सर्व
sarvaवि · adj.In 17 kośas: 19 synonym verses, 1 as a nānārtha head word, 13 as a meaning of another word.
सर्वं समस्तमन्यूनं समग्रं सकलं समम् ।विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ १४३३ ॥
अनुष्टुप्
genderविadj.
गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ॥ ६४ ॥विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ।समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कृत्स्नं समग्रं सकलं समस्तं,सर्वं च विश्वं निखिलाखिले च ।खण्डार्धनेमाः शकलं च भित्तं,सामीत्यसम्पूर्णसमानसंज्ञाः ॥ ७१३ ॥
इन्द्रवज्रा
genderविadj.
अवगाहो वगाहश्च विश्रामो विश्रमो भवेत ।शर्वः सर्वश्च शम्भौ तु तत्र हारो हरे भवेत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
गणनीयं गणेयं च संख्यातं गणितं पुनः ।सर्वविश्वसमाशेषसमस्तनिखिलानि च ॥ १२१ ॥
अनुष्टुप्
genderविadj.
अथापि चैवं सर्वस्तु विश्वः समसिमावपि ।इदं प्रत्यक्षनिर्देश्यमेतन्नेदिष्ठवर्त्ति तत् ॥ १५५ ॥
अनुष्टुप्
genderविadj.
भर्गो भर्ग्यः खण्डपर्शुर्भरुः शङ्कुर्हरिः पुनः ।शंभूः सर्वोऽपि वामः स्याद्गिरिशो नटराडपि ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
[10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व-श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः ।कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशाभूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥
स्रग्धरा
genderपुंmasc.
अशेष-निःशेष-समस्त-सर्वेकृत्स्नाखिलाखण्ड-समग्र-विश्वे ।अन्यून-पूर्णे सकलं समं चन्यक्षं तथाक्ष्णे( ? )न्निखिलं सिमं च ॥ ९२ ॥
उपजातिः
genderविadj.
सर्वाः स्युः सर्वसंज्ञा ये प्रियसर्वाः प्रिया[172b]खिलाः ।घनं निरन्तरं सान्द्रं नीरन्ध्रं बहलं दृढम् ॥ १ ॥
अनुष्टुप्metre not read in every line
genderविadj.
समस्तं सकलं सर्वं कृत्स्नं विश्वं तथाऽखिलम् ।शकलं विकलं खण्डं शल्कं लेशं लवं विदुः ॥ १८७ ॥
अनुष्टुप्
genderविadj.
समग्रं सकलं विश्वं सर्वाशेषाखिलानि च ।अनूनाखण्डकृत्स्नानि समस्तान्यून एव च ॥ ३२२ ॥
अनुष्टुप्
genderविadj.
राजिर्मालावलिः श्रेणिस्ततिः पङ्क्तिश्च घोरिणी ।सर्वं समस्तं सकलं समग्रं निखिलाखिले ॥ ८८ ॥
अनुष्टुप्
genderविadj.
विश्वं सर्वं समस्तञ्च समग्रं सकलं समम् ॥ २६०५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
अथ सर्वं समं विश्वमशेषं निखिलाखिलम् ।समस्तं सकलं कृत्स्नं समग्रं स्यादनूनकम् ॥
अनुष्टुप्
genderविadj.
भर्गो भार्गो भर्ग्यः शर्व-सर्वौ महेश्वरौ ।भीम-भीष्मौ च तच्चापे, त्वजकावमजीजकम् ॥ ८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्तनितं नदितमधिश्रितमधिगतमासादितं प्राप्तम् ।सर्वमशेषमखण्डं सकलाखिलसमग्रविश्वनिखिलानि ॥ १६४० ॥
उद्गीतिःmetre not read in every line
genderविadj.
व्योम चांतश्च सर्वश्च समुद्राद्यास्तु वा त्रिषु ।अन्ये त्वाहुः शतं कोटिः शंकुर्बृन्दं महागणः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
अदभ्रमधिकं भूरि भूयिष्ठं पुरुहं पुरु ।समग्रं सकलं सर्वं समस्तं निखिलाखिले ॥ ८५ ॥
अनुष्टुप्
genderविadj.
सर्व as a meaning in nānārtha verses
- धरणिकोश विश्वविश्वं सर्वं जगच्छुण्ठी विश्वा चातिविषा स्मृता । देवी दुर्गा च पूजा च देवौ सुरमहीभुजौ ॥ Dharaṇikośa 28.2.8
- कोषकल्पतरु रत्नज्ञाने स्थिते विन्नमुशन्ति लब्धे रत्नं तु कुक्षौ सलिले द्वयोनम् । सर्वार्थकं तत्त्रिषु वाच्यवत्तु छिन्नं च भिन्नेऽथ सुधालतायाम् ॥ ९६ ॥ Koṣakalpataru 6.21.96
- कोषकल्पतरु सिमस्याद्गुग्गुलुश्चाथ सिमस्तु सर्व- शक्तावबद्धेषु तथावधौ च । स्यात्सर्वनामापि समोऽखिलार्थः साधौ सदृक्षे च विशेष्यवत्स्यात् ॥ ७६ ॥ Koṣakalpataru 6.25.76
- नानार्थार्णवसंक्षेप कृत्स्नतपोमात्रे तथा प्राजापत्यसान्तपनादिषु । कृत्स्नं जले क्ली सर्वस्मिंस्त्रिः कृकस्तु मृगान्तरे ॥ २७५ ॥ Nānārthārṇavasaṃkṣepa 2.5.275
- नानार्थार्णवसंक्षेप विश्वसर्वनाम तु सर्वस्मिंस्त्रिषु क्ली तु जगत्यदः । विश्वे तु देवभेदेषु पुंसि भूम्नि च मन्यताम् ॥ १२५० ॥ Nānārthārṇavasaṃkṣepa 2.5.1250
- नानार्थार्णवसंक्षेप ससर्वशब्दस्य पर्यायः सर्वनामसु सा त्वियम् । स्त्री समा वत्सरे केचित् स्त्रीभूम्न्यर्थेऽत्र मन्वते ॥ १४४२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1442
- नानार्थार्णवसंक्षेप सिमसिमोऽनुदात्तः सर्वार्थे सर्वनाम त्रिषु स्मृतः । ग्रामगोचरभूमौ तु पुमान्नो सर्वनाम सः ॥ १५१८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1518
- शब्दरत्नावली कृत्स्नअग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् । अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये । उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥ Śabdaratnāvalī 7.20.2
- शब्दरत्नावली समशुष्मं वीर्ये रवौ पुंसि समा स्याद्वत्सरे स्त्रियाम् । साधुसर्वसमानेषु समं स्याद्वाच्यलिङ्गकम् ॥ Śabdaratnāvalī 7.25.26
- शब्दरत्नाकर विश्वविश्वं जगति सर्वस्मिन् त्रिषु शुण्ठ्यामसौ न ना । मूषिके शुनके श्रेष्ठे वृषभे सुकृते वृषः ॥ २००२ ॥ Śabdaratnākara 4.1.2002
- तन्त्राभिधान सस-कारो वानरः प्रोक्तः स-कारः सर्व उच्यते । सा चैव गौः समाख्याता संसर्गः स प्रकीर्त्तितः ॥ ३६ ॥ Tantrābhidhāna 3.36
- वैजयन्ती विश्ववसुर्ह्रर्देऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । विश्वं जगति सर्वस्मिंस्त्रिषु शुण्ठ्यां पुनर्न ना ॥ ७८ ॥ Vaijayantī 6.5.78
- वैजयन्ती समसमा स्त्री वत्सरे साधुसर्वतुल्येषु वाच्यवत् । परमार्थेऽर्थवत्सत्यं षण्डः शपथतथ्ययोः ॥ ९५ ॥ Vaijayantī 6.5.95