कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शशाङ्क

śaśāṅkaपुं · masc.

In 10 kośas: 9 synonym verses, 9 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.42 · p. 6
इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,सोमो राजा रोहिणीवल्लभोऽब्जः ।ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥
शालिनी
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.18 · p. 1
वसुधाशर्वरीकान्तशशाङ्कावनयस्तथा ।यत्र भूमींदुनामानि प्रोक्ता तत्रैकसञ्ज्ञका ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त चन्द्रनामानि Gaṇitanāmamālā 7.60 · p. 4
इंदुर्निशीथिनीनाथ क्षपेशो शर्वरीपतिः ।शशाङ्कः शीतरश्मीश्च सोमो स्त्रिनयनो मतः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.57 · p. 32
क्लेदा स्नेहात्रेयकोऽत्र्यक्षिजो ग्लौःतुङ्गीशः सोमैणलक्ष्मा शशाङ्कः ।श्वेताश्वोऽब्जः पर्वकृच्छर्वरीकृत् ।विक्रस्रश्च कौमुदीशो विकुस्रः ॥ ५७ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 4 श्च (wrong syllable)
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.6 · p. 36
चन्द्रः शशांकः शुभ्रांशुर्दिवाभीरुर्निशाटनः ।सर्वभद्रः काण्डनूनं समुद्रनवनीतकम् ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.67 · p. 8
विधुः शशाङ्कः शीतांशुर्द्विजराजः सुधाकरः ।जैवातृकः शशधरो नक्षत्रेशो निशाकरः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.192 · p. 14
ओषधीशो दर्शविपत् तारापीडः कलानिधिः ।विधुर्जैवातृको राजा ग्लौः शशाङ्को निशापतिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.176 · p. 24
अब्जश्चन्द्रो विधुरमृतगुश्चन्द्रमा ओषधीश-स्तारानाथः सरसिजरिपुः शर्वरीशः शशाङ्कः ।ग्लौरेणाङ्कः शिशिरकिरणो रोहिणीबन्धुरिन्दुःसोमो राजा तुहिनकिरणः श्वेतभानुर्द्विजेन्द्रः ॥ १७६ ॥
मन्दाक्रान्ता
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.27 · p. 19
प्राचीनतिलको जर्णः व्याप्वः स्तृप्रस्तृपिस्तृपत् ।उडुराजः शशांकश्च समुद्रनवनीतकम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.doubtful

शशाङ्क as a meaning in nānārtha verses