कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ईश

īśaपुं · masc.

In 19 kośas: 30 synonym verses, 8 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.119 · p. 12
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः ।कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ ॥ १९५ ॥मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः ।षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः ॥ १९६ ॥मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च ।महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १९७ ॥स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ ।सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १९८ ॥पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः ।पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ १९९ ॥गजपूषपुरानङ्गकालान्धकमखासुहृत् ।
शालिनी
शम्भुपुंशर्वपुंस्थाणुपुंईशानपुंईशपुंरुद्रपुंउड्डीशपुंवामदेवपुंवृषाङ्कपुंकण्ठेकालपुंशंकरपुंनीलकण्ठपुंश्रीकण्ठपुंउग्रपुंधूर्जटिपुंभीमपुंभर्गपुंमृत्युंजयपुंपञ्चमुखपुंअष्टमूर्तिपुंश्मशानवेश्मन्पुंगिरिशपुंगिरीशपुंषण्ढपुंकपर्दिन्पुंईश्वरपुंऊर्ध्वलिङ्गपुंएकदृश्पुंत्रिदृश्पुंभालदृश्पुंएकपादपुंमृडपुंअट्टहासिन्पुंघनवाहनपुंअहिर्बुध्नपुंविरूपाक्षपुंविषान्तकपुंमहाव्रतिन्पुंवह्निरेतस्पुंहिरण्यरेतस्पुंशिवपुंअस्थिधन्वन्पुंपुरुषास्थिमालिन्पुंव्योमकेशपुंशिपिविष्ठपुंभैरवपुंदिग्वासस्पुंकृत्तिवासस्पुंभवपुंनीललोहितपुंसर्वज्ञपुंनाट्यप्रियपुंखण्डपर्शुपुंमहादेवपुंमहानटपुंमहेश्वरपुंहरपुंपशुपतिपुंप्रमथपतिपुंभूतपतिपुंउमापतिपुंपिङ्गजटपुंपिङ्गेक्षणपुंपिनाकभृत्पुंशूलभृत्पुंखट्वाङ्गभृत्पुंगङ्गाभृत्पुंअहिभृत्पुंइन्दुभृत्पुंकपालभृत्पुंगजासुहृद्पुंपूषासुहृद्पुंपुरासुहृद्पुंअनङ्गासुहृद्पुंकालासुहृद्पुंअन्धकासुहृद्पुंमखासुहृद्पुं
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.26 · p. 18
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥परान्नः परिपिण्डादः परजातः परैधितः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.34
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.1
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.356 · p. 42
उदात्तश्च तथोदीर्णो महात्मोदार उच्यते ।आढ्यः समृद्धो धनवानिन ईशो धनीश्वरः ॥ ३५६ ॥
अनुष्टुप्
genderविadj.
गौरी गौरा ईश ईट् स्यात् गिरीशगिरिशौ समौ ।शिविपिष्टो विनिर्दिष्टः शिपिविष्टस्तथा समौ ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.6 · p. 1
ईशं च शांकरं शर्वं शंकरं शशिशेखरम् ।पुनर्वसु पुनःप्रोक्तमादित्यं च तथादिति ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.28 · p. 2
शिवैकादश रुद्राश्च सर्वेशाभवशंकरा ।यत्रेश्वरस्य नामानि तत्रैकादश कीर्तिताः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.18 · p. 216
आढ्योस्तिमान् धनी स्वामीभ्येश्वरौ पतिरीशिता ।भर्त्तेशेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.79 · p. 388
ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः ।अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.16 · p. 2
ओमव्ययं तथाथ स्यान्मायाऽजा प्रकृतिः प्रसूः ।प्रधानं बीजमव्यक्तमीशोऽसौ मायया वृतः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.64 · p. 14
[10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व-श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः ।कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशाभूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥
स्रग्धरा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.35 · p. 4
तथा प्रतीतस्तादृक्तु गुणैराहतलक्षणः ।ईशस्तु ***** पतिरीश्वर ईशिता ॥ ३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.31 · p. 9
भूतपतिः पशुपतिः खण्डपर्शुः पिनाकभृत् ।अट्टहासी त्रिनेत्रोऽपि श्रीकण्ठेशौ पुरासुहृत् ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.25 · p. 104
विभुः स्वामी पतिर्नाथो नेता भर्तेश्वरः पुनः ।इन्द्रेनावीशितेशश्च आर्यः परिवृढः समः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.390 · p. 27
वृषाङ्को नीलकण्ठेशौ भगाली त्रिपुरान्तकृत् ।पिनाकः शम्भुकोदण्डो जटाजूटः कपर्द्दकः ॥ ३९० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.20 · p. 3
रुद्रस्त्रिलोचनः शर्वः स्थाणुर्गङ्गाधरो हरः ।ईशान ईशो गिरिशो गिरीशः प्रमथाधिपः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.231 · p. 31
श्रीकण्ठो नीलकण्ठश्च गिरीशो गिरिशो हरः ।ईश ईश्वर ईशानः भीमो भर्गश्च धूर्जटिः ॥ २३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.41 · p. 68
ईशितेशेश्वरेन्द्रे ना कथ्यते कोविदैः किल ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.70 · p. 6
शिवः पशुपतिः शम्भुरीश ईशान ईश्वरः ।शूली च ईश्वरः शर्वः शितिकण्ठस्त्रिलोचनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.172 · p. 12
धनेश ईशः पूर्वादिक्रमादष्टौ दिगीश्वराः ।ऐरावत-पुण्डरीक-वामन-कुमुदाञ्जनाः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.234 · p. 17
अहर्पतिर्ग्रहपतिः पद्मबन्धुर्विरोचनः ।ज्योतिष्मानव्यथेशस्तु तपनस्तापनोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.79 · p. 183
हीर ईशान ईशश्च वामदेवश्च वामयुक् ।अहिर्बुध्नो बुध्नकाही महाकालः सकालकः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.15 · p. 189
वश-वान्तौ गृह्यकश्च गृह्याऽऽगृह्यकसंयुतः ।नायके नेत्र-नेतारावीडीश ईश्वरस्तथा ॥ १५ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.47 · p. 6
दृगस्त्रः प्रमथाधीश ईश उग्रोऽसमेक्षणः ।व्योमकेशो दशभुजः सर्वज्ञोऽन्धकसूदनः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.50 · p. 7
शर्वभवेशकपालिस्थाणुभगाजैकपादहिर्बुध्न्याः ।कृत्तिवसनः पिनाकी मृगलुब्धक इत्यमी रुद्राः ॥ ५० ॥
आर्या
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1592 · p. 192
इभ्यस्त्वाढ्यो धनी स्यात् परिवृढ इन ईशोऽधिभूः स्वास्यधीशो ।नेता नाथोऽधिपोऽपि प्रभुरथ बहुदः स्थूललक्षो वदान्यः ॥ १५९२ ॥
स्रग्धरा
genderविadj.
कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही ।उटसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.40 · p. 6
कपर्दी धूर्जटिः शर्वः कपाली नीललोहितः ।ईश ईश्वर ईशानो भर्गो मृत्युञ्जयो मृडः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.58 · p. 205
अधिभूरधिपोऽधीश ईशिताधिपतिः पतिः ।ईशः परिबृढः स्वामी स्थूललक्षो बहुव्यये ॥ ५८ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास शपादः Dharaṇikośa 29.1.1 · p. 211
ईशः प्रभौ च शम्भौ च राशिर्मेषादिपुञ्जयोः ।अंशुर्लेशे च रश्मौ स्यादाशा तृष्णादिशोः स्मृता ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.8 · p. 365
ईशो हरे चापरवत्प्रभौ स्या-त्स्त्रियां शिवालाङ्गलदण्डयोश्च ।वेशोऽस्त्रियां स्याद्गृहमात्रकेऽपिनेपथ्यवेश्यागृहयोस्तथैव ॥ ८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.90 · p. 50
कर्पूरे क्ली तु सलिले ना त्वीडो देवतान्तरे ।स्तुतौ तु नृस्त्रि स्त्री भूम्यामीशस्तु गिरिशे पुमान् ॥ ९० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.91 · p. 50
ईशाने नृस्त्रियोरीशा भवेत् स्वामिनि तु त्रिषु ।उष्णः पुंसि हुताशे स्याद् ग्रीष्मे शिग्रुमहीरुहे ॥ ९१ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास इकारादयः Paramānandīyanāmamālā 5.2.59 · p. 168
इष्टिर्यागेच्छयोरीशो हरौ शम्भौ क्षमे मतः ।ईक्ष्वाकुर्नृपमेदे स्यात्कटुतुम्ब्यामपीरितः ॥ ५९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शान्ताः Śabdaratnāvalī 7.30.2 · p. 288
अंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् ।आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् ।ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् ।अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.427 · p. 243
प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके ।दिगम्बरे कपै कीशः केशो वालप्रचेतसोः ॥ ४२७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.35 · p. 280
ईशेश्वरौ प्रभौ रुद्रे पार्वत्यामीश्वरेश्वरी ।स्वभावे स्यान्निसर्गश्च सृष्टिश्चोत्पादनेऽपि च ॥ ३५ ॥
अनुष्टुप्

ईश as a meaning in nānārtha verses

  • धरणिकोश अव्यक्तआयस्तः क्लिशितो जितः प्रतिहतः क्षुब्ध[श्च] कोपान्वितः अव्यक्तास्त्वपरिस्फुटा इव वचाश्चाव्यक्त ईशः स्मृतः । जीमूतो जलदे गिरौ धृतिकरे स्याद्देवताडद्रुमे आनर्तोऽपि च नृत्यसारिणि ? जले देशप्रभेदे स्मृतः ॥ Dharaṇikośa 15.1.26
  • धरणिकोश अअ स्वल्पार्थेऽप्यभावे च विष्णावीशे त्वनव्ययम् । आङितीषदभिव्याप्तिसीमार्थे धातुयोगजे ॥ Dharaṇikośa 34.1.1
  • कोषकल्पतरु भालाङ्कभालाङ्क ईशेऽपि च शाकभेदे कूर्मे तथा रोहितनाम्नि मत्स्ये । सल्लक्षणे स्यात्पुरुषे वृषाङ्क- स्त्वीशे च साधावपि वल्लिवृक्षे ॥ ६ ॥ Koṣakalpataru 6.1.6
  • कोषकल्पतरु अध्यूढप्ररूढं कठोरे तथोद्बद्धमूले समूढं पुनः पुञ्जिते तत्क्षणोत्थे । विलूने तथोपप्लवे नापि पीने- ऽप्युदूढं सुगुप्ते प्रमीढं पुनः स्यात् । घने मू[278a]त्रितेऽथ प्रगाढं सुकृच्छ्रे दृढेऽध्यूढ ईशे ससापत्न्यनार्याम् ॥ ९९ ॥ Koṣakalpataru 6.14.99
  • कोषकल्पतरु कपर्दतोयेऽन्तिमे स्याद्गणके तु पुंसि कपर्द ईशे च वराटके च । ना खण्डपर्शोश्च जटानिबन्धे प्रतिष्ठितौ त्वास्पदमत्र कृत्ये ॥ ३२ ॥ Koṣakalpataru 6.19.32
  • कोषकल्पतरु उपाधिहरिवालुके सुगन्धिर्विशेष्यवत्त्विष्टगन्धे स्यात् । सुबहुकुटुम्ब उपाधिर्धर्मविचारे विशेष ईशे च ॥ ७४ ॥ Koṣakalpataru 6.20.74
  • कोषकल्पतरु केदारकेदार ईशे च धरालवाल- क्षेत्रप्रभेदेषु बुधैः प्रदिष्टः ॥ ४२ ॥ Koṣakalpataru 6.27.42
  • कोषकल्पतरु सर्ववित्तेऽपि सान्त्वं त्विह दक्षिणत्वे स्यात्साम्न्यथेशे नरि सर्व उक्तः । समस्तवाची परवत्प्रदिष्टः [77a]कर्वस्तु कामे नरि मूषके च ॥ ५०० ॥ Koṣakalpataru 6.29.500
  • शब्दरत्नाकर उउ तापेऽव्ययमीशे ना मा निषेधे श्रियां स्त्रियाम् । अ निषेधे पुमान्विष्णौ वि विचित्रे स्मरे पुमान् ॥ २२५८ ॥ Śabdaratnākara 5.1.2258
  • वैजयन्ती ध्रुवध्रुवो धात्रीशकीलर्क्षनित्येषु स्त्री तु भूस्त्रुचोः । क्ली तर्के निश्चिते व्योम्नि धीरोऽब्धौ मंथरे बुधे ॥ ४४ ॥ Vaijayantī 6.5.44
  • वैजयन्ती अपराजितवर्णमात्रेऽभिनिष्ठानो हरीशावपराजितौ । आशुशुक्षणिरर्केऽग्नौ यज्वन्यप्यासुतीवलः ॥ ५० ॥ Vaijayantī 8.1.50
  • वैजयन्ती कण्ठपञ्चपूर्वास्तु वक्त्रस्य व्याघ्रे सिंहे हरे नरः । कण्ठस्य नीलनामभ्यो ग्रीवायाश्चेशकेकिनोः ॥ २२ ॥ Vaijayantī 8.6.22
  • वैजयन्ती उउ तापेऽव्ययमीशे ना मा निषेधे श्रियां स्त्रियाम् । अ निषेधे पुमान्विष्णावि विचित्रे स्मरे पुमान् ॥ १० ॥ Vaijayantī 8.7.10