कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विवर्ण

vivarṇaपुं · masc.

In 13 kośas: 15 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.18 · p. 18
दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ ॥मूढो मन्दो यथाजातो बालो मातृमुखो जडः ।मूर्खोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः ॥ ३५२ ॥देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.932 · p. 37
उन्माथः कूटयन्त्रं स्याद्विवर्णस्तु पृथग्जनः ।इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ ९३२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.16
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.336 · p. 40
वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः ।मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.30 · p. 205
वार्त्तावहो वैवधिको भारवाहस्तु भारिकः ।भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥ ३० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.42 · p. 298
डिङ्गरः किंकरो गोप्य-परजात-परैधिताः ।प्रेष्यः श्लिकुश्चाथ नीचो विवर्णश्च पृथग्जनः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.105 · p. 21
उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ।एकवर्णाः स्ववर्णाः स्युर्हीनवर्णास्तु जुङ्गिताः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.17 · p. 103
वदन्यो दानशीले स्याद्वदान्योऽपि च दृश्यते ।मूर्खो बालो जडोऽमेधो विवर्णो मातृशासितः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.586 · p. 101
नीचे विवर्णो जाल्मश्च प्राकृतः पामरो जडः ।पृथग्जनो निहीनश्चापशदः क्षुल्लकेतरौ ॥ ५८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.2 · p. 41
ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टयम् ।उपवर्णास्तु सङ्कीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.521 · p. 66
मातृमुखश्च मूढोऽज्ञो मन्दश्च नामवर्जितः ।बालोऽमेधाः विवर्णश्च वैधेयश्च यथोद्गतः ॥ ५२१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1580 · p. 253
इतरः पामरो नीचः प्राकृतश्च पृथग्जनः ।विवर्णो बर्बरश्चेति नामानि विलसन्ति वै ॥ १५८० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.25 · p. 154
नीचे निहीनहीनापसदजान्मपृथग्जनाः ।विवर्णः प्राकृतक्षुल्लक्षुल्लकेतरपामराः ।भृत्ये भुजिष्यदासेयदासेरपरिचारकाः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1575 · p. 190
नीचे निहीनापशदपामरेतरबर्बराः ।विवर्णः क्षुल्लको जाल्मः प्राकृतश्च पृथग्जनः ॥ १५७५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.2 · p. 72
ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 7.4.24 · p. 256
विगतौ वीतनिस्पृहौ विविक्तौ शुद्धनिर्जनौ ।विवर्णौ मूर्खदुर्वर्णौ व्यायतो व्यापृते दृढे ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्पृ (wrong syllable)