कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वरिष्ठ

variṣṭhaक्ली · neut.

In 17 kośas: 24 synonym verses, 8 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1041 · p. 40
ताम्रं म्लेच्छमुखं शुल्वं रक्तं द्व्यष्टमुदुम्बरम् ॥ १०३९ ॥म्लेच्छशाबरभेदाख्यं मर्कटास्यं कनीयसम् ।ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्त्रकम् ॥ १०४० ॥नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् ।वर्ध्नं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०४१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1430 · p. 54
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.195
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः ।
metre not recognised
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.699 · p. 81
वृहदुरु गुरु विस्तीर्णं पुरु पृथु पृथुलं महद्विशालं च ।व्यूढं विपुलं रुद्रं वरिष्ठमेकार्थमुद्दिष्टम् ॥ ६९९ ॥
आर्या
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.196 · p. 84
ताम्रं शुल्वं मर्कटाख्यं रक्तव्यष्टं कनीयसम् ।म्लेच्छं वरिष्ठं म्लेच्छास्यं श्रेष्टकाम्यमुदुम्बरम् ॥ १९६ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.61 · p. 13
ताम्रं शुल्बं मर्कटाख्यं रक्तं व्यष्टं कनीयसम् ।म्लेच्छं वरिष्ठं म्लेच्छास्यं श्रेष्ठं रिष्टमुदुम्बरम् ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.545 · p. 193
सूर्यपर्यायिगात्रार्थं ताम्रं शुल्बमुदुम्बरम् ।मर्कटम्लेच्छवक्त्रार्थं वरिष्ठं च कनीयसम् ॥ ५४५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.183 · p. 234
प्रेष्ठो वरिष्ठः क्षोदिष्ठो वंहिष्ठश्च स्थविष्ठकः ।स्फेष्ठो द्राधिष्ठसाधिष्ठौ गरिष्ठोऽपि तथा पुनः ॥ १८३ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.124 · p. 262
नारङ्गो नागरङ्गोऽपि गन्धाढ्यो गन्धपत्रकः ।योगारङ्गो योगरङ्गो वरिष्ठश्च सुरङ्गकः ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.59 · p. 132
द्व्यष्टं वरिष्ठं सूर्याङ्गं रक्तकं मुनिपित्तलम् ।मर्कटास्यं शाबराख्यं सूर्याह्वं ब्रह्मवर्धनम् ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.85 · p. 20
उरु व्यूढं च विपुलं स्फारं गुरु ततं बृहत् ।महद्बहु च विस्तीर्णं वरीयस्तु वरिष्ठवत् ॥ ८५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.60 · p. 187
षिड्गेऽपि वक्त्रावयवप्रभेदेपाण्डौ कठोरे जरठः त्रिषु स्यात् ।वैकुण्ठ इन्द्रे कुरुजाङ्गले तुश्रीकण्ठ उक्तोऽथ वरिष्ठ उक्तः ॥ ६० ॥
इन्द्रवज्रा
genderPVN
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.543 · p. 95
ताम्रे त्वौदुम्बरं शुल्बं दृ(ह्य?)ष्टं म्लेच्छमुखं रितिः(री?) ।वरिष्ठमथ तीक्ष्णं च शस्त्रकं पिण्ड इत्यपि ॥ ५४३ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.247 · p. 17
रूप्यं श्वेतम् दर्पणकं रजतं तारशुक्लगू ।उदुम्बरं म्लेच्छमुखं वरिष्ठं शुल्बताम्रके ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1795 · p. 294
कांस्यं कनीयसं शुल्वं वरिष्ठं ब्रह्मवर्धनम् ।म्लेच्छमुखं तथा म्लेच्छमौदुम्बरं च शावरम् ॥ १७९५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2600 · p. 419
विशङ्कटं विशालं च विस्तीर्णं विकटं महत् ।वरिष्ठं विपुलं व्यूढं वड्रं ततं तथा बृहत् ॥ २६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.187 · p. 150
पित्तलन्त्वारकूटोऽस्त्री रीती रीतिः स्त्रियामपि ।स्यात् ताम्रं ताम्रकं शुल्वं वरिष्ठं मुनिपित्तलम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.88 · p. 169
क्षेपिष्ठ उक्तः क्षिप्रार्थे क्षुद्रे क्षोदिष्ठ इत्यपि ।अभीप्सिते तु प्रेष्ठः स्याद् वरिष्ठः पृथुलार्थके ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.75 · p. 224
औदुम्बरं वरिष्ठं स्यात् त्रिकवर्गद्वितीययुक् ।वङ्गे त्रपु त्रपुस्तपुर्द्वे सान्ते त्रीणि षण्ढके ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्त (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.34 · p. 252
पृथुलं पृथु विपुलं पुलं वद्रं च वड्रवत् ।वरिष्ठं वर्गद्वितीयाप्तमारोहे समुच्छ्रयः ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पृ (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.146 · p. 19
श्रेष्ठं कनीयसद्विष्टं वरिष्ठं मर्कटाननम् ।स्फाटिकोऽर्कः समाः सूर्यकान्तार्काश्मानलोपलाः ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1624 · p. 195
द्रढिष्ठः क्रशिष्ठो गरिष्ठो लषिष्ठोम्रदिष्ठः प्रथिष्ठो वरिष्ठः पटिष्ठः ।द्रढीयान् क्रशीयान् गरीयान् लघीयान्म्रदीयान् प्रथीयान् वरीयान् पटीयान् ॥ १६२४ ॥
भुजङ्गप्रयातम्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.35 · p. 28
तित्तिरिस्तु खरक्वाणो वरिष्ठश्चेश्वरप्रियः ।चकोरस्तु चलच्चञ्चुरुत्पिबश्चन्द्रिकाप्रियः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.25 · p. 43
म्लेच्छ वरिष्ठं म्लेच्छास्यं श्रेष्ठं काम्यमुद्रुंबरम् ।रिरी तु रीतिरुत्साहा पीतलोहं सुलोहकम् ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास ठश्लोकः Dharaṇikośa 11.3.1 · p. 42
वरिष्ठं स्यादुरुतमं तथा गुरुतमं विदुः ।वरिष्ठं शुल्वमाख्यातं वरिष्ठस्तित्तिरिः स्मृतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.61 · p. 187
वरे वरीयस्यपि तित्तिरौ चक्लीबे तु ताम्रे मरिचे तथैव ।साधिष्ठ आर्येऽतिदृढे कनिष्ठ-स्त्वल्पेऽनुजे यूनि तथाङ्गुलौ स्त्री ॥ ६१ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1633 · p. 189
स्याद्रसायनतन्त्रस्य कर्तरि स्यात् तु भेद्यवत् ।वरिष्ठः स्यादुरुतमे तथा वरतमेऽपि च ॥ १६३३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1634 · p. 190
द्वे तु तित्तिरिसंझे स्यात् पक्षिजात्यन्तरेऽथ सा ।वडवा घोटकान्तायां स्त्रीभेदेऽपि च विश्रुते ॥ १६३४ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ठान्ताः Śabdaratnāvalī 7.12.13 · p. 204
वरिष्ठो मरिचे ताम्रे तित्तिरौ ना महत्तरे ।मकुष्ठो व्रीहिभेदे स्यान्मन्थरे वाच्यलिङ्गकः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.108 · p. 128
अम्ललोण्यां दन्तशठा ना जम्बीरकपित्थयोः ।प्रकोष्ठौ बाहुगेहांशौ वरिष्ठं मरिचेऽपि च ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
meaningsमरिच
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.109 · p. 128
ताम्रे चोरुतरे चाऽथ मध्यस्थखलयोः शठः ।शोठोऽलसे च मूर्खे च सूत्रकण्ठो द्विजन्मनि ॥ १०९ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 7.4.25 · p. 256
विकृतौ रोगिदूरूपौ विशदो धवले शुचौ ।वल्लभौ दयिताध्यक्षौ वरिष्ठोऽतिवरेऽत्युरौ ॥ २५ ॥
अनुष्टुप्

वरिष्ठ as a meaning in nānārtha verses