All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · पुल्लिँङ्गाध्यायः (2/2)
अथ शुक्षिर्निदाघे स्यान्मातरिश्वनि चाप्यथ ।श्लेष्मा कफे चर्मणश्च विकारे दृढकाह्वये ॥ १२१ ॥
2.2.121 · p. 31
अनुष्टुप्
रथस्य शीघ्रवहनसाधने चापि वस्तुनि ।श्लोकः पद्ये यशोवाचोः षण्ड इट्चरपण्डयोः ॥ १२२ ॥
2.2.122 · p. 31
अनुष्टुप्
इत्यन्येषां मतं सोऽयं मूर्धन्योष्मादिरीरितः ।एष वर्षवरे नीलवृषोत्सर्गे च कीर्तितः ॥ १२३ ॥
2.2.123 · p. 31
अनुष्टुप्
षिद्गो वेश्यापतावुक्तो वेश्याचार्येऽपि कैश्चन ।ष्ठ्यूमश्चन्द्रे जले रश्मौ तन्तौ मङ्गल इत्यपि ॥ १२४ ॥
2.2.124 · p. 31
अनुष्टुप्
वैजयन्त्यामपाठ्येवं तच्चास्मभ्यं न रोचते ।यथा स पठितुं युक्तस्तथान्त्याध्याय ईक्ष्यताम् ॥ १२५ ॥
2.2.125 · p. 31
अनुष्टुप्
सर्गोऽध्याये स्वभावे च निर्माणे च समुज्झने ।उत्साहे निश्चये चाथ स्कन्धः समुदये चये ॥ १२६ ॥
2.2.126 · p. 31
अनुष्टुप्
अंसे महीपतौ वृक्षमहाविटपमूलके ।स्कन्दो विरिञ्चे तीरे च नद्याः स्तम्बस्तु संहतौ ॥ १२७ ॥
2.2.127 · p. 31
अनुष्टुप्
तृणे च विटपे चाथ स्तम्भः स्यात् प्रतिबन्धने ।स्थूणायां च जडीभावे स्पर्शस्तु प्रणिधौ युधि ॥ १२८ ॥
2.2.128 · p. 31
अनुष्टुप्
सवस्तु सूतौ सूत्यायां सुतौ यागे च वर्तने ।स्वप्नः सुप्तस्य विज्ञाने स्वापे सन्धिस्तु रन्ध्रके ॥ १२९ ॥
2.2.129 · p. 32
अनुष्टुप्
अन्त्यस्तोमेऽतिरात्रस्य श्लेषे भङ्गसुरुङ्गयोः ।नाट्याङ्गेऽथ स्वरुर्यूपशकले कुलिशेऽपि च ॥ १३० ॥
2.2.130 · p. 32
अनुष्टुप्
स्वभूर्विष्णौ विरिञ्चेऽथ साद्यश्वारोहसूतयोः ।स्तीभिः समुद्रे हृदये स्फीतिर्वृ(क्ष?द्ध) उदश्विति ॥ १३१ ॥
2.2.131 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रे (syllables merged)
सृणिस्तु वह्नौ कुलिशे सुह्या जनपदान्तरे ।भूम्नि तस्य नृपे सर्ववचनोऽथासुरान्तरे ॥ १३२ ॥
2.2.132 · p. 32
अनुष्टुप्
स्याद्दारुलेखके सुन्दः स्तूपो वायौ समुच्छ्रये ।संयुगोपायतनयोर्मूर्धमध्यगुडे पशोः ॥ १३३ ॥
2.2.133 · p. 32
अनुष्टुप्
सूरः सूर्ये गभस्तौ च स्वेदस्तु स्वेदवारिणि ।स्वेदनायां तथा स्वित्तिक्रियायामथ सेतुवाक् ॥ १३४ ॥
2.2.134 · p. 32
अनुष्टुप्
वरणाख्यद्रुमे वारिबन्धेऽप्यायतने तथा ।स्नेहुः पित्ते तथा रोगविशेषे सन्निपातगे ॥ १३५ ॥
2.2.135 · p. 32
अनुष्टुप्
स्नेहो वसायां गोस्वाङ्गे स्तोमस्तु स्तोतृवृन्दयोः ।सङ्ख्यायां यज्ञगस्तोत्रस्तोत्रियाणां क्रतावपि ॥ १३६ ॥
2.2.136 · p. 32
अनुष्टुप्
देयभेदेऽध्वमाने च दशधन्वन्तराह्वये ।हवस्तु यज्ञ आज्ञायामाह्वाने वह्निहोमयोः ॥ १३७ ॥
2.2.137 · p. 32
अनुष्टुप्
हठः पार्ष्ण्यां बलात्कारे जलोद्भवतृणान्तरे ।वारिपर्णीसमाख्येऽथ महारुग्भीममृत्युषु ॥ १३८ ॥
2.2.138 · p. 32
अनुष्टुप्
हनुर्हेलिस्तु मार्ताण्डे तथोक्त उपगूहने ।उत्पत्तौ कारणे वादे निमित्ते वीजकर्मणि ॥ १३९ ॥
2.2.139 · p. 32
अनुष्टुप्
पञ्चस्वेषु पदार्थेषु हेतुर्वररुचीरितः ।प्रयोजके स्वतन्त्रस्य कर्तुरित्यपि शाब्दिकाः ॥ १४० ॥
2.2.140 · p. 33
अनुष्टुप्