कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पिण्डक

piṇḍakaपुं · masc.

In 11 kośas: 14 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.395 · p. 28
धूपो वकात्कृत्रिमाच्च तुरुष्कः सिल्हपिण्डकौ ।
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.223
तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः ॥ १२८ ॥श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.116 · p. 145
यवनेष्टः शिरामूलो ग्रन्थिमूलोऽपि वर्त्तुलः ।शिखाकन्दः पिण्डमूलो गजाण्डः पिण्डकः पुनः ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 169
पौरं व्याडायुधं भृङ्गनिर्लोहं बर्बरं च तत् ।तुरुष्कः सिह्लको धूम्रः पिण्डातः पिण्डकः कपिः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.299 · p. 138
रालः सर्जरसः सर्जमणिः सर्वरसोऽपि च ।तुरुष्कः पिण्डकः सिल्हो वृक्षधूपे तु पायसः ॥ २९९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.183 · p. 48
बहुधूपः सर्वरसो निर्यासः सज्जकोऽपि च ।रसोऽपि स्यात्सज्जु(र्ज?)रसे चाथ पिण्डकयावकौ(नौ?) ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1049 · p. 161
वृकधूपश्च कृत्रिमधूपश्च पिण्डकः पुनः ।विशिष्टं गन्धवस्तुकं प्रसिद्धं कथ्यते बुधैः ॥ १०४९ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.390 · p. 107
सिह्लकः सिह्लपिण्याककपिचञ्चलयावनाः ।तैलाख्यः पिण्डको जीव वस्तुरुष्को यावनोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.858 · p. 108
गृहावग्रहणी देहल्यथ द्वारप्रकोष्ठके ।प्रघाणः प्रघणोऽलिन्दः पिण्डकश्च चतुष्टये ॥ ८५८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1154 · p. 142
स्याद्यक्षधूपोऽथ वृकधूपः स्यात् पुंसि यावनः ।तुरुष्कः पिण्डकः सिल्हश्चाथ कृत्रिमधूपकः ॥ ११५४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.73 · p. 14
सन्ध्याबलो रात्रिमठो हनूषः शमनीषदः ।पलाशो विखुरः शंकुः कापीशेयस्तु पिण्डकः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश यक्षाद्यध्यायः Vaijayantī 1.3.4 · p. 15
विद्याधरास्तु द्युचराः खेचराः सत्ययौवनाः ।पिशाचः स्यात् कापिशेयो ऽनृजुर्दर्वश्च पिण्डकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.110 · p. 132
वृकधूपश्च तूणस्तु पिण्डकश्चपलश्चलः ।कप्याख्यः कपिलः सिह्लः कृत्रिमः क्षेत्रिको वरः ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.45 · p. 162
नासा तु द्वार्यधोदारु शिला नासाविधारिणी ।प्रघाणप्रघणालिन्दाः पिण्डकोऽलिन्दवासनौ ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.