शूलिन्
śūlinपुं · masc.In 12 kośas: 12 synonym verses, 2 as a nānārtha head word, 10 as a meaning of another word.
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः ।अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
[10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व-श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः ।कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशाभूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥
स्रग्धरा
genderपुंmasc.
उग्रः शूली कपाली च शिपिविष्टो भवो हरः ।उमापतिर्विरूपाक्षो विश्वरूपः कपर्द्यपि ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
गङ्गाधरस्त्रिनयनः शङ्करश्चन्द्रशेखरः ।रुद्रः स्थाणुः पशुपतिर्भगः शूली पिनाकधृक् ॥ ३८९ ॥
अनुष्टुप्
genderपुंmasc.
महेश्वरो महादेवः श्रीकण्ठः शंकरः शिवः ।उग्रः शूली मृडः शंभुस्त्र्यम्बकश्चन्द्रशेखरः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
शिवः पशुपतिः शम्भुरीश ईशान ईश्वरः ।शूली च ईश्वरः शर्वः शितिकण्ठस्त्रिलोचनः ॥
अनुष्टुप्
genderपुंmasc.
शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बकोभूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः ।ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडोरुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
स्थिरो जयन्तो जयजः शूली च चतुराननः ।मणिबन्धगतो वामो ज-कारो जप(न)को मतः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
सदाशिवः स्थिरा शूली जयन्तश्चतुराननः ।जनको जयजो वाममणिबन्धगतो ज-कः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
व्योमकेशो महादेवः प्रमथाधिपतिः शिवः ।शूली दक्षाध्वरारातिः कामारिः परमेश्वरः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
बले सुखे च श्रूषा तु शाकभेदे स्त्रियामियम् ।वैजयन्त्यां कासमर्दे स्माह शूली तु शङ्करे ॥ १४०८ ॥
अनुष्टुप्
meaningsशङ्कर
पुंसि शूलवति त्वेष त्रिषु शृङ्गस्तु न स्त्रियाम् ।विषाणे शैलशिखरे वररुच्यादयः पुनः ॥ १४०९ ॥
अनुष्टुप्
meaningsशूलवत्
शूलिन् as a meaning in nānārtha verses
- शब्दरत्नावली पुनर्वसुपुनर्वसुर्भभेदे स्याद्द्वयोः कात्यायने पुमान् । लोकभेदे धनारम्भे गरुडध्वजशूलिनोः ॥ Śabdaratnāvalī 7.32.48
- तन्त्राभिधान जछ-कारो मुषली ज्ञेय एकनेत्रश्च शैलजे! । जः शिवोऽर्चिर्महेशानि! शूली च चतुराननः ॥ १६ ॥ Tantrābhidhāna 1.16
- तन्त्राभिधान जजः शवो वानरः शूली भोगदा विजया स्थिरा । ललदेवो जयो जेता धातकी सुमुखी विभुः ॥ ७९ ॥ Tantrābhidhāna 2.25.79
- तन्त्राभिधान हलक्ष्मीर्ब्रह्मा हरिः शम्भुः प्राणशक्तिर्ललाटजः । ----------------------------------- स्व(स)कोपवारणः शूली चैतन्यं पादपूरणः ॥ १६५ ॥ Tantrābhidhāna 2.50.165
- तन्त्राभिधान ससोऽपसर्गः समाख्यातः सा तु लक्ष्मीर्निगद्यते । सः कोपे करणे सः स्यात्तथा शूलिनि कीर्त्तितः ॥ ३५ ॥ Tantrābhidhāna 3.35
- तन्त्राभिधान हहः कोपे धारणेऽपि स्यात् हः शूलिनि समीरितः । हिः पद्यपूरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥ ३७ ॥ Tantrābhidhāna 3.37
- तन्त्राभिधान ङ----------------------------------- दक्षाङ्गुल्यग्रगः शूली क्लीबाख्यश्चैव रुद्रकः । डामरेशो हरिः श्रीमान् रुद्रेशो ङा-र्णकः स्मृतः ॥ २२ ॥ Tantrābhidhāna 6.22
- तन्त्राभिधान चना चामरादिकः कूर्मः शूली चन्द्रक-सायकौ । भूभेत्ता चित्रचारी च चञ्चलश्चा-र्णको मतः ॥ २३ ॥ Tantrābhidhāna 6.23
- तन्त्राभिधान डयाम्यजानुस्थितो दण्डो दारुको वत्सलो नरः । डामरी व्याघ्रपादश्च शूली स्त्री डा-र्णकः स्मृतः ॥ ३० ॥ Tantrābhidhāna 6.30
- तन्त्राभिधान दवामगुल्फस्थितः शूली दात्री दाता कुबेरकः । चन्द्रकश्च हरिद्रान्तो देवेशो दा-र्णकः स्मृतः ॥ ३५ ॥ Tantrābhidhāna 6.35