कोटी
koṭīस्त्री · fem.In 8 kośas: 12 synonym verses.
पालिः पाली अश्रिरश्री अश्रः कोटिश्च कोट्यपि ।घण्टिका घाटिकश्च स्यान्मागधो मगधः समौ ॥ २१७ ॥
अनुष्टुप्
genderस्त्रीfem.
पालिरस्त्री कोटिरेता दीर्घान्ताः स्युः स्त्रियामिमाः ।कुलाग्रका तु चिरिका फलपत्राग्रके हुलम् ॥ ३१६ ॥
अनुष्टुप्
genderस्त्रीfem.
सहस्रमयुतं लक्षा स्त्रियां क्लीबे क्वचिन्मतम् ।स्त्रियां क्लीबे तु नियुतं कोटी कोटिरुभे स्त्रियौ ॥ ५०० ॥
अनुष्टुप्
genderस्त्रीfem.
क्षीरशृङ्ग्यथ कोटी स्त्री सैवोक्ता गिरिमल्लिका ।कुटजः कौटजो वत्सः कलिङ्गः शक्रपादपः ॥ १७६ ॥
अनुष्टुप्
genderस्त्रीfem.
अपि कोटी यवफलः संग्राही पाण्डुरद्रुमः ।प्रावृष्यो मल्लिकापुष्पो महागन्धः फलेऽस्य तु ॥ १७७ ॥
अनुष्टुप्
genderस्त्रीfem.
घण्टा घोण्टा कुक्कुटिः शाटि-पट्यौराटिश्चाटिर्गृष्टि-विष्टी वटिश्च ।त्रोटिः कोटी कर्कटी पर्कटी चपोटा चोटी वर्चटी मर्कटी च ॥ ४५ ॥
शालिनी
genderस्त्रीfem.
चन्द्रहासो धालधल्यश्चर्म शाबरमिष्यते ।त्रिशूले कङ्कटः कोटी त्रिमुखी लौहितः सुकः ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
अणिः कोटी तथाऽस्रश्च नामानि कथितानि हि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
माला लङ्काबिका कोटिः कोटी लङ्काविका लती ।अनिर्माल्या च निर्माल्या वर्षा लङ्कोपिकेत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
अटन्यटनिरस्याग्रद्वये कोटिश्च कोट्यपि ।ज्याघातवारणे गोधेस्त्रियौ क्लीबे तले अपि ॥
अनुष्टुप्
genderस्त्रीfem.
कौटजः कुटजः कोटी, तत्फले त्विन्द्र-भद्रतः ।यवं कलिङ्गं कलिङ्गा, वेतसे वेतसी रथः ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
अर्तिरार्तिः किरिः कोटी ज्या जीवा मौर्विका द्रुणा ।तूणी तूण उपासंगतूणीरौ विशिखाश्रयः ॥ १७८ ॥
अनुष्टुप्
genderस्त्रीfem.