मूल्य
mūlyaक्ली · neut.In 15 kośas: 20 synonym verses, 7 as a nānārtha head word, 23 as a meaning of another word.
स निर्भृतिः कर्मकारो भृतिः स्यान्निष्क्रयः पणः ।कर्मण्या वेतनं मूल्यं निर्वेशो भरणं विधा ॥ ३६२ ॥भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः ।
अनुष्टुप्
genderक्लीneut.
वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ।भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
भृतिर्भृत्या च कर्मण्या वेता मूल्यं च वेतनम् ।लिपिरालेख्यलेखा स्याल्लिपिर्लेखाक्षरस्य च ॥ ७२८ ॥
अनुष्टुप्
genderक्लीneut.
कुसीदको वृद्धिपरः स्याद्द्वैगुणिक इत्यपि ।मूल्यं क्लीबेऽस्त्रियां वस्नः पुमानर्घं क्रयोऽपि च ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
अपि मूलधनं चाथ तत्र लाभोऽधिकं धनात् ।वाणिज्यं च वणिज्या स्यान्मूल्यं वस्नोप्यवक्रयः ॥ ४८० ॥
अनुष्टुप्
genderक्लीneut.
भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ।स्त्रियां कुटी तु तरला परिस्रुन्मादिनीवती ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
स्थालीबिल्यास्त्रिषु स्थालीबिलीयाः कलमादयः ।आबर्हिमूला शाल्या स्यान्मूल्याः स्युर्भेद्यलिङ्गकाः ।तन्दुलोऽवहतव्रीहिगर्भो मुद्गस्तु शारदः ॥ ३७ ॥
अनुष्टुप्
genderविadj.
कन्यापालः पालवणिक्कन्याजीवश्च स स्मृतः ।मूल्यं निमानं वस्नोऽस्त्री पुंस्यर्घोऽवक्रयस्तथा ।नीवी परीणयो मूलं लाभोऽधिकफलं हि यत् ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
तदालम्बि तु शिक्यं स्यात्काचो न त्र्यङ्कटोऽस्त्रियाम् ।भारिको भारवाहः स्याद्भृतकस्तु भरण्यभुक् ॥तथा कर्मकरो वैतनिकोऽपि धमको(?)ऽथ सः ।भृतिं विना कर्मकारोऽथ भरण्यं च वेतनम् ॥कर्मण्यं भर्म मूल्यं च भरणं निष्क्रयः पणः ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
भृतकः कर्मकारोऽपि खलपूर्बहुकर्मकृत् ।भृतिः पणस्तथा मूल्ये भरणावेतने मते ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
कर्मण्या भर्म मूल्यं च निर्वेशो वेतनं पणम् ।सुरा हलिप्रिया हाला परिसृ(स्रु?)द्वरुणात्मजा ॥ ६१७ ॥
अनुष्टुप्
genderक्लीneut.
मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् ।सत्यापनं सत्यंकारो मूल्यवस्त्वर्थवक्रयाः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
भृतिः स्याद्वेतनं मूल्यं कर्मणां निष्क्रयः पणः ।भर्मण्या भर्म निर्वेशो भृत्या च भरणं विधा ॥ ५३६ ॥
अनुष्टुप्
genderक्लीneut.
मूल्यमर्घोऽवक्रयश्च भाटको वस्नमित्यपि ।
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 श्च (wrong syllable)
genderक्लीneut.
मूल्यन्त्ववक्रयो वस्नो वस्नकोऽपि च कुत्रचित् ।निविर्निवी परिपणो भाण्डं मूलधनञ्च तत् ॥
अनुष्टुप्
genderक्लीneut.
भरण्यं भर्म निर्वेशो मूल्यञ्च पण इत्यपि ।सुरा कादम्बरी हाला मदिरा च हलिप्रिया ॥
अनुष्टुप्
genderक्लीneut.
वस्नोऽर्घोऽवक्रयो मूल्यं विक्रयः प्रक्रयः पणः ।विपणः पणयस्त्वाधिर्बन्धोऽथायो धनागमः ॥ १५०३ ॥
अनुष्टुप्
genderक्लीneut.
भरण्यं भरणं मूल्यं पणो भृत्या विधा भृतिः ।कर्मण्याप्यथ रोषाणो हेमादिनिकषोपलः ॥ १५०७ ॥
अनुष्टुप्
genderक्लीneut.
वस्नोऽर्घोऽवक्रयो मूल्यं बन्धः प्रणय आधिकः ।नीवी परिपणं मूलं धनं लाभोऽधिकं फलम् ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
क्लीबं त्रिषु तु यस्य स्यान्माषमुद्गादिवस्तुनः ।ग्रहणे मूलमुत्पाट्यं तेषु माषादिवस्तुपु ॥ १०१४ ॥
अनुष्टुप्
meaningsमूलोत्पाट्य
यः पटादिरुपादानद्रव्यतुल्यप्रयोजनः ।तत्रापि मूतशब्दस्तु व्रीहावातञ्चने च ना ॥ १०१५ ॥
अनुष्टुप्
meaningsउपादानद्रव्यतुल्यप्रयोजन
doubtful
मूल्य as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अर्घमूल्ये पूजाविधावर्घोंऽहोदुःखव्यसनेष्वघम् ॥ २७ ॥ Amarakośa 3.3.27
- नामलिङ्गानुशासनम् पणपणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥ Amarakośa 3.3.46
- हलायुधकोशः (अभिधानरत्नमाला) अर्घअर्चनामूल्ययोरर्घो विसर्गो मुक्तिवर्चसोः । मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥ Abhidhānaratnamālā (Halāyudha) 5.835
- धरणिकोश पणपणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥ Dharaṇikośa 14.3.2
- धरणिकोश भृतिद्युतिः प्रभा द्युतिः कान्तिर्भृतिर्भरणमूल्ययोः । सुप्तिः स्पर्शाज्ञता [33] निद्रा भित्तिः कुड्यप्रदेशयोः ॥ Dharaṇikośa 15.1.1
- कोषकल्पतरु अर्घअघं तु व्यसने मघे च । दुःखेंऽहसि स्यादथ मूल्यपूजा- विधौ नरेऽर्घोऽङ्घ्रिरपि द्रुमूले ॥ ३२ ॥ Koṣakalpataru 6.4.32
- कोषकल्पतरु पणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- कोषकल्पतरु वाणिभेद्याभः कुकरे गुवाकुभिदि तु झूणिः स्त्रियां दुःसुर- स्तुत्यां चाथ कपर्दकीयशतके भाष्येऽपि चूर्णिः स्त्रियाम् । भूर्णिः स्त्री भुवि पोषके तु परवज्जूर्णिस्तु कान्ता ज्वरे संतापिन्यपरोपमोऽथ जलदे मूल्ये च वाणिः पुमान् ॥ १६ ॥ Koṣakalpataru 6.15.16
- कोषकल्पतरु भृतिभृतिस्तु मूल्ये भरणे क्षितिस्तु स्थाने निवासे भुवि च क्षयेऽपि । धृतिस्तु योगान्तरवृत्तभेद- संतोषधैर्याध्वरधारणासु ॥ ५० ॥ Koṣakalpataru 6.16.50
- नानार्थार्णवसंक्षेप अर्घउरस्यर्घस्तु पूजायां मूल्येऽप्यब्दस्तु वारिदे । वत्सरे मुस्तकेऽथाब्दः(?) पुरोडाशर्षिभेदयोः ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 2.2.7
- नानार्थार्णवसंक्षेप पणमूल्ये भृतौ व्यवस्थायां विक्रयेऽप्यथ पट्टवाक् । प्रशस्तक्षौमकौशेयाद्यम्बरे व्रणबन्धने ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 2.2.72
- नानार्थार्णवसंक्षेप वस्नवर्ये स्याद्वक्षसि त्वस्त्री ना वस्नो मूल्यमेढ्रयोः । आगमे क्ली तु लवणे रुमाजे वप्रवाक् पुनः ॥ ११६९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1169
- नानार्थार्णवसंक्षेप विष्टिअजयस्त्वाह मूल्येऽपि हठात्कारितकारिणि । विभुस्तु ना कुबेरेऽर्के त्रि तु सर्वगनित्ययोः ॥ १२५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1255
- नानार्थार्णवसंक्षेप अवक्रयगर्वेऽथावक्रयो मूल्ये सूत्रनिर्दिष्टवक्रये । क्रयभेदेऽप्यदत्तार्धाधिकमूल्ये परे विदुः ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 6.17
- परमानन्दीयनाममाला अर्घअर्घो मूल्येऽर्चनेऽथाब्जो विधौ धन्वन्तरौ तरौ । जम्बालशङ्खयोरब्जं संख्यायां कमलेऽपि च ॥ ३ ॥ Paramānandīyanāmamālā 5.1.3
- परमानन्दीयनाममाला पणपणो ग्लहे भृतौ कार्षापणे मूल्ये वराटके । पाको दैत्ये शिशौ पाके पात्रं भाजनदेहयोः ॥ २८८ ॥ Paramānandīyanāmamālā 5.19.288
- परमानन्दीयनाममाला भुजभुजो मूल्ये करे बाहौ भानुः सूर्यदिनांशुषु ॥ ३२६ ॥ Paramānandīyanāmamālā 5.20.326
- शब्दरत्नावली अर्घअघं तु दुरिते दुःखव्यसन … चिन्तने । अर्घः पूजाविधौ मूल्ये मङ्गलादिकयोजने । उद्घः हस्तपुटे वह्नौ देहजातसमीरणे ॥ Śabdaratnāvalī 7.4.2
- शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- शब्दरत्नाकर पणपणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ Śabdaratnākara 4.1.1951
- त्रिकाण्डशेष भूतिजम्बुद्वीपे व्यासकृतौ भूतिर्भरणमूल्ययोः । कुड्यभेदनयोर्भित्तिर्भास्वन्तौ सूर्यभास्वरौ ॥ १७६ ॥ Trikāṇḍaśeṣa 3.3.176
- वैजयन्ती पणपट्टो नेत्रेऽपि शाणे स्यात् पिण्डिः कल्केऽपि तैलजे । पणो मूल्ये ग्लहे माने कार्षिकव्यवहारयोः ॥ ३४ ॥ Vaijayantī 6.1.34
- वैजयन्ती परिग्रहपत्नीस्वीकारशपथमूल्येष्वपि परिग्रहः । परिक्षेपो हस्तिपादपार्श्वे संपरिवेष्टने ॥ ३० ॥ Vaijayantī 8.1.30