कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

काच

kācaपुं · masc.

In 16 kośas: 19 synonym verses, 9 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.364 · p. 18
काचः शिक्यं तदालम्बो भारयष्टिर्विहङ्गिका ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1062 · p. 41
क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलत्थिका ॥ १०६२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.99
क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.30
पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका ॥ २९ ॥भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका ।पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ ३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.758 · p. 87
विवधो वीवधो भारः पर्याहारश्च कथ्यते ।काचं शिक्यमिति प्रोक्तं भारयष्टिर्विहङ्गिका ॥ ७५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.77 · p. 210
विहङ्गिका भारयष्टिस्तदालम्बिनि जालके ।शिक्यं क्लीबे पुंसि काचष्टङ्कोऽस्त्री ग्रावदारणः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.40 · p. 130
पुष्पाञ्जनं च गदितं पुष्पकेतनमित्यपि ।क्षारः काचः सितस्त्वेष देवलः परिकीर्तितः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.39 · p. 298
तदालम्बि तु शिक्यं स्यात्काचो न त्र्यङ्कटोऽस्त्रियाम् ।भारिको भारवाहः स्याद्भृतकस्तु भरण्यभुक् ॥तथा कर्मकरो वैतनिकोऽपि धमको(?)ऽथ सः ।भृतिं विना कर्मकारोऽथ भरण्यं च वेतनम् ॥कर्मण्यं भर्म मूल्यं च भरणं निष्क्रयः पणः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.232 · p. 37
शिक्यं विल्लम्बि काचश्च पाथेयं शम्बलोऽस्त्रियाम् ।कारवः शिल्पिनः सर्वे कुलिकास्ते कुलोत्तमाः ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.338 · p. 46
अश्मजं गिरिजमर्थ्यं गैरेयेऽथ कुलात्थिका ।चक्षुष्या च कुलाली स्यात्काचे क्षारोऽपि कथ्यते ॥ ३३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.30 · p. 105
वार्तावहेऽथ भारे स्याद्वीवधो विवधः पुनः ।शिक्यं काचस्तदाधारयष्टिरुक्ता विहङ्गिका ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.604 · p. 104
शिक्यं काचश्च तोलम्बे पा(प?)दं पादूश्च पादुका ।उपानच्चानुपदीना पादत्राणे प्रकीर्तिताः ॥ ६०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.539 · p. 69
किल वीवधिकश्चेति भारे विवधवीवधौ ।शिक्यं काचस्तदालम्बो भारयष्टिर्विहङ्गिका ॥ ५३९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1838 · p. 300
काचः क्षारो द्वयं नाम काचलवण उच्यते ॥ १८३८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.191 · p. 150
सुवर्णं रजतं ताम्रं रीतिरङ्गरसादि च ।सर्वं च तैजसं लौहं क्षारकाचौ समार्थको ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.50 · p. 156
विहङ्गिका भारयष्टिस्तथा विहङ्गमेत्यपि ।शिक्यं काचः पुमानेव शिक्या शिक् च भवेत् क्वचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.424 · p. 56
परासं हेमजं रङ्गं वङ्गं तमरुकं शठम् ।काचः क्षारोऽथ चपलो रसः सूतश्च पारदः ॥ ४२४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.7 · p. 136
शिक्यं तल्लंबि काचश्च पाथेयं शंबलोऽस्त्रियाम् ।कारवः शिल्पिनः सर्वे कुलिकास्ते कुलोत्तमाः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.22 · p. 197
पीतकृष्णहरिद्राभः काचरः कृष्णधूमलः ।कृष्णपीतस्तु काचोऽथ पालाशो हरितो हरित् ॥ २२ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.55
त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास चार्धश्लोकः Dharaṇikośa 5.2.4 · p. 29
चञ्चो नलादिनिर्माणे चञ्चा तु तृणपूरुषः ।काचः शिक्येऽक्षिरोगे च मृत्प्रभेदे च दृश्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चान्ताः Koṣakalpataru 6.5.2 · p. 170
चन्द्रे चौरे चोऽथ वागीशपुत्रेबन्धे शुष्कस्यारुषः स्यात्कचो ना ।स्त्रीभ्यां काचः शिक्यमृद्दृष्टिरुक्षुमोचः शिग्रौ शाल्मलीरम्भयोः स्त्री ॥ २ ॥
शालिनी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.28 · p. 23
प्रज्ञाक्रियासङ्कल्पेष्वप्यथ काचोऽक्षिसंभवे ।उपतापविशेषे स्यात् तथा मृद्भेदशिक्ययोः ॥ २८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.29 · p. 23
शिलायां चाथ काशिः स्यान्मुष्टौ काशाह्वये तृणे ।धातौ च काशतौ भूम्नि त्वेष स्यान्नीवृदन्तरे ॥ २९ ॥
अनुष्टुप्
meaningsशिला
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.87 · p. 172
काचो वृक्षे मणौ शिक्ये मृत्तिकानेत्ररोगयोः ।कम्बुः शङ्खे कपर्दे च कर्चूरे नलके गजे ॥ ८७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश चान्ताः Śabdaratnāvalī 7.6.3 · p. 195
बन्धनेऽपि च शोभायां करिण्याञ्च कचा स्त्रियाम् ।काचो मनौ च शिक्ये च नेत्ररुग्मृत्तिकाभिदोः ॥काञ्चीनगरभेदे च स्त्री कटिमेखलासु च ।कूर्चमस्त्री भ्रुवोरन्तः कठिन श्मश्ककैतवे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1880 · p. 229
कालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः ।शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.15 · p. 215
कारुस्तु विश्वकर्मापि धान्यांशे शीकरे कणः ।कालो दिष्टे यमे काचो मृद्भेदे शिक्यदृग्रुजोः ॥ १५ ॥
अनुष्टुप्

काच as a meaning in nānārtha verses