तिरीट
tirīṭaपुं · masc.In 10 kośas: 11 synonym verses, 1 as a nānārtha head word.
genderपुंmasc.
तिरीटस्तिलको भिल्लतरुश्चाथ बृहद्वलः ।कटुकः पट्टिकारोध्रः पट्टी लाक्षाप्रसादनः ॥ ३७८ ॥
अनुष्टुप्
genderपुंmasc.
चिल्लस्तिलस्तिरीटो ना सितलोध्रस्तु शाबरः ।गालवो नेत्रभैषज्यं शीतपुष्पो व्रणौषधम् ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
बीटीका चोलकग्रन्थिरुष्णीषं पुनरस्त्रियाम् ।तिरीटं च शिरोवेष्टः शिरोवेष्टनमित्यपि ॥ ९९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
चीनपिष्टं च शृङ्गाट स्यात्फाण्टं मोरटं पिटम् ।तिरीटं पृष्ठ-गोष्ठे च क्ष्वेडं धामार्गवार्थकम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
रक्ते तु पट्टिका तिल्वः पट्टी लाक्षाप्रसादनः ।तिरीटो मार्जनश्चिल्ली कानीनः क्रमुकः शशः ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
लोध्रो रोध्रस्तिरीटश्च शावरः साबरस्तथा ।मार्जनो गालवस्तिल्वश्चेति नामानि सन्ति वै ॥ २०८८ ॥
अनुष्टुप्
genderपुंmasc.
वटन्यग्रोध-बहुपादवृक्षनाथयमप्रियाः ।अथ लोध्रस्तिरीटः स्यात् तिल्वमार्जनगालवाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
श्रीवेष्टः श्रीपिष्टकश्च कोटीरे मुकुटोऽस्त्रियाम् ।मुकुटोऽपि किरीटं स्तात् तिरीटं पुष्पदाम तु ॥ २०८ ॥
अनुष्टुप्
genderक्लीneut.
सालोऽथ गालवो लोध्रः शाबरस्तिल्वमार्जनौ ।तिरीटोऽथ फलाध्यक्षो राजादन इमौ समौ ॥ ५१९ ॥
अनुष्टुप्
genderपुंmasc.
सिते लोध्रे महालोध्रः शवरश्चाथ लोहिते ।तिरीटो मार्जनश्चिल्वः कृष्णेऽस्मिन् लोध्रगालवौ ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.