कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शाबर

śābaraपुं · masc.

In 8 kośas: 7 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1041 · p. 40
ताम्रं म्लेच्छमुखं शुल्वं रक्तं द्व्यष्टमुदुम्बरम् ॥ १०३९ ॥म्लेच्छशाबरभेदाख्यं मर्कटास्यं कनीयसम् ।ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्त्रकम् ॥ १०४० ॥नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् ।वर्ध्नं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०४१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.56
गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.59 · p. 132
द्व्यष्टं वरिष्ठं सूर्याङ्गं रक्तकं मुनिपित्तलम् ।मर्कटास्यं शाबराख्यं सूर्याह्वं ब्रह्मवर्धनम् ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.86 · p. 142
चिल्लस्तिलस्तिरीटो ना सितलोध्रस्तु शाबरः ।गालवो नेत्रभैषज्यं शीतपुष्पो व्रणौषधम् ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.115 · p. 64
रोध्रे लोध्रः सिते तत्र शाबरः स्थूलवल्कलः ।उत्सादनो महारोध्रस्तरुः शबरपादपः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.57 · p. 8
चन्द्रहासो धालधल्यश्चर्म शाबरमिष्यते ।त्रिशूले कङ्कटः कोटी त्रिमुखी लौहितः सुकः ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.519 · p. 68
सालोऽथ गालवो लोध्रः शाबरस्तिल्वमार्जनौ ।तिरीटोऽथ फलाध्यक्षो राजादन इमौ समौ ॥ ५१९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.54 · p. 325
स्तम्बेऽथ द्विजभेदसूर्यगणयोर्व्यासे तथा माठरोऽथोद्धारोऽपि समुद्धृतावपि ऋणे रोद्ध्रे पुनः शाबरः ।पापे चाप्यपराधकेऽथ योषिति मतो ज्ञैः शूकशिम्ब्यामयंशारीरस्तु वृषे शरीरजनिते स्याद्वाच्यलिङ्गोपमम् ॥ ५४ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1823 · p. 206
लोध्रे क्ली त्वपराधे च पापे च शबरस्य तु ।सम्बन्धिान त्रि ना तु स्यान्मासि श्रावणिके तथा ॥ १८२३ ॥
अनुष्टुप्metre not read in every lineimpossible sign sequence: सम्बन्धिान त्रिnearly अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.414 · p. 38
शम्बरी स्यादाखुकर्ण्यां शम्बर्यां वालके जले ।शाबरी शुकशिम्बायां शाबरः शबरोद्भवे ॥ ४१४ ॥
अनुष्टुप्