कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अश्व

aśvaपुं · masc.

In 23 kośas: 26 synonym verses, 6 as a nānārtha head word, 91 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.48 · p. 5
वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी ।मकरः श्रीवत्सः खड्गी महिषः सूकरस्तथा ॥ ४७ ॥श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.28 · p. 48
घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः ॥ १२३२ ॥गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.33
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.73
घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.436 · p. 50
अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
गीतिः
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 63 · p. 6
गजमस्तकरोगे तु कूटपालकपालकौ ।अश्वस्तु तुरगो वेटः जंझाटक झलाटकः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.25 · p. 10
अथान्येऽप्यवताराः स्युर्नरनारायणावृषी ।अश्वो हयशिराः शेषः कपिलो व्यास इत्यपि ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.120 · p. 102
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ।षडङ्गं भारिकस्वाभ्यां वारदैशिकयोद्धृभिः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.129 · p. 103
रथो गजोऽश्वः पादातः सेनाङ्गं स्याच्चतुर्विधम् ।युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.189 · p. 110
कृष्णो विस्तीर्णहस्ताग्रः कुञ्जरः कुमुदान्वयः ।घोटोश्वस्तुरगो वीती किण्वी क्रान्तस्तुरङ्गमः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 250
बलस्थितिर्निवेशं स्याच्छिबिरं च नपुंसके ।हस्त्यश्व-रथ-पादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 253
अर्वा तुरंगस्तुरगस्तुरंगमोगन्धर्व-वाहाश्व-हयाश्च घोटकः ।वाजी च मुद्गाशन-वीति-सप्तयस्तार्क्ष्यो हरि-श्रीसुत-सैन्धवा ययीः ॥ ८ ॥
इन्द्रवंशा
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.176 · p. 30
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 52 · p. 27
वाहोऽश्वस्तुरगो वाजी हयो धुर्यस्तुरङ्गमःसप्तिरर्वा हरी रथ्यः सप्ताद्यश्वो मयूखवान् ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.24 · p. 28
कपोतपालिका चाथ तदाधारे तु कुट्टिमः ।अश्वो वलिन्दः कमनश्चाथ पक्षकपार्श्वगे ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.130 · p. 10
गन्धर्वोऽश्वो हरिर्वाजी तुरङ्गः सैन्धवोऽर्कजः ।एणः कुरङ्गो हरिणो मृगः श्वसनवाहनः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.28 · p. 44
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।रिङ्खावासस्तु तुक्खारः कुटुरोणेटकस्तथा ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.155 · p. 17
अनेकपश्च करटी करेणुः पीलुवारणौ ।घोटकस्तुरगो वाजी तुरंगोऽश्वस्तुरंगमः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2230 · p. 364
अश्वः सप्तिर्हयो ह्रेषी हरिर्वहिश्च हंस इति ।अर्वा वाजी तथा किण्वी क्रमणः सिंहविक्रमः ॥ २२३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2580 · p. 416
अश्वमश्वीयमश्वानां पर्शूनां पार्श्वमुच्यते ।वातूलो वायुसंघातो वात्याऽपि कथ्यते पुनः ॥ २५८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.248 · p. 128
राजस्कन्धो हरिद्रान्तः सप्तिरेकशफो हरिः ।अर्वाश्ववीतयः किन्धी नलानञ्च (?) विमानकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.719 · p. 92
तुरगतुरङ्गतुरङ्गमसैन्धवसप्त्यश्ववाजिवाहहयाः ।गन्धर्ववीतिघोटकहर्यर्वश्रीजहेषिणश्च समाः ॥ ७१९ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1312 · p. 160
अन्तःपुराङ्गनास्वन्तःपुरिका अवरोधिकाः ।सेनाङ्गं रथहस्त्यश्वपादातं स्याच्चतुर्विधम् ॥ १३१२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.41 · p. 67
अश्वः किण्वी हरिक्रान्तः शालिहोत्रश्च मुद्गभुक् ।श्रीपुत्रश्चामरी हेषी राजस्कन्धो मरुद्रथः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.30 · p. 5
अथान्ये ह्यवताराः स्युर्नरनारायणादृषी ।अश्वो हयशिराः शेषः कपिलो व्यास इत्यपि ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.90 · p. 111
अश्वस्तुरंगस्तुरगो हयः सप्तिस्तुरंगमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास वपादः Dharaṇikośa 28.1.2 · p. 203
कण्वं पापे मुनौ कण्व उर्ध्वमुपरि चोत्थिते ।क्षवः क्षुते राजिकायामश्वः पुंभेदवाजिनोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 र्ध्व (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.3 · p. 359
पद्वो रथे स्यादपि भूमिलोकेबह्व(प्राध्व)स्तु मार्गे महति त्रिलिङ्गः ।अश्वस्तुरङ्गे नरभिद्यपि स्यात्विश्वे तु पुं भूम्नि सुरप्रभेदे ॥ ३ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.7 · p. 43
धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः ।सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ ७ ॥
अनुष्टुप्
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.43 · p. 46
अश्वो विष्ण्ववतारे ना तुरङ्गे तु द्वयोरयम् ।अन्ध्रस्त्वनन्यपूर्वायां निषाद्यां जनिते द्वयोः ॥ ४३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.3 · p. 285
अविः कम्बलशैलार्कमेषा धहकिषु (?) ना ।अश्वस्तुरङ्गे पुरुषजातिभेदे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.17 · p. 282
धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः ।इत्यादीन्यन्यनामानि बोद्धव्यान्यन्यवस्तुषु ॥ १७ ॥
अनुष्टुप्
meanings

अश्व as a meaning in nānārtha verses