मुञ्ज
muñjaपुं · masc.In 14 kośas: 17 synonym verses, 4 as a meaning of another word.
दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः ।गुन्द्रो मुञ्जः शरो दूर्वा त्वनन्ता शतपर्विका ॥ ११९२ ॥हरिताली रुहा पोटगलस्तु धमनो नडः ।
अनुष्टुप्
genderपुंmasc.
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
बहुमूलः स्थूलशरो दीर्घमूलोऽथ रञ्जनः ।मुञ्जो मुञ्जतृणाह्वः स्याद्ब्राह्मणस्ते जनाह्वयः ॥ ३३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्थू (wrong syllable)
genderपुंmasc.
मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः ।कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
पिञ्जलं कुशवर्तिः[6la] स्यात्सग्रन्थि तु पवित्रकम् ।मुञ्जो विपूय इक्ष्वाकुः स्थूलदर्भः पितामहः ॥ ११ ॥
अनुष्टुप्metre not read in every lineLatin letters: la
genderपुंmasc.
पश्चाद्भागे पुच्छःपिच्छः पुच्छे तथा गुच्छः ।वाजो मुञ्जः पुञ्जोविषमकसंख्यार्थकश्चौजः ॥ १३ ॥
metre not recognised
genderपुंmasc.
शरे तु मुञ्जो बाणाख्यः स्थूलदर्भः पितामहः ।गुन्द्रस्तेजनको भद्रमुञ्जो याजनकः क्षुरः ॥ ३७६ ॥
अनुष्टुप्
genderपुंmasc.
मुञ्जस्तु यज्ञियो मेध्यो दृढत्वग्ब्रह्ममेखलः ।अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७७ ॥
अनुष्टुप्
genderपुंmasc.
मुञ्जस्तु मुञ्जको मेध्ये मृदुत्वग्ब्रह्ममेखलः ।[ उल्लूकस्तूलपो ] दर्भमूर्ध्वमूलं खरच्छदः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
तेजनो मुञ्जगुन्द्रौ च दूर्वा स्याच्छतपर्विका ।हरिताली रुहानन्ता नडपोटगलौ समौ ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
तमङ्गापाङ्गवर्गौघखगार्घाः पुच्छगच्छकौ ।मुञ्जपुञ्जावटाः पट्टकोष्ठौ पिच्छौजवाजकाः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
दर्भः कुथः कुशो बर्हिः पवित्रं नाम पञ्चमम् ।तेजनस्तु शरो गुन्द्रो मुञ्जो नाम चतुर्थकम् ॥ २१५१ ॥
अनुष्टुप्
genderपुंmasc.
ग्रन्थिर्ना परुषं क्लीबे परु पर्व च पर्वकम् ।शरो मुञ्जस्तेजनकः सरः स्यात् गुन्द्र इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
कुशो मुनिः कुथो दर्भः क्लीबे बर्हिः पवित्रके ।मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखला ॥ ६६८ ॥
अनुष्टुप्
genderपुंmasc.
अश्ववालस्तु दर्भः स्यात् काशोऽस्त्री स्त्रीक्षुगन्धिका ।समाः काशः शरो मुञ्जो दर्भभेदे खरच्छदः ॥ ६६९ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
लताकुशे तु शीरी स्त्री धमने सुषिरो नलः ।शरो मुञ्जो भद्रमुञ्जो गुन्द्रस्तेजनकः खरः ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
मुञ्ज as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मेध्यमेध्यं तु शुचिनि त्रिः क्ली बले धनसुवर्णयोः । ना तु मुञ्जेऽथ नद्यां स्त्री मेध्यार्कस्य तु रश्मिषु ॥ १०२६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1026
- नानार्थार्णवसंक्षेप मृदुत्वच्मुञ्जे च त्रि तु मृदुलत्वचि मेचकवाक् तु ना । कृष्णश्यामलयोर्ज्ञेयो गुणमात्रे त्रिषु त्वयम् ॥ १४४५ ॥ Nānārthārṇavasaṃkṣepa 4.1445
- नानार्थार्णवसंक्षेप यज्ञिययज्ञार्हः कृष्णसाराख्यमृगे त्रिर्यागयोग्यके । यज्ञियस्तु पुमान् मुञ्जे यज्ञकर्मार्हके त्रिषु ॥ १४६६ ॥ Nānārthārṇavasaṃkṣepa 4.1466
- शिवकोष इक्ष्वाकुइक्ष्वाकुः कटुतुम्ब्यां स्त्री मुञ्जे राजादने पुमान् । कनकश्चम्पके धूर्ते कालीये नागकेसरे ॥ १६ ॥ Śivakoṣa 1.3.16