्पनाः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कल्को विनीयो वाःपिष्टश्चूर्णः पिष्टः शिलादिभिः ।[157b]यत्र कल्कः सिद्धतैले क्षेप्यः कल्कोऽतिगन्धवान् ॥ ९० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आक्रीड-कोदण्ड-तरण्ड-मण्ड-प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ ।दृढोऽथ बाणोऽप्यणु-वारवाण-कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥
उपजातिः
genderपुंक्लीm. n.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
धूली रेणू रजः पांशुश्चूर्णं क्षोदः खलं पुनः ।खलधानं दलिर्लोष्टे लेष्टुलोष्टू तु कुत्रचित् ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
आकल्पो वेषनेपथ्ये संस्क्रियोद्वर्तनं पुनः ।पटवासकपिष्टातौ चूर्णं स्याद्वासयोगतः ॥ २९० ॥
अनुष्टुप्
genderक्लीneut.
वृषणं प्रवणं चूर्णं रणः किणघृते अपि ।पारतं प्रयुतं पूर्तनिकेतान्तयुतान्यपि ॥ १३९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गोमेदजं पल्युलनं? चूर्णं क्षारः सुधाह्वयः ।कृष्णकन्दो गुडो ग्रन्थी शर्करा खण्डकः सिता ॥ २७७ ॥
अनुष्टुप्
genderक्लीneut.
चूर्णानि वासयोगाः स्युः पिष्टातः पटवासकः ।वस्त्रादेर्यस्तु गन्धाद्यैः संस्कारः सोऽधिवासनम् ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.
वासयोगश्च चूर्णं स्यात् पिष्टातपटवासकौ ।गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् ॥ १०२९ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
पांसुः क्षितिकणः क्षोदश्चूर्णं दृष्टमहीद्रवः ।वातकेतुर्नभःकेतुः कणा क्षितिकणोति च ॥
अनुष्टुप्
genderक्लीneut.
चूर्णं क्षोदश्चूर्णमात्रे क्वचित् केचित् प्रचक्षते ।उत्पिञ्जः पिञ्जलोऽपि स्यात् समुत्पिञ्जल इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
चूर्ण उत्पिञ्जलोत्पिञ्जोत्पिञ्जरा भृशसंकुले ।वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया ॥ १३८६ ॥
अनुष्टुप्
genderपुंmasc.
अञ्जनं त्वक्षिसंस्कारः कज्जलं धूमयोनि तत् ।चूर्णानि वासयोगाः स्युः पिष्टातः पटवासकः ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
लम्बते भ्रश्यति स्रंसेऽवात्तु ध्वंसिर्भवेत्त्यजि(?) ।निन्दायामथ चूर्णेऽपादभिभूतौ प्रतेः परः ॥ ८५ ॥
अनुष्टुप्
meaningsअपध्वंसि
क्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् ।चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः ।झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च ।तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके ।द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् ।तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च ।क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च ।स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 2 ष्क (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
अङ्गुष्ठानामिकोन्माने गोकर्णोऽहौ मृगेऽपि च ।नासिकाघ्रातयोर्घ्राणं चूर्णं गन्धयुतावपि ॥ १२६ ॥
अनुष्टुप्
meaningsगन्धयुति
चूर्ण as a meaning in nānārtha verses
- धरणिकोश क्षारचारः पियालवृक्षे स्याच्चारोऽपसर्पबन्धयोः । क्षारः स्याल्लवणद्रव्ये चूर्णादौ काचभस्मनोः ॥ Dharaṇikośa 26.2.8
- नानार्थार्णवसंक्षेप कणिकाकणिका तिलमण्डे गोधूमे तच्चूर्णके लवे । कलशिर्भेषजस्तम्बे पृश्निपर्णीति विश्रुते ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 3.1.17
- नानार्थार्णवसंक्षेप अबलोर्णचूर्णे ना त्वस्फुटायां स्याद् वाचि त्रिषु पुनर्भवेत् । उपर्युदीच्यश्रेष्ठानां विपरीतेष्वनुत्तरः ॥ ५५ ॥ Nānārthārṇavasaṃkṣepa 6.55
- शिवकोष कणिककणिकाऽरणौ च कणिकश्चूर्णे सुमनस्य कर्णिकस्ताले । योषिति तु कोकिलाक्षे तरणीमल्ल्योश्च पद्मगर्भे च ॥ २० ॥ Śivakoṣa 1.3.20
- शिवकोष सुधावधूः शटी माल्यवतीगोपकन्याप्रियङ्गुषु । सुधा गङ्गेष्टिकामूर्वाचूर्णानिस्तृंशपत्रके ॥ २३६ ॥ Śivakoṣa 15.1.236
- शब्दरत्नावली शृङ्गारशुषिरं मूषिके च्छिद्रवंश्यादिवाद्यभेदयोः । शुविराप्योषधीभेदे भवेद्रन्ध्रान्विते त्रिषु ॥ शृङ्गारः सुरते नाट्ये रसे ना गजभूषणे । क्लीबं चूर्णे च सिन्दुरे लवङ्गेऽपि च कुत्रचित् ॥ सम्बरो दैत्यभिच्छैलमृगभिन्मीनभित्सु च । बुद्धभेदे पुमान् क्लीबं जले बौद्धव्रतेऽपि च ॥ सङ्करोऽग्निचटत्कारे समार्जन्यवपुञ्जिते ॥ Śabdaratnāvalī 7.27.107