स्मरहर
smaraharaपुं · masc.In 5 kośas: 4 synonym verses, 8 as a meaning of another word.
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
[10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व-श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः ।कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशाभूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥
स्रग्धरा
genderपुंmasc.
कृशानुरेता विश्वेशः सर्वज्ञो नीललोहितः ।रुद्रः स्थाणुः स्मरहरो जयन्तस्त्रिपुरान्तकः ॥
अनुष्टुप्
genderपुंmasc.
शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बकोभूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः ।ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडोरुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
स्मरहर as a meaning in nānārtha verses
- कोषकल्पतरु सर्वज्ञसर्वज्ञः स्मरहरबुद्धयोः कृतज्ञः कार्यज्ञे शुनि च भिषग्विपश्चितोस्तु । दोषज्ञोऽपरनिभ एष दोषविज्ञे क्षेत्रज्ञस्त्रिषु कुशले पुमांस्तु जीवे ॥ ४८ ॥ Koṣakalpataru 6.9.48
- कोषकल्पतरु श्रीपतिचापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवे सूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि । जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे । कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥ Koṣakalpataru 6.16.29
- कोषकल्पतरु सोमकर्पूरे सलिले तथा स्मरहरे स्याद्यज्ञनेत्र्योषधा- विष्मः कामवसन्तयोर्नरि मतो युध्मः शरे योद्धरि । युद्धे धन्वनि चाथ भीम उदितः शम्भौ बकद्वेषिणि स्यादम्लेऽपि च वेतसे त्रिषु पुनर्घोरेऽथ भामो रवौ ॥ ६५ ॥ Koṣakalpataru 6.25.65
- कोषकल्पतरु भीष्मभीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणे भेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् । धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता- वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥ Koṣakalpataru 6.25.67
- नानार्थार्णवसंक्षेप आत्मयोनिज्ञेय आवसथे चाग्निभेदे चाहवनीयतः । प्राग्देशस्थेऽथात्मयोनिः स्मरे स्मरहरेऽनिले ॥ ३४ ॥ Nānārthārṇavasaṃkṣepa 6.34
- शब्दरत्नावली शिपिविष्ठकान्तास्तनयुगोत्सङ्ग कान्तार्पित नखखते । शिपिविष्टः स्मरहरे खलतौ दुष्टचर्मणि ॥ Śabdaratnāvalī 7.11.61
- शब्दरत्नावली स्थाणुस्थाणुरस्त्री ध्रुवे पुंसि कीले स्मरहरेऽपि च । स्थूणा लोहप्रतिमायां गृहस्तम्भेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.15.21
- शब्दरत्नावली गोपतिगर्म्मुत् धमनहेम्नोः स्त्री गीष्पतिर्गुरुसूरिणोः । गोपतिर्नृपतौ सूर्ये षण्डे स्मरहरे पुमान् ॥ Śabdaratnāvalī 7.16.100