कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रघण

praghaṇaपुं · masc.

In 13 kośas: 12 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.113 · p. 39
प्रघाणः प्रघणोऽलिन्दो बहिर्द्वारप्रकोष्ठके ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.12
प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.299 · p. 36
वेश्मैकदेशः प्रघणः प्रघाणः स्यादलिन्दकः ।अजिरं प्राङ्गणं प्रोक्तं वेदिका च वितर्दिका ॥ २९९ ॥
अनुष्टुप्
genderपुंmasc.
मन्दिरा मन्दरा तुल्ये उपकार्युपकारिका ।प्रघाणप्रघणौ स्यातां प्रघानप्रघनावपि ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.45 · p. 13
प्रघानः प्रघनस्तुल्यौ प्रघाणः प्रघणः स च ।संजवनं संयमनं चतुःशालं स्त्रियां च षण् ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ज (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.45 · p. 124
स्तूपोऽस्त्रियां मृदां कूटोऽलिन्दस्त्वालिन्दकोऽस्त्रियौ ।प्रघाण-प्रघणौ पुंसि बहिर्द्वार-प्रकोष्ठके ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 276
पुटग्रीवश्च विट्वालः प्रघणस्ताम्रजो मतः ।काचजः कटखादोऽथ कुनालो हण्डिकासुतः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.288 · p. 40
उदम्बरोऽम्बरोऽलिन्दे प्रघाणः प्रघणोऽपि च ।बहिर्द्वारप्रकोष्ठे स्याद्विशिष्यैव विभाव्यताम् ॥ २८८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1735 · p. 281
प्रघाणोऽलिन्द आलिन्द उपालिन्दक उच्यते ।प्राघाणः प्रघणश्चेति बहिर्द्वारप्रकोष्ठके ॥ १७३५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.48 · p. 222
दारौ, देहल्यामुम्बरोदुम्बरोऽम्बुरकास्त्रयः ।बहिर्द्वारप्रकोष्ठे तु प्रघाण-प्रघणौ समौ ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.858 · p. 108
गृहावग्रहणी देहल्यथ द्वारप्रकोष्ठके ।प्रघाणः प्रघणोऽलिन्दः पिण्डकश्च चतुष्टये ॥ ८५८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.45 · p. 162
नासा तु द्वार्यधोदारु शिला नासाविधारिणी ।प्रघाणप्रघणालिन्दाः पिण्डकोऽलिन्दवासनौ ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.22 · p. 197
पर्शौ च द्रुघणोऽथ पुंसि हरिणः प्रोक्तः कुरङ्गेऽन्यव-त्पाण्डौ श्वेतकशुक्रकाञ्चनगतः क्लीबेऽथ चारुस्त्रियाम् ।अर्चायां कनकस्य किंच हरितायां वृत्तभेदे स्त्रियांमृग्यां च प्रघणस्तु ताम्रकलशेऽलिन्देऽप्यसौ मुद्गरे ॥ २२ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.146 · p. 23
भक्तमण्डे प्रघाणस्तु तरुस्कन्धेऽप्यलिन्दके ।प्रघणस्तु तथालिन्दे लोहमुद्गरयोः स्मृतः ॥ १४६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.311 · p. 201
प्रघणस्ताम्रकुम्भे यो मुद्गरेऽलिन्दके तथा ।प्रणयः प्रार्थनाप्रेमविश्रम्भेषु निगद्यते ॥ ३११ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.132 · p. 136
बुद्धमन्त्रे नाडिकायां धारणाऽथ च मज्जने ।निर्वाणं निवृतौ मोक्षे प्रघणोऽस्त्रगृहांशयोः ॥ १३२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.52 · p. 243
पर्यस्त्यामपि पर्यंकः प्रकोष्ठोऽलिन्दकेऽपि च ।गजस्कन्धेऽपि पणवः प्रघणौ लोहमुद्गरौ ॥ ५२ ॥
अनुष्टुप्