भारिक
bhārikaपुं · masc.In 11 kośas: 11 synonym verses, 3 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ।षडङ्गं भारिकस्वाभ्यां वारदैशिकयोद्धृभिः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
वार्त्तावहो वैवधिको भारवाहस्तु भारिकः ।भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
तदालम्बि तु शिक्यं स्यात्काचो न त्र्यङ्कटोऽस्त्रियाम् ।भारिको भारवाहः स्याद्भृतकस्तु भरण्यभुक् ॥तथा कर्मकरो वैतनिकोऽपि धमको(?)ऽथ सः ।भृतिं विना कर्मकारोऽथ भरण्यं च वेतनम् ॥कर्मण्यं भर्म मूल्यं च भरणं निष्क्रयः पणः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कर्मण्या तु विधा भृत्या भारवाहस्तु भारिकः ।वार्ताहरो वैवधिको हारयष्टिर्विभाङ्गिका ॥ २३१ ॥
अनुष्टुप्
genderपुंmasc.
विधानिर्वेशभर्माणि भोगो वेश्याभृतिर्मतः ।भारिको भारवाहः स्यादथ वैवधिकः स्मृतः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
खलपू नाम निर्देशः भारवाहस्तु भारिकः ।पुनर्वार्त्तावहे वैवधिको विवधिकस्तथा ॥ ५३८ ॥
अनुष्टुप्
genderपुंmasc.
वार्तावहो वैवधिको भवेत् वार्ताहरोऽपि च ।भारवाहो भारहरो भारहारस्तु भारिकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
genderपुंmasc.
आन्दोलेऽन्दोलिका याप्ययानं तु शिबिका स्त्रियाम् ।डोला प्रेङ्खोलिका प्रेङ्खा भारवाहस्तु भारिकः ॥ १३२४ ॥
अनुष्टुप्
genderपुंmasc.
कर्मण्या तुलिका भृत्या भारवाहस्तु भारिकः ।वार्त्ताहरो वैवधिको भारयष्टिर्विहंगिका ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
भारिक as a meaning in nānārtha verses
- धरणिकोश वोढृसोढा स्यान्मर्षितः शक्तो वोढा भारिकमूढयोः । मूढस्तु मुग्धजडयोः बाढं भृशप्रतिज्ञयोः ॥ Dharaṇikośa 13.1.1
- कोषकल्पतरु वोढृषण्ढस्तृतीयाप्रकृतौ च वर्ष- धरे तथा गोपतिवन्ध्ययोश्च । वोढा तु सूते त्रिषु भारिके स्या- त्सोढा तु शक्ते त्रिषु मर्षितेऽपि ॥ ९५ ॥ Koṣakalpataru 6.14.95
- शब्दरत्नावली वोढृवोढा ना भारिके मूढे परिनेतरि कुत्रचित् । सोढा शक्रे भिन्नलिङ्गस्तितिक्षासंयुतेऽपि च ॥ Śabdaratnāvalī 7.14.4