कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthakairavākarakaumudī

अनेकार्थकैरवाकरकौमुदी Anekārthakairavākarakaumudī

3,608 verses · text only, tagging comes next

द्वितीयः काण्डः (8/30)

गृहित्वा निक्षिप्यते क्षोदयितुं खलेषु ॥ ४७१ ॥
2.471 · p. 60
खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।खलति खल्ल: ।शामाश्या (उ० ४६२) इति बहुवचनात् लः ।निम्ने वाच्यलिङ्गः ।चतुर्घ-अपि यथा-खल्लैहि भिल्ला गमयन्ति कालम् ।खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ।गौरादित्वाड्डीः ।यथा-- भल्लीभिरिव खल्लीभिस्तुद्यमानस्तु वेल्लति ॥ ४७२ ॥
2.472 · p. 60
अनुष्टुप्metre not read in every line
गल: कण्ठे सर्जरसे ।गलति गलः ।कण्ठे यथा-शोकपिहितगलरुद्धगिरस्त रसागताश्रुजलकेबलोत्तराः ।सर्जरसो धातुभेदः ।गोल: स्या सर्ववर्तुले ।गुड्यते गोल: ।गायते वा ।ग्रह्याद्भ्यः कित् (उ० ४९४) इत्योलः ।यथा-इदं भासां भर्तुर्ह तकनकगोल प्रति)कृतिः ।गोला पत्राञ्जने गोदावर्यां सख्यामलिञ्जरे ।मण्डले च कुनटयां च बाल क्रीडनकाष्ठके ! स्वीक्लीबः ।यद्गौडः ।पत्राञ्जने कुनटयां च गोदावर्यां च मण्डले ।सखीमणिकयो गर्गोला गोलं लक्ष्यानुसारत: ।पत्राञ्जनं भेषजभेदः ।गोदावयाँ नद्यां यथा-गोला कूले बहुलबकुले कूलिकां वालुकाभिः ।सखी वयस्या ।अलिजरो मणिक: ॥ ४७३ ॥
2.473 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मण्डलं समूहः ।कुनटी मनःशिला ।बालक्रीडनकाष्ठं येन शिशवः क्रीडन्ति ।चिल्ल: खगे ।चिल्लशैथिल्ये च अचि चिल्लः ।खगः शकुनिस्तत्र(२७०)अनेकार्थसंग्रह सटीक:क्लिन्नाक्षिण चुल्ली तूद्धाने चेलं गर्हितवस्त्रयोः ।छलं छद्मस्खलितयोः छल्ली सन्तानवीरुधोः ॥ ४७५ ॥
2.475 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यथा-पयसि प्राविशन् मत्स्याऽहर बिल्ली तथामिषम् ।अत्र जातिवाचित्वाड्डीः ।सचुल्लश्च पिल्लवत् क्लिन्नलोचने क्लीन्नाक्षिण ।स इति चिल्लशब्दश्रुल्लशब्दश्च पिल्लवत् इति पिल्लशब्दश्च त्रयोऽपि क्लिन्नलोचने पुरुषे ॥ ४७४ ॥
2.474 · p. 60
metre not recognised
क्लिन्ने चाक्षिण वर्तन्ते ।क्लिन्नं चक्षुः ।चिल्लं चुल्लं पिल्लम् ।क्लिन्नाल्लचक्षुषि चिल पिल चुल चास्य ७१ १ ॥ १३० ॥इति साधवः ।चिल्लाद्यक्षियोगात् पुरुषोऽपि चिल्ल: चुल्ल: पिल्लः ।तत्र तु वाच्यलिङ्गः ।तत्र यथा-द्रुहिणसुतो भवतामुदश्रुचिल्लः ।स मन्त्रिणं चार्द्धक(वार्द्धक)चुल्लमेव मुक्तोपपिल्लस्तमुवाच यावत् ।क्लिन्नेऽक्षिण यथा-चुल्ले फुल्ले च दातव्या वतिरेषा सुनिर्मला ।चुल्ली तूद्धाने ।उद्दानम् अश्मन्तकः ।यथा-वेपन्ते कपयो मृशं कृशतरं गोजाविक ग्लायति श्वा चुल्ली कुहरोदरं क्षणमधिक्षि प्तोऽपि नैवोञ्झति ।चेलं गर्हितवस्त्रयोः ।चेलति चेलम् ।गर्हिते वाच्यलिङ्गः ।तत्र यथा-ताभिर्बाह्मणचेलीभिहते चारित्रपादपे ।विच्छायमभवद्राष्ट्रम् ।वखे यथा-चेलाञ्चले चलति चञ्चललो चनायाः ।छलं छद्मस्खलितयोः ।छचति छलम् ।छोडग्गादिर्वा (उ० ४७१) इति किदल: ।छद्मनि यथा-न परेषु महौजस श्छलादपकुर्वन्ति मलिम्लुचा इव ।स्खलितं परस्य वदतोऽर्थ विकल्पोपपादनेन वचनविघातः ।यथा - नवकंबलोऽयं माणवक: कुतोऽस्य नवकंबलाः ।तत्र यथा-वस्तुनि रुपयनिपुणं वचन छल मुखरकल्पितैः किमिह कन्यागत इति सविता न हि दुष्यति वचन मात्रेण ।मतिभ्र शादिकं वा ।तत्र यथा-देवो यस्य छलान्वेषी ।द्वितीयः काण्डः(२७१) वल्कले पुष्पभेदे च जलं गोकलले जडे ।हीवेरेऽम्बुनि जालं तु, गवाक्षे क्षारके गणे ॥ ४७६ ॥
2.476 · p. 60
metre not recognised
दम्भानाययोश्च जालो नीपे जाली पटोलिका ।झला पुत्र्यामातपोर्मो, झिल्लो तद्वर्तनांश ॥ ४७७ ॥
2.477 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
छल्ली सन्तानवीरुधोः ।वल्कले पुष्पभेदे च ।छादयति छल्ली ।भिल्लाच्छभल्ल (उ० ४६४) इति निपात्यते ।सन्तानं सन्ततिः ।बीस्तलता गुल्मभेद: ॥ ४७५ ॥
2.475 · p. 60
metre not recognised
वल्कलं त्वक् ।पुष्पभेदः ।कुसुमान्तरम् ।चतुर्वर्थेषु ।वल्कले यथा-छल्लोछन्ना भान्ति पल्लीषु भिल्ल्यः ।जलं गोकलले जडे ।हीवेरेऽम्बुनि ।जलति जलम् ।चतुर्वर्थेषु ।जडे वाच्यलिङ्गः ।गोः कललं शुक्रशोणि तयोरीषयूनः (प्र. द्वयुतः,रीषद्यकृत,)परिणामो गर्भप्रथमावस्थेति यावत् ।जडे मूर्खे ।अम्बुनि तोये च यथा-दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत ।हीवेरं बालकम् ।जालं तु गवाक्षे क्षारके गणे ।दम्भानाययोश्च ।जलति जालम् ।ज्वलादित्वाद् णः ।गवाक्षगणानायेषु स्त्रीक्लीबः ।गवाक्षे यथा--पादानिन्दोरमृतशिशिरान जालमार्ग प्रविष्टान् ।क्षारकं कुड्मलं तत्समूहो वा तत्र यथा-विश्रान्तः सन् ब्रज नवनदीतीरजातानि सिञ्चन्नुद्यानानां नवजलकणैर्यथि काजाल कानि ।गणे समूहे यथा-पश्यन्ति शान्तमलसान्द्रतरां शुजालम् ॥ ४७६ ॥
2.476 · p. 60
metre not recognised
दम्भे छद्मनि ।आनाये मत्स्यबन्धने च यथा जालावलम्बेन हि धीवरोऽपि प्राणातिवाहं कुरुते जलेभ्यः ।धूर्तकृत्येऽपि मंखः ।यथा-शङ्का स्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ।जालो नीपे ।नीपः कदम्बः ।जाली पटोलिका ।पटोलिका कोशातकी ।(२७२)अनेकार्थसंग्रहः सटीक:वातपरचोचीया, तलं ज्याधातवारणे ।तलश्चपेटे तालद्रौ, स्वभावाधरयोः त्सरौ ॥ ४७८ ॥
2.478 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तल्लो जलाधारभेदे, तल्लो तु वरुणस्त्रियाम् ।तालः कालनियामाने, हस्तमानद्रुभेदयोः ॥ ४७९ ॥
2.479 · p. 60
अनुष्टुप्
झला पुत्र्यामातपोमौं ।झलति झला ।भिल्लाच्छभल्ल (उ० ४६४) इति साधुः ।पुत्री दुहिता ।आतपोमिः आतपवीचि: झल कायामपि ।झिल्ली तूद्वर्तनांशके वातपरुचोश्चीर्याम ।झमति झिल्ली ।भिल्लाच्छभल्ल इति साधुः ।उद्वर्तनांशक उद्वर्तना वयवः ॥ ४७७ ॥
2.477 · p. 60
metre not recognised
वत्तिर्दशा ।आतपेन उष्णत्वेन युक्ता रुक आतपरुक् ।चीरी पक्षिभेदः ।तलं ज्याघातवारणे ।तलति तलम् ।ज्याघातवारणं प्रकोष्ठे प्रत्यञ्चाघातरक्षार्थं वर्धपट्टः ।तत्र यथा-न्यासीकृताच्छमणिखण्डतलायमानम् ।तलश्चपेटे तालद्रौ स्वभावाधरयोः त्सरौ ।स्वभावाधरयोः पुंक्लीबः ।अन्यत्र पुंसि ।मंखस्तु तलं गोधास्वरूपाधःपृष्ठेष्वस्त्रीपुमान् द्रुभित् ।चपेटे चावितस्तौ चेत्याह ।चपेटेा विस्तृताङ्गलिः पाणिस्तत्र यथा तलप्रहारेण तिरस्क्रियेत कथं तु मत्तो द्विरदोनुयातः ।तालद्रुः तालनामावृक्षः तत्र यथा-तलस्य सुचिरात्फलं फलति तत्किमे तावता भवेयुरजरामरास्तद्रूपयोगिनः केचन ।स्वभावे स्वरूपेऽ धरेऽधोभागे च यथा-विदांकुर्वन्तु महतस्तलं विद्विषदम्भस: ।त्सरुः खड्गादिमुष्टिः ।तताङ्गष्ठमध्यमपाणौ वितस्तिमात्रे पृष्ठेऽपि ।पृष्ठे क्लीबस्तत्र यथा-महीतलस्पर्शनमात्रभिन्नमृद्ध हि राज्यं पदमैन्द्रमाहुः ॥ ४७८ ॥
2.478 · p. 60
अनुष्टुप्metre not read in every lineimpossible sign sequence: चपेटेा विस्त
तल्लो जलाधारभेदे ।तल्लाति तल्लः ।यथा - अनिलश्चलयन् मल्लीसल्लकल्लोललासकः ।तल्ली तु वरुण (प्र. तरुण) स्त्रियाम् ।गौरादित्वाड्डीः ।वरुणस्त्रीद्वितीयः काण्ड:(२७३)...करास्कोटे करतले, हरिताले सरावपि ।तुला माने फ्लशते सादृश्ये राशिभाण्डयोः ॥ ४८० ॥
2.480 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गृहाणां दारुबन्धाय पोठयां तूलं तु खे पिचौ ।ब्रह्मदारुण्यथ दलं, शखीच्छदेर्द्धपर्णयोः ॥ ४८१ ॥
2.481 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च्छ (wrong syllable)
वरुणभार्या ।ताल: कालक्रियामाने हस्तमानद्रुभेदयोः ।करास्फोटे करतले हरिताले त्सरावपि ।तालयति तालः ।सप्तस्वर्थेषु ।कालस्य क्रियया आवापनिष्कामादिक (का)या मानं परिच्छेदकं चच्चत्पुटादि तत्र यथा-गतमनुगतवीणैरेकतां वेणुनाद: कलमविकलतालं गायनैर्बोधहेताः ।हस्तस्य मानम् अङ्गष्ठमध्य माङ्गलिकृतः परिच्छेदः ।तत्र यथा-पञ्चतालमितां रज्जु पञ्चाङ्गी तत्र कल्पयेत् ।द्रुभेदे वृक्षभेदे यथा-यस्तैकबाणाहतिश्रेणीभूतवि शालतालविवरोद्गीणः स्वरैः सप्तभिः ।करास्फोटे करतले च यथा-ताल: सिजद्वलयसुभगैः नत्तितः कान्तया मे ।हरिताले धातुभेदे यथा-तानं तालेन लेपयेत् ।त्सरुः खड्गादिमुष्टिः ।गृहादिरक्षणाय लोहादिमययन्त्रेऽपि ।तुला माने पलशते सादृश्ये राशिभाण्डयो: ।गृहाणां दारुबन्धाय पीठ्याम ।तोल्य तेऽनया तोलनं वा तुला ।भिदादित्वात् साधुः ।माने उन्मान विशेषे यथा-बार्द्धप्यं भ्रूणहत्यां च तुलया सह तोलयेत् ।पलशते यथा-कालागुरुतुलाधूपधूमध्यामलजालके ।सादृश्ये यथा चिरोझितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ।राशौ यथा-जयति तुलामधिरूढो भास्वानपि जलदपटलानि ।भाण्डे जलोदञ्चनोपकरणे यथा-प्राप्यते स्वादुपोतस्थैस्तुलया तोलितं जलम् ॥ ४८० ॥
2.480 · p. 60
अनुष्टुप्two metres in one verse
गृहाणां दारुबन्धाय दारुस्थापनाय पीठ्या पट्टे यथा-बृहत्तुलैरप्यतुलवितानमालावनद्धैरपि चावि(२७४)अनेकार्थसंग्रहः सटीकःउत्सेधवद्वस्तुनि च, नलो राज्ञि कपी नडे ।पितृदेवे नलं तु स्यात्पने नली मनःशिला ॥ ४८२ ॥
2.482 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
तानः ।सदृशधटयोरपि मंखः ।सादृश्ये यथा- त्वमेव ते तुलानाथ त्वमेव च तव प्रभुः ।धटे दिव्यविशेषे यथा- इतीव भानु: स विवृद्धतापस्तुलां विशुद्धयर्थमुपारुरोह ।तूलं तु खे पिचौ ।ब्रह्मदारुणि ।तूलनिष्कर्षे ।तूल्यते तूलम् ।पिचौ पुंक्लीबः ।खं व्योम ।पिचौ यथा-तृणं लघु ततस्तूलं तस्मादपि हि पाचकः ।ब्रह्मदारु वृक्षविशेषः ।यन्निघण्टुः ।तूलं तूदं ब्रह्म दारु ब्रह्मण्यं ब्रह्मकाष्ठकम् ।अथ दलं शस्त्रीच्छदेऽर्द्धपर्णयोः ।उत्सेधवद्वस्तुनि च ।दलति दलम् ।शस्त्रीच्छदे शस्त्रीप्रत्याकारे यथा-दलविलगतशस्त्री सर्पिणी किं भयाय ।अर्द्धशब्देनात्र खण्डं समभागश्चोच्यते ।तत्र खण्डे यथा--किं ते नैव सह स्वयं न दलशो यातास्थ भो भोगिनः ।समभागे यथा--पदयुत (तः)पदवर्गदलम् ।पर्णे पत्रे पुंक्लीबः ।तत्र यथा-शाकं कथं ।चिदुचितैः पिचुमन्दपत्रैरास्यान्तरालगतमान (त्र)दलं म्रदीयः ॥ ४८१ ॥
2.481 · p. 60
अनुष्टुप्metre not read in every line
उत्सेधवत् सोच्छ्रायं वस्तु उत्सेधववस्तु ।तत्र यथा लेपेन कर्ण सदलं चकार ।सुगन्धिपत्रोपादानहेतो (त्वो) रपि मंखः ।सुगन्धि पत्रं सुरभिद्रव्यविशेषः ।तत्र यथा-गोरोचनादल शिलातललेपिताङ्गं नारीनरेन्द्रनरवश्यकरं वदन्ति ।उपादान हेतुरुपादानकारणम् ।प्रासादाद्यर्थं पाषाणादीत्यर्थः ।तत्र यथा लोकरूढयासैन्येऽपि दृश्यते ।गजाश्वप्रायामणाक्षिदलं नो रक्षणक्षमं स्मरावस्कन्दपातेभ्यस्तवाधरदलं विना ।नलो राज्ञि कपो नडे ।पितृदेवे ।नलति नलः ।नडे पुंक्लीबः ।राज्ञि यथा-नलस्येदं हृद्यं किमपि चरितं धीरललितम् ।कपी वानरद्वितीयः काण्डः(२७५)नालं काण्डे मृणाले च, नाली शाककलम्बके ।नीलो वर्णे मणौ शैले, निधिवानरभेदयोः ॥ ४८३ ॥
2.483 · p. 60
अनुष्टुप्metre not read in every line
विशेषे यथा-स्फारं नेत्रानलेन प्रसभनियमितोश्चापमीनध्वजेन ।नडोऽन्तः शुषिरस्तृणविशेषस्तत्र यथा-नीरन्ध्राः पुनरालिखन्तु जठरच्छेदानलगन्थयः ।पितृदेवः पितृरूपदेवता ।नलं तु स्यात्पछे ।यया-नलिनीक्षतसेतुबन्धनो जलसंघात इवासिविद्रुतः ।अत्र हि नलानि पद्मानि विद्यन्ते यस्यां सा नलिनी ।नली मनःशिला गौरादित्वाद् ङीः ।मनःशिला धातुभेदः ॥ ४८२ ॥
2.482 · p. 60
metre not recognised
नालं काण्डे मृणाले च ।नलति नालम् ।ज्वलादित्वाद् णः ।मृणाले त्रिलिङ्गः ।काण्डं दूर्वादीनां गण्डिका तत्र यथा-दूर्वा नलेन बालानाम् ।मृणाले यथा--यद्गात्राणि दरिद्रति प्रतिदिनं दूनाब्जिनी नालवत् ।प्राण्यङ्गे जलनिर्गमयोरपि ।तयोस्तु पुंसि ।प्राण्यङ्गे गले यथा-अलिकुलनीलं नालं यो धत्ते सोऽवताद्गणेशो वः ।जलनिर्गमे यथा-नालेन कूप इव पूरित एष सद्यः ।नाली शाककलम्बके ।शाककलम्बको लशुनम् ।नीलो वर्णे मणौ शैले निधिवानरभेदयोः ।नीलवर्णे नीलति नीलः ।वर्णे पुंक्लोबः ।तद्वति वाच्यलिङ्गः ।वर्णे यथा-द्रव्याश्र येष्वपि गुणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ।मणौ मणिविशेषे यथा-नीलकुट्टिमतले जलभ्रमादुत्थितान्त वसना वजन्त्यमी ।शैले यथा-विदेहक्षेत्रमुद्दिष्टं मध्ये निषध नीलयोः ।निधौ निधिभेदे यथा-मुकुन्दकुन्दनीलाच चर्चास्य निधयो नब ।वानरभेदे यथा-पाषाणादपि यत्तरन्ति तरसा तोये तदत्यद्भुतम् ।माहात्म्यं विधिना विनिर्मितमिदं नीलस्य(२७६)अनेकार्थसंग्रहः सटोकःनील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः ।पल्लिस्तु ग्रामके कुड्यां पालियुकाश्रिपङ्क्तिषु ॥ ४८४ ॥
2.484 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 4, syllable 3 यु (wrong syllable)
जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पित भाजने ।प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः ॥ ४८५ ॥
2.485 · p. 60
अनुष्टुप्
जानीमहे ॥ ४८३ ॥
2.483 · p. 60
नील्योषध्यां लाञ्छने च ।ओषध्यां नीला प्राण्योषध्योः । २ ।४ ॥ २७ ॥इति लाञ्छने "क्ताच्च नाम्नि वा" २ ।४ ॥ २८ ॥
2.864 · p. 60
metre not recognised
इति डीः ।औषध्यां यथा-शस्त्रीश्यामैरंशुभिराशुद्रतम म्भश्छायामच्छामृच्छति नीली सलिलस्य ।लाञ्छनं लक्ष्मविशेषः ।पलमुन्मानमांसयोः ।पलति पलम् ।पुंक्लीबः ।उन्माने यथा खण्डस्य षोडशपलानि शशिप्रभस्य ।मांसे यथा-पतिः पलभुजामाज्ञापयत्येष वाम् ।पल्लिस्तु ग्रामके कुड्याम् ।पल्लगतौ पदि पठि (उ० ६०७) इति हः स्त्रियां ह्रस्वः ।ग्रामो ग्राम कस्तत्र यथा-तत्पल्लीपतिपुत्रि कुञ्जर कुलम् ।कुड्यां (टयां) यथा-पल्ली पर्णमयीं प्रविश्य कृतिभिर्नीतं वयः कश्चन ।गृहगोधिकायामपि यथा-पल्लीरुतं ब्रह्मणि राज्यहेतुः ।पालि यूंकाश्रिपङ्क्तिषु ।जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने ।प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः ।पलति पालि: कृश कुटि-इति णिदिः ।द्वादशस्वर्थेषु स्त्रियाम् ।यूका क्षुद्रजन्तुः ।अश्रिः कोणो धारा वा ।तत्र कोणे यथा-पालीलीनतनोर्ज राधवलितं मूर्धानमालोक्य मे ।धारायां यथा-पालीषु मत्तयजदन्त विदारितासु ।पङ्क्तौ यथा-पालीवं चम्पकानां परिमल विचलत्पद्यदणिभाजाम् ॥ ४८४ ॥
2.484 · p. 60
अनुष्टुप्metre not read in every line
जातस्मश्रु स्त्रियाम् ।यथा पालिन पालयति जातु चिरात् स्वकान्तम् ।प्रान्ते यथा-पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीं कपालीम् ।सेतुद्वितोयः काण्ड:(२७७) पिलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे ।तालास्थिखण्डेऽथ पुल: पुलके विपुलेऽपि च ॥ ४८६ ॥
2.486 · p. 60
अनुष्टुप्metre not read in every line
फलं हेतुकृते जातीफले फलकसस्ययोः ।त्रिफलायां च ककोले शस्त्राग्रे व्युष्टिलाभयोः ॥ ४८७ ॥
2.487 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
प्रशंसायां यथा - समुल्लसदृष्टि सुधातरङ्गिणी प्रभाप्रवाहस्य बहिः प्रसर्पतः ।वद्धव रोद्ध किल पुष्पधन्वना कपोलपाली रुरुचे मृगीदृशः ।कल्पितभोजने यथा- पालीं प्राप्य कृतार्थतां वहसि चेदाबून किं दूयसे ।कर्णतालायां यथा-नेत्राणि चुम्बत विहस्य च कर्णपालीम् ।उत्सङ्गे यथा-अविरलविगलन्मदजल कपोलपालीनिलीनमधुपकुल: ।प्रस्थे पर्वतैकदेशे यथा-प्रालेय पालीषु हिमाचलस्य ।चिन्हे यथा-कपोतपालीषु निकेतनानाम् ।अत्र हि कपोताः पालिश्चिन्हं यासां ताः कपोतपाल्यः ॥ ४८५ ॥
2.485 · p. 60
metre not recognised
पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे ।तालास्थिखण्डे ।पोयते पीलुः ।पीङ: कित् (उ० ८२१) इति लुः ।षट्स्वर्थेषु पुंसि ।पुष्पे द्रुमे च यथा-दत्वा पीलुशमीकरीरकवलान् ।काण्डं शरः ।परमाणुः पुद्गलः ।'मतङ्गजे यथा-कुञ्जान्तः पतयालुपोलुकलभैराभाति विन्ध्यस्थली ।तालस्य तालफलस्य अस्थिमध्यभूतं बीजं तस्य खण्डं तालास्थिखण्डम् ।अथ पुलः पुलके विपुलेऽपि च ।पुलमहत्वे ।पोलति पुलः ।पुलके रोमाञ्चे यथा-विपुलपुलकरालं कायमालोक्य वाला ।विपुले विस्ती णे बाच्यलिङ्गः ।तत्र यथा--पुलपुलिननिलीनं क्रीडति क्रोडयूथम् ।फलं हेतुकृते जातीफले फलकसस्ययोः ।त्रिफलायां च ककोले शस्त्राने व्युष्टिलाभयोः ।फलति फलम् ।हेतुकृते पुंक्लीबः ।शेषेषु क्लीबे ।हेतुना कारणेन कृते जनिते यथा-क्लेशः फलेन(२७८)अनेकार्थसंग्रहः सटीक:------------..-...-............. .--.'.. -----फली फलिन्यां फालं तु वाससि फल उत्प्लुतौ ।कुशिके च बलं रूपे, स्थामनि स्थौल्यसैन्ययोः ॥ ४८८ ॥
2.488 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स (wrong syllable)
बोले बलस्तु बलिनि, काके दैत्ये हलायुधे ।बला त्वौषधिभेदे, स्यादलिदैत्योपहारयोः ॥ ४८९ ॥
2.489 · p. 60
अनुष्टुप्
हि पुनर्नवतां विधत्ते ।यत्पुष्पादिभ्य उत्पद्यते फलं तदपि हेतुकृतं यथा- न लोकं प्रीणाति स्वफलनिवहैः स्वादुमृदुभिः ।जातिफलककोले सुगन्धिद्रव्यविशेषौ ।फलके खेटके शस्त्राने च यथा-फलै निरुद्धानि फलान्यभूवन् ।सस्ये यथा-स क्षेत्रतो यत्र फलं गृहीत्वा निक्षिप्यते क्षोदयितुं खलेषु ।त्रिफला ओषधभेदः ।व्युष्टिनियमादिफलं तत्र यथा - फलोदयान्ताय तपःसमाधये ।लाभे यथा-लभ्यं किमेभ्यः फलम् ॥ ४८७ ॥
2.487 · p. 60
metre not recognised
फली फलिन्यां ।फलिनी प्रियङ्गः ।फालं तु वाससि ।फलत्यनेन फाल: ।फलति वा ज्वलादित्वाद् णः ।यथा-कौसुम्भफालं परिवीयबाला ।फले उत्प्लुतौ ।कुशिके च ।यथा-फालेन लङ्घयामास हनूमानेष सागरम् ।कुशिको लोहमयः ।तत्र यथा-हारान्तःस्थितपद्म रागमिषतः फालं दधौ शुद्धये ।बलं रूपे स्थामनि स्थौल्यसैन्ययोः ।बोले ।बलति बलम् ।स्थाम्नि पुंक्लीबः ।रूपे यथा-स्थाम्ना बलेन च समः पुरुषोत्तमस्य ।स्थामनि यथा-बलाबलेपाद धुनाऽपि पूर्ववत् ।स्थौल्ये यथा-मृदु मुदितमृगाली दुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ।सैन्ये यथा-षड्विधं बलमाधाय प्रतस्थे दिग्जिगीषया ॥ ४८८ ॥
2.488 · p. 60
metre not recognised
बोलो गन्धरसः ।बलस्तु बलिनि काके दैत्ये हलायुधे ।बलिनि वायलिङ्गः ।तत्र यथा - समय एव करोति बलाबलम् ।काके यथा - बलावलीभिर्मलिनी क्रियन्ते ।दैत्ये यथा-बलनिसूदनमर्थपतिद्वितीयः काण्डःकरे चामरदण्डे च, गृहदारूदरांशयोः ।त्वक्सकोचे गन्धके च, बालोऽश्वेभपुच्छयोः ॥ ४९० ॥
2.490 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (syllables merged)
च तम् ।हलायुधे यथा-बलोऽवलोकयामास मातङ्गमिव केशरी ।बला त्वौषधिभेदे स्यात् ।बला तैलेनाङ्गं मलिनयति बालोऽयम बलः ।बलिदैत्योपहारयोः ।करे चामरदण्डे च गृहदारूदरांशयोः ।त्वक् सङ्कोचे गन्धके च बलति बलते वा बलिः ।पदि पाठि (उ० ६०७) इति इः ।दैत्ये चामरदण्डे करे गन्धके च पुंसि ।उपहारे त्वक्संकोचे उदरावयवे च स्त्रीपुंसः गृहदारुणि स्त्रियाम् ।अत्र ओष्ठ्यादिकृतो दन्तोष्ठयादि कृतो वा विशेषो नाश्रियते बवयोरैक्यात् ।दैत्ये यथा-वदसि बलिवधूभिः स्मेरनेत्रोत्पलाभिः ।उपहारे पूजोपकरणे यथा-कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघ. नीयाम् ॥ ४८९ ॥
2.489 · p. 60
अनुष्टुप्metre not read in every line
करे राजग्राह्ये यथा-स ताभ्यो बलिमग्रहीत् ।चामरदण्डे यथा-रत्नच्छायाखचितवलिभिश्वामरैः क्लान्तहस्ताः ।गृहदारुणि यथा-यस्यामसेवन्त नमद्वलोकाः समं वधूभिर्वलभीर्युवानः अत्र हि न भात्यावल्यो गृहदारुविशेषा यस्यांन्ता नमवलीकाः ।उदरांशे यथा-मध्ये न सा वेदिविलग्नमध्यावलित्रयं चार बभार बाला ।त्वक्संकोचे यथा-वलिभिर्मुखमाक्रान्तं पलितैर ङ्कितं शिरः ।गन्धकः कुष्टारिः ।बालोऽज्ञेऽश्वेभपुच्छयोः ।शिशौ ह्रीवेरकचयोः ।वलति बाल: ज्यलादित्वाण्णः ।वल्यते वा घा ।अज्ञे शिशौ च बाच्यलिङ्गः ।हीवेरकचयोः पुंक्लीबः ।अज्ञे यथा-द्राघिम्लामुषिताः कियच्चिरमहो तालेन बाला वयम् ।शिशौ यथा-बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् ।अश्वपुच्छे इभपुच्छे च यथा--गजाश्वं राजते..(२८०) अनेकार्थसंग्रहः सटोकःशिशौ होवेरकचयोर्बाला तु त्रुटियोषितोः ।बाली भूषान्तरे मेधौ, बिल उच्चःश्रवोहये ॥ ४९१ ॥
2.491 · p. 60
अनुष्टुप्metre not read in every line
बिलं रन्ध्र गुहायां च, भल्लो भल्लूकबाणयोः ।भल्लो भल्लातके भालां, स्याल्ललाटे महस्यपि ॥ ४९२ ॥
2.492 · p. 60
अनुष्टुप्
भेलः प्लवे मुनिभेदे, भोरौ बुद्धिविजिते ।मल्ल: कपाले बलिनि, मत्स्ये पात्रे मलस्त्वघे ॥ ४९३ ॥
2.493 · p. 60
metre not recognised
वालैः ॥ ४९० ॥
2.490 · p. 60
ह्रीवेरे यथा-भृङ्गो हि चुम्बति न बालक जालकानि ।अत्र हि वाल एव बालकः ।कचे केशे यथा-तं केशपाशं प्रसमीक्ष्य कुर्युर्बालावाल)प्रियत्वं शिथिलं चमर्यः ।बाला तु त्रुटियोषितोः ।त्रुटि: काल विशेषः ।योषिति यथा--गाढोत्कंठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला जातां मन्ये तुहिनमथितां पद्मिनी वाऽन्यरूपाम् ।बाली भूषान्तरे मेधौ ।गौरादित्वाद् ङीः ।भूषान्तरं कर्णभूषणम् ।तत्र यथा-संस्थाप्यं ते श्रुतिषु सततं बालिकावा(का)लिकाभिः ।मेधो खलमध्यगते बन्धनकीले यथा चलयति खलवालीमौक्षकं क्षिप्यमाणम् ।बिल उच्चैःश्रवोहये विलति विल: उच्चैःश्रवोहय इन्द्राश्वः ॥ ४९१ ॥
2.491 · p. 60
metre not recognised
बिलं रन्ध्र गुहायां च ।रन्ध्र यथा-बिलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ।गुहायां यथा-यत्राश्वा बिलयोनयः ।भल्लो भल्लूक बाणयोः ।भल्लिपरिभाषणादौ अचि भल्लः ।भल्लूक ऋक्षः ।बाणे बाणविशेषे पुंस्त्रीलिङ्गः ।तत्र यथा-सीतायल्लकभल्ल शल्पिततनुः स्वस्थो न लङ्केश्वरः ।यथा वा-मल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ।भल्ली भल्लातके ।भल्लातको वृक्षभेदः ।भालं स्याल्ललाटे महस्यपि ।भल्यते भालम् ।भां दिप्तिं लाति वा ।ललाटे पुंक्लीबः ।तत्र यथा-बाले ललामलेखेयं भाले भल्लीव राजते ।महस्तेजः ॥ ४९२ ॥
2.492 · p. 60
metre not recognised
भेल: प्लवे मुनिभेदे भीरौद्वितीय: काण्ड:(२८१)किट्ट कदर्ये विष्टायां, मालं तु कपटे वने ।मालो जने स्यान्माला तु, पङ्क्तौ पुष्पादिदामनि ॥ ४९४ ॥
2.494 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ट्ट (wrong syllable)
बुद्धिविजिते ।बिभेत्यस्मात् बिभेति वा भेल: ।“भीवृधि" (उ० ३८७) इति रे ऋफिडादित्वात् लत्वे भेल: ।भीरौ बुद्धिविजिते च वाच्यलिङ्गः ।प्लवे उडुपे यथा-नीलस्य शैलेोऽपि बभूव भेल: ।मुनिभेदश्चिकित्साग्रन्थकारः ।भीरौ बुद्धि विवजिते च यथा-भवन्ति भेला: खलु वार्द्ध के नराः ।मल्ल : कपाले बलिनि मत्स्ये पात्रे ।मल्लते मल्लः ।बलिनि वाच्यलिङ्गः ।कपालं शिरोऽस्थि ।बलिनि यथा-दृष्टं चाणूरमल्लेन ।मत्स्यो मत्स्यविशेषः ।पात्रे भाजने यथा-मल्लेषु तलकल्लोलैर्दीपालोकः प्रगल्भते ।मलस्त्वघे ।किट्टे कदर्य विष्टायां ।मलते धारयति मलः ।मृज्यते वा "मृजिखन्याहनिभ्यो डित" (उ० ४७२) इत्यलः ।कंदर्ये वाच्यलिङ्गः ।अन्यत्र पुंक्लीबः ।अघं पापं, तत्र यथा-निर्मलं मम मनोऽद्य गाहते लाघवं ननु तव विलोकनात् ॥ ४९३ ॥
2.493 · p. 60
metre not recognisedimpossible sign sequence: नीलस्य शैलेोऽपि बभnearly अनुष्टुप्: pāda 2, syllable 6 यति (syllable split); pāda 3, syllable 6 जि (wrong syllable)
किट्ट वसादि ।यत्स्मृतिः वसा शुक्रमसमज्जामूत्रविट्कर्णविट्नखाः ।श्लेष्माश्रुषिका स्वेदो द्वादशैते नृणां मला:(मदाः) ।किट्ट कलङ्क इत्यन्ये ।कदर्ये कृपणे यथा-मलैन शक्यते दातुं रलेभ्योऽपि खलोऽपि हि ।विष्टायां यथा-अयज्ञियतृणच्छन्ना भूमिर्मलविसर्जने ।अशुद्धौ कालिम्नि च मखः ।अशुद्धौ मनोवाकायविषयायां यथा-त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगा अपि ।कालिम्नि यथा-क्षपातमस्काण्डमलीमसं नमः ।मालं तु कपटे वने ।मल्यते मालम् मीयते वा ।"शामाश्या" (उ० ४६२) इति ल: ।कपट छद्म ।वनं वन विशेषः ।क्षेत्रविशेषेऽपि यथा-सद्यः सीरोत्कर्षणसुरभिक्षेत्रमारुह्य(२८२)अनेकार्थसंग्रहः सटीकःमालुः स्त्रियां पत्रवल्ल्यां, मूलं पाश्र्वाद्ययोरुडौ ।निकुञ्जशिफयोर्मेला* त्वञ्जने मेलकेऽपि च ॥ ४९५ ॥
2.495 · p. 60
अनुष्टुप्metre not read in every line
मौलिः किरीटे धम्मिल्ले चूडाकडेल्लिमूर्द्धसु ।लीला केलिविलासश्च, शृङ्गारभावजा क्रिया ॥ ४९६ ॥
2.496 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
मालम् ।मालो जने स्याद् ।जनो जनविशेषः ।माला तु पङ्क्तौ पुष्पादिदामनि ।पङ्क्तौ यथा-वाले मालेयमुच्चैन भवति गमने व्यापिनी नीरदानाम् ।पुष्पादिदामनि यथा-भरेणु दिग्वान्नवपारिजातमालारजोवासितबाहुमध्याः ॥ ४९४ ॥
2.494 · p. 60
metre not recognised
मालुः स्त्रियां पत्रवल्ल्यां ।म्रियतेऽनया मालुः ।ऋ द श इति णिदि: लत्वं च रस्य ।स्त्रीलिङ्गः ।स्त्री स्त्रीविशेषः ।पत्रवल्ली मालु धानी ।मुलं पार्वाद्ययोरुडौ ।निकुञ्जशिफयोः ।मूलति मूलम् मूयते वा “शुकशीमूभ्यः कित्" (उ० ४६३) इति लः ।पञ्चस्वर्थेषु पंक्लीबः ।पार्श्वमन्तिकं तत्र यथा-तं कर्णमूलमागत्य रामे श्रीय॑स्यतामिति ।आये यथा-त्रैलोक्यभुवनारम्भमूलस्त म्भाय शम्भवे ।उडौ नक्षत्रविशेषे यथा-मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारणम् ।निकुञ्ज तरुगहने यथा-गोलाङ्गलैर्मूलमा कीर्णमेतत् ।शिफा जटा तत्र यथा-तरुमूलान्यनुनिहितं जलमा विर्भवति पल्लवाग्रेषु ।मेला त्वंजने मेलाकेऽपि च ।मेल्यतेऽनया मिलनं वा मेला ।"भीषि भूषि" ५ ।३ ॥ १०९ ॥इति बहुवच नाद ।अञ्जनं मषी तब यथा--यदि पत्रायते व्योममेलानं दायतेऽर्णवः ।ब्रह्मायते लिपिकरस्तथाप्यन्तः कुतो गिराम् ।अत्र मेला मषी तस्यानन्दाभाजनम् ।मेलक: सङ्गमस्तत्र यथा-मेला महेला कुरुते न हेलया ॥ ४९५ ॥
2.495 · p. 60
metre not recognised
मौलि: किरीटे धम्मिल्ले*शिफेयोः स्वीये शिलायां च वशीकृतौ ।प्रतिष्ठायामथो मेला.द्वितीयाकाण्डः(२८३)लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः ।घल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥ ४९७ ॥
2.497 · p. 60
अनुष्टुप्metre not read in every line
चूडाकङ्केल्लिमूर्द्धसु ।मूयते मौलिः ।“धूमूभ्योलिक लिणौ" ।(उ० ७०१) इति लिण् ।कल्लौ पुंसि ।शेषेषु स्त्रीपुंसिः ।किरीटे यथा-नुपमौलिमरीचिवर्णकैरथ यस्यांह्रियुगं विलुप्यते ।धम्मिल: संयताः के शाः ।तत्र यथा-ऋतुषु तेन विजितमौं लिना ।चूडा (चूला) शिखा तत्र यथा-जयन्ति बाणासुर मौलिलालिताः ।कङ्केल्लिरशोकः ।मूर्द्धनि यथा-आनन्दमन्थर पुरन्दरमुक्तमाल्यं मौलो हठेन निहितं महिषासुरस्य ।लीलाके लिविलासश्च शृङ्गारभावजाक्रिया ।लीयतेऽस्यां लीला ।"भिल्लाच्छभल्ल' (उ० ४६४) इति साधुः ।केलि: क्रीडा तत्र यथा-लीलाकमलपत्राणि गणयामास पार्वती ।विलासः स्थानादीना वैशिष्टयम् ।तत्र यथा-नव निधुवनलीलाः कौतुकेनाभिवीक्ष्य ।शृङ्गारभावजा शृङ्गारप्रसवा ।क्रिया परि स्पन्दः ।तत्र यथा- लीलावतीनां सहजा विकारात एव मूढस्य हदि स्फुरन्ति ।प्रियस्यानुकृतिर्लीलेति भरतः ॥ ४९६ ॥
2.496 · p. 60
metre not recognised
लोलश्चले सतृष्णे च ।लालति लोल: ।वाच्यलिङ्गः ।चले यथा-चारु लालवलयेन करेण ।सतृष्णे यथा-निशान्तनारी परिधानधूननस्फुटागसाब्यूरुषु लालचक्षुषः ।लोला तु रसनाश्रियोः ।द्वयोर्यथा-यत्सत्यं कृतिनामकृत्यकरणे लोलाऽपि दोलायते ।चल्ली स्यादजमोदायां लतायां कुसुमान्तरे ।वल्लते वल्लिः ।“पदि पठि” (उ० ६०७) इति ईः ।ङ्यां वल्ली ।अजमोदा औष धम् ।लतायां यथा-इयं मल्लीवल्लीपुलकमुकुलाङ्का भुजलता !mu-numan-Anow(२८४) अनेकार्थसंग्रहः सटोकःव्यालो दुष्टगजे सर्प शठे श्वापदसिंहयोः ।वेला बुधस्त्रियां काले, सीमनीश्वरभोजने ॥ ४९८ ॥
2.498 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: muLatin letters: numanLatin letters: Anow
अक्लिष्टमरणेऽम्भोधेस्तिोरनीरविकारयोः ।शालो हाले मत्स्यभेदे, शालौकस्तत्प्रदेशयोः ॥ ४९९ ॥
2.499 · p. 60
metre not recognisedimpossible sign sequence: ऽम्भोधेस्तिोरनीरविnearly अनुष्टुप्
कुसुमान्तरं कुसुमविशेषः ॥ ४९७ ॥
2.497 · p. 60
व्यालो दुष्टगजे सर्प शठे श्वापदसिंहयोः ।विविधम् आलम् अनर्थोऽस्माद्व्यालः ।विशेषेण आसमन्तात् अडति लाति वा ।पञ्चस्वर्थेषु दुष्टगजे यथा व्यालद्विपा यं त्रिभिरुन्मदिष्णवः ।कथञ्चिदारादपथेन निन्यिरे ।सर्प यथा-जयन्ति धवलव्यालाः शम्भोमॅटावलम्बिनः ।शठे वाच्यलिङ्गः ।तत्र यथा-व्यालौविप्लावितं जगत् ।श्वापदचित्र कादिः ।सिंहः शार्दूलः ।तयोर्यथा-यद्व्यालब्रणितसुहृत्प्रमोदग्धं सौजन्याद्विहितवतीगतव्यथं माम् ।वेला बुधस्त्रियां काले सीमनीश्वरभोजने ।अक्लिष्टमरणेऽम्भोधेस्तीरनीरविकारयोः ।कतिचिदिनानि पुरुषः कतिचित्स्त्रीति वा इला ।वेला बुधस्त्री यस्याः पुत्रः पुरुरवाः ।अन्यत्र वेलति वेला ।काले यथा सन्ध्यावन्दनवेलायां ग्लानोऽहमिति जल्पति ।सोमनि मर्यादायां यथा-यादवाम्भोनिधीन् ।रुन्द्धे वेलेव भवतः क्षमा ।ईश्वरभो जने यथा-वालाबित्ता इव क्ष्मापा वेलायामस्य भुञ्जते ॥ ४९८ ॥
2.498 · p. 60
अनुष्टुप्two metres in one verse
अक्लिष्टमरणं सुखमृत्युः ।अम्भोधेस्तीरे यथा-वेलाशैलाङ्क भाजो भुजगयुवतयस्त्वद्गुणानुद्गृणन्ति ।अम्भोधेर्नीरविका रोऽम्भसां वृद्धिस्तत्र यथा - अयो वेलाहेलातुलितकुलशैले जलनिधौ ।शालो हाले मत्स्यभेदे ।शालते शालः श्यति वा "शामाश्या" (उ० ४६२) इति लः ।हालः सातवाहननृपः तत्र यथा-जज्ञे शालमहीपाल: प्रतिष्ठानपुरे पुरा ।मत्स्यभेदोद्वितीयः काण्डः(२८५)स्कन्धशाखायां शालिस्तु गन्धोती कलमादिषु ।शालुः कषायद्रव्ये स्याच्चोरकाख्यौषधेऽपि च ॥ ५०० ॥
2.500 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
शिलमुञ्छः शिलाद्वाराऽधोदारु कुनटी दृषत् ।शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः ॥ ५०१ ॥
2.501 · p. 60
अनुष्टुप्
मत्स्यविशेषः ।शालोकस्तत्प्रदेशयोः ।स्कन्धशाखायाम् ।ओको गृहम् ।तत्र यथा-निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः ।तस्य ओकसः प्रदेश एकदेशः ।तत्र यथा-- गृहविशालेरपि भूरिशालैः ॥ ४९९ ॥
2.499 · p. 60
metre not recognised
स्कन्धशाखायां यथा-तमा लशालासु विधाय दोलाम् ।शालस्तु गन्धोती (प्र. गन्धौतौ) कलमादिषु ।शलति शालिः ।“कमि वमि" (उ० ६१८) इति णिदिः ।पुंसि ।गन्धोतुर्गन्धमार्जारः पुष्पलाख्यः ।कलमादिषु यथा-नमिता: फलभारेण नमिताः शालिमञ्जरीः ।शालुः कषाय द्रव्ये स्याचोरकाख्यौषधेऽपि च ।शृणाति रोगान् शालुः ।"ऋ त श” (उ० ७२७) इति णिदुर्लत्वं चरस्य ।पुंसि ।हिंस्रेऽपि ॥ ५०० ॥
2.500 · p. 60
अनुष्टुप्metre not read in every line
शिलमुञ्छः ।शिलत् उञ्छे ।“नाम्युपान्त्य" ५१११५४ ॥
2.897 · p. 60
metre not recognised
इति के शिलम् ।उञ्छ ।धान्यकणोच्चयः ।तत्र यथा शिलन् कि नास्ति सखे फलैर्वा वृतिर्यदुत्ताम्यसि सेवया त्वम् ।शिला द्वाराऽधोदारु कुनटी दृषत् ।द्वाराऽधोदारुणि यथा-पूजां विधायाथ शिलाप्रदेशे ।कुनटी मनःशिला ।दृषदि यथा शिलाशयान्तामनिकेतवासिनीम् ।बर्षोपलेऽपि मंख: ।व्यासजत्स शिलावृष्टिम् ।शिली गण्डूपदी ।गण्डूपदी जलजन्तुविशेषः ।यथा - शिलीकलकलैः कलां कलयते वलात्पल्वलम् ।शीलं साधुवृत्तस्वभावयोः ।शील समाधी शीलण उपधारणे वा ।शील्यते शीलम्, शेते वा “शुक् शी" (उ० ४६३) इति कित्(२८६)अनेकार्थसंग्रहः सटीक:.शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः ।योगे शूला तु पण्यत्री बधहेतुश्च कोलकः ॥ ५०२ ॥
2.502 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शु (wrong syllable)
शैला भूभृति शैलं तु शैलेये तायशैलके ।सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ ५०३ ॥
2.503 · p. 60
अनुष्टुप्
लः ।साधुवृत्ते यथा-तथा हि ते शैलमुदारदर्शने तपस्विनाम प्युपदेश्यतां गतम् ।स्वभावे यथा-वामशीलाहि जन्तवः ॥ ५०१ ॥
2.501 · p. 60
metre not recognised
शुक्लं रूप्ये ।शुक् गतौ शोकति शुक्लम् ।" शुकशीमूभ्यः कित्” (उ० ४६३) इति लः ।रूष्यं रजतम् ।तत्र यथा-- काञ्चनाम्भोज किजलकैः शुक्लभित्तिविराजते ।शुक्लो योगे श्वेते ।श्वेते गुणे पुंसि ।तद्वति वाच्यलिङ्गः ।योगे यथा सिद्धः साध्यः शुभः शुक्लः ।श्वेते यथा-शुक्लां शुकोपरचितानि निरन्तराभिः ।शूलं रुगत्रयोः ।योगे ।शूलरुजायाम अचि शूलं पुंक्लीबः ।रुचि रोगे अस्त्रे च यथा-शूलीजातः कदशनवशा: क्षयोगात् कपाली वस्त्राभावाद्विगतवसनः स्नानदौस्थ्याज्जटावान् ।योगे यया-वृतिः शूल तथैव च ।शूला तु पण्यत्री वधहेतुश्च कीलकः ।पण्यस्त्रियां यथा-वित्तं हि मूलतो याति शुलायां लालचेतसः ।वधहेतौ कीलके यथा-शूलाप्रोतो मलिम्लुचः ।मखस्तु अस्त्रीशूलं रुगायुधम् ।तच्छिखावधकं काष्ठमिति किल. केऽपि पुंक्लीबमाह ।यथा-उपेक्ष्यते साधुजनेन वैदिकीश्मशान शूलस्य न यूपसक्रिया ॥ ५०२ ॥
2.502 · p. 60
metre not recognised
शैला भूभृति ।शिलानामयं शैलः ।यथा--यं सर्वशैला: परिकल्प्य वत्सम् ।शैलं तु शैलेये तार्यशैलके ।शैलेयं शिलाजतु ।तायशैलकं दारुहरिद्राल्वाथोत्थं तुच्छ रसाञ्जनम् ।गण्डेऽपि तत्र तु पुंक्लीबः ।सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ।सल गतौ सल्यते साल: सर्जतरौद्वितीयः काण्ड: (२८७) स्थालं भाजनभेदे स्यात्स्थालो तु पाटलोखयोः ।स्थूलः पीने जडे हालः सातवाहनपार्थिवे ॥ ५०४ ॥
2.504 · p. 60
अनुष्टुप्metre not read in every line
हाला सुरायां हेला तु स्यादवज्ञाविलासयोः ।हेलिरालिङ्गने सूर्येऽप्यविमूषिककम्बले ॥ ५०५ ॥
2.505 · p. 60
अनुष्टुप्
पुंक्लीबः ।तत्र वृक्षमात्रे च यथा-सालप्रांशुमहाभुजः ।प्राकारे यथा-- यत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।सर्जतरी तालव्यादिरपि ॥ ५०३ ॥
2.503 · p. 60
metre not recognised
स्थालं भाजनभेदे स्यात् ।स्थल स्थाने ।स्थलति स्थालम् ।“वा ज्वलादि" ५ ।१ ॥ ६२ ॥
2.905 · p. 60
metre not recognised
इति णः ।तिष्ठतेर्वा "स्थो वा” इति अल: ।स्त्रीक्लीबः भाजनभेदे भोज नपात्रविशेषे यथा-आहाराय प्रेतराजस्य रोप्यस्थालानीव स्थापितानि स्म भान्ति ।स्थाली तु पाटलोखयोः ।पाटला पुष्पतरुः ।उखा पाकभाण्डम् ।तत्र यथा-स्थाली विपक्वैस्ते वह्नौ निवारैर्जुहुवुर्वृतः ।स्थूलः पीने जडे ।स्थूलणि परिवहणे स्थूलयते स्थूलः ।वाच्यलिङ्गः ।द्वयोर्यथा-बहुस्पृशापि स्थलेन स्थीयते बहिरश्मवत् ।हाल: सातवाहनपार्थिवे ।हलति हालः ।ज्वलादित्वाण्णः ।यथा-दिवंगते हालवसुन्धरापतौ ।हाला सुरायां ।यथा-हित्वा हालामभिमतरसां रेवती लोचनाकाम ।हेला तु स्यादवज्ञाविलासयोः ।हेड्ड् अनादरे ।हेडनं हेला ।हिलत् हाकरणे इत्यस्य हेलयतीति वा ! अवज्ञायां यथा-हेलोल्लङ्गित वाहिनीपतिरिति श्लाघाचलत्कन्धरः ।विलासे यथा-अकृत्वा हेलया पादमुच मूर्द्धसु विद्विषाम् ।हेलिरालिङ्गने सूर्येऽपि ।हेलयति हेलि: "स्वरेभ्य इ:' (उ० ६०६) पुंसि ।द्वयोर्यथा हेलि परमहेलानां यः करोति नराधमः ।हेलिनेव तमःस्तोमः स पापेन विहन्यते ।अथ वान्ताः ।अविर्मूषिककम्बले मेषे रवौ(२८८) अनेकार्थसंग्रह सटीकःमेषे रवौ पर्वते च स्यादूर्ध्वं तु समुच्छिते ।उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे ॥ ५०६ ॥
2.506 · p. 60
अनुष्टुप्metre not read in every line
क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि ।विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥ ५०७ ॥
2.507 · p. 60
अनुष्टुप्
पर्वते च स्यात् ।अवति अविः ।“पदि पठि" (उ० ६०७) इति इ: ।पुंसि ।मूषिककम्बलो मूषिकरामनिष्पन्नः प्रावरणविशेषः ॥ ५०५ ॥
2.505 · p. 60
metre not recognised
मेषे यथा-अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुधन्यस्तावत् प्रतिवसति यो जीवति सुखम् ।रवौ पर्वते च यथा - अविखत्युदयाविविभावितप्रचररोचिरुपाचरितस्तुतिः ।वैजयन्ती तु अविर्भूपुष्पवत्याः स्त्री वायुप्राकारभाः सुनेति पञ्च स्वर्थान्तरेष्वाह ।उद्धर्व समुच्छिते ।उपर्युन्नतयोः ।ऊर्द्धते ऊद्धवम् ।"उर्ध च" (उ० ५०७) इति वः ।वाच्यलिङ्गः ।समुच्छिीते यथा-प्रलम्बितभुजद्वन्द्वमुद्धर्वस्थस्यासितस्य वा ।उपर्यर्थे यथा ऊर्व गतं यस्य न चानुबन्धाद्यशःपरिच्छेत्तुमियत्तयालम् ।उन्नते यथा-ऊर्ध्वबाहुर्विरोम्येष न च कश्चिच्छृणोति मे ।कण्वो मुनौ ।कणति कण्वः ।"लटि खटि" (उ० ५०५) इति वः ।यथा-शृण्वन्ति कण्वस्य वांसि धन्याः ।कण्वं तु कल्मषे यथा क्षिण्वन्ति कण्वं गुरुपादरेणवः ॥ ५०६ ॥
2.506 · p. 60
metre not recognisedimpossible sign sequence: समुच्छिीते यथा
क्षवः क्षुते राजिकायाम ।क्षवणम् क्षौ(क्षो)त्यनेन वा क्षवः ।क्षुते नासिकाशब्दे काशे वा यथा-क्षवरव इव कर्णकटुह दयोद्वेगं करोति यत्र सताम् ।राजिका राजसर्षपः ।कविः काव्यस्य कर्तरि ।विच क्षणे दैत्यगुरौ स्यात् ।कवति(ते) कविः ।“स्वरेभ्य इ " (उ० ६०६) काव्यकर्तरि विचक्षणे च वाच्यलिङ्गः ।तयोर्यथा जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् ।दैत्यगुरौद्वितीयः काण्डः (२८९) vratrnarrrruvamma…rrrrraकिण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः ।खर्वहस्वौ न्यग्वामनौ ग्रोवे शिरोधितत्सिरे ॥ ५०८ ॥
2.508 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: vratrnarrrruvammaLatin letters: rrrrra
छविस्तु रुचि शोभायां जवः स्याद वेगवेगिनोः ।जवौडपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः ॥ ५०९ ॥
2.509 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यथा-रुद्रो नग्नः कविः काण: शनिः पङ्गः शशी क्षयी ।कवी तु खलीनके "इतोऽक्त्यर्थात् २ ।४ ॥ ३२ ॥इति डीः ।यथा-कवी नवीनैस्तुरगैः सूदुःसहा ॥ ५०७ ॥
2.507 · p. 60
metre not recognised
किण्वं पापे सुराबीजे ।किण: सौत्रः ।किण्यते किण्वम् ।"निघषि" (उ० ५११) इति कित् वः ।सुराया बीजम् माषदलन्यादि ।द्वयोर्यथा-क्रिणन्ति किण्वं द्रविणैर्नराधमाः ।क्लीबोऽसौरुषषण्ढयोः ।क्लीवते क्लीबः ।अपौरुषे वाच्यलिङ्गः ।षण्ढे पुंक्लीबः ।अपौरुषो यः पौरुषवर्जितः ।तत्र यथा-क्लीबे धैर्यं मद्यपे तत्वचिन्ता ।षण्ढे नपुंसके यथा गते मृते प्रव्रजिते क्लीबे च पतिते पतौ ।दैत्ययुक्तेऽपि मंखः ।विपद्यपि न यः क्लव्यमाश्रयेत् सततं नरः ।खर्वहस्वौ न्यग्वामनौ ।खर्वति खर्वः ।हसति हस्वः ।"लटि खटि" (उ० ५०५) इति वः ।वाच्यलिङ्गौ ।अनेकार्थ प्रस्तावाद्द्वावपि द्वयौँ ।द्वयोर्यथा अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिभिः ।न दीर्घोऽष्टा न हस्वोऽष्टा नौष्ठस्थूला इहि स्त्रियः ।ग्रीवे शिरोधितत्सिरे ।गिरति ग्रीवा ।'प्रहाह्व" (उ० ५१४) इति साधुः ।शिरोधि: कन्धरा तस्याः सिरा धमनी तत्सिरा ! शिरोधौ यथा-परिशिथिलितकर्णग्रीव मालिङ्गिताक्षः(मामीलिताक्षः) ।तत्सिरायां यथा-खड्गाघात त्रुटद्ग्रीवैर्वीरकुञ्जरैः ॥ ५०८ ॥
2.508 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 3, syllable 2 त्र (wrong syllable)
छविस्तु रुचि शोभायाम् ।छ्यति छविः ।“छवि छिवि" (उ० ७०६) इति साधुः ।स्त्रियाम् ।रुचि दीप्तौ यथा-सरसबिसिनीकन्दच्छेदच्छविमृगलाञ्छनः ।(२९०) अनेकार्थसंग्रह सटीकःजीवः स्यात्रिदशाचार्य द्रुमभेदे शरीरिणि ।जीवितेऽपि च जीवा तु वचायां धनुषो गुणे ॥ ५१० ॥
2.510 · p. 60
अनुष्टुप्metre not read in every line
शिजिते क्षितिजीवन्त्योर्व तौ तत्वं परात्मनि ।वाद्य भेदे स्वरूपे च द्रवो विद्र वनर्मणोः ॥ ५१११ ॥
2.5111 · p. 60
अनुष्टुप्
शोभाया यथा-यद्दंष्ट्रा चन्द्रखण्डे भूलाञ्छनच्छविर्वरा ।जवः स्याद्वेगवेगिनोः ।जंबनं जवति वा जवः ।वेगे यथा एकः पलायत जवेन कृतार्तनादः ।वेगिनि वाच्यलिङ्ग ।तत्र यथा-विजिग्ये राजकं राजा जवैर्यवनवाजिभिः ।जवौडपुप्पे ।जपति जपा ।"जपादीनां पो वः' २१३ ॥ १०५ ॥
2.916 · p. 60
metre not recognised
इति वत्वे जपा ।यथा-गतवत्यराजत जवा कुसुमस्तव कद्युतौ दिनकरेऽवनतिः ।जिह्वा तु वाचि ज्वालारसज्ञयोः ।लेडि अनया जिह्वा "'लहेजिह च” (उ० ५१३) इति वः ।वाचि रसज्ञायां च यथा परस्य मर्मा विधमुष्णतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।अत्र फणिपक्षे द्विजिह्वे रसज्ञे खलपक्षे द्विजिह्वे वाचौ यस्य स द्विजिह्वः ।ज्वाला हिरण्यादिका तत्र यथा-भवति हिरण्या कनका रक्ता कृष्णा च(व)सुप्रभा चान्या ।अतिरक्ता बहुरूपेति ।सप्त सप्तार्चिषो जिह्वा: ॥ ५०९ ॥
2.509 · p. 60
वंशस्थम्metre not read in every line
जीवः स्यात्रिदशाचार्य द्रुमभेदे शरीरिणि ।जीवितेपि च ।जीवति जोवनं वा जीवः ।त्रिदशाचार्ये गुरौ यथा-द्विपञ्चसप्तनवगो जीव: सर्वशुभावहः ।द्रुमभेदा वृक्ष विशेषः ।शरीरिणि देहिनि यथा--जीवति स जीवलेोके यस्य गृहाद्यान्ति नार्थिनेा विमुखाः ।जीविते त्रिलिङ्गः ।तत्र यथा वक्रे केवलमर्गलेव निहिता जोवस्य निर्गच्छतः ।जीवा तु वचाया धनुषो गुणे ।शिजिते क्षितिजीवन्त्योवृत्तौ ।जोवत्यनया जीवा ।भिदादित्वादड् ।बचा उपगन्धा ।धनुषो गुणे यथा--जीवाकृष्टि स चक्रे मृधभुवि धनुष: शत्रुरासीद्गतासुः ॥ ५१० ॥
2.510 · p. 60
अनुष्टुप्metre not read in every lineimpossible sign sequence: वति स जीवलेोके यस्impossible sign sequence: ति नार्थिनेा विमुख
शिञ्जितं नूपुरशब्दः ।क्षितिः पृथिवी ।जीवन्ती मधुम्रवा ।वृत्ति विका ।द्वितोयः काण्डः(२९१)----/*---vvvप्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्व माहवे ।रहस्ये मिथुने युग्मे दवदावी बनानले ॥ ५१२ ॥
2.512 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: vLatin letters: vLatin letters: v
तत्त्वं परात्मनि ।वाद्यभेदे स्वरूपे च ।तस्य भावस्तत्वं तन्यते वा ।"प्रह्वाह्वा" (उ० ५१४) इति साधुः ।परात्मनि यथा ज्ञाततत्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् ।व द्यभेदे यथा विलम्बितं द्रुतं मध्यमोघस्तत्वं घनं क्रमात् ।स्वरूपे यथा सरस्वत्यास्तत्वं कविसहृदयाख्यं विजयते ।द्रवो विद्रवनर्मणोः ।प्रद्रावे रसगत्योश्च ।द्रवत्यमेन द्रवणं वा द्रवः ।पञ्चस्वर्थेषु ।विद्रवे पलायने यथा-द्रवं द्रविडराजेोऽपि शिश्रिये त्वद्भयाद्द्रुतम् ।निर्मणि क्रीडायां प्रद्रावे प्रस्रवणे च यथा-जात्येन चन्द्रमणिने व महोधरस्य संचार्यते द्रवमयो मनसो विकारः ॥ ५११ ॥
2.511 · p. 60
अनुष्टुप्metre not read in every lineimpossible sign sequence: द्रविडराजेोऽपि शि
रसे यथा-अमृतद्रवैर्विदधदब्जशामेव मार्गमौषधिपतिः स्वकरैः ।गतिर्गमनमात्रम् ।द्वन्द्वः से ।वन्द्यते द्वन्द्वः ।“प्रह्वाह" (उ० ५१४) इति साधुः ।स इति समासस्य संज्ञा ।तत्र यथा-- द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः ।द्वन्द्वमाहवे ।रहस्ये मिथुने युग्मे ।द्वौ द्वाविति द्वन्द्वम् ।"रहस्य मर्यादोक्ति' ७ ॥ ४१८३ ॥इति साधुः ।वन्द्यते इति वा ।आहवे सङ्ग्रामे यथा-देवासुरद्वन्द्वविधायिनो मुनेः ।रहस्ये यथा-द्वन्द्व न रात्री नृप मन्त्रणीयम् ।मिथुनं स्वीपुंसयोर्युग्मम् ।तत्र यथा-द्वन्द्वानि भावं क्रियया विवक्रः ।युग्मे युगलमात्रे यथा-हरचरणसरोजद्वन्द्वमुद्राङ्क मौलेः ।गौडस्तु रहस्ये कलहे द्वन्द्वः क्लीबे मिथुनयुग्मयोरित्याह ।दवदावी बनानले दवानले, वने ।दुनोति दवः ।दावः ।ज्वला दित्वाण्णः ।बनानले य-तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ।दावो नदीतीरसमुच्छितोऽयं तोयं पिपासन्नवरोहतीव ।AVHAV---, ....r(२९२) अनेकार्थसंग्रहः सटोकःवने दर्वी फणातोर्वी स्यादेवदारुणि ।हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने ॥ १३ ॥
2.13 · p. 60
metre not recognisedLatin letters: AVHAVLatin letters: r
देवं हषीके देवस्तु नृपतौ तोयदे सुरे ।देवी कताभिषेकायां तेजनीस्पक्कयोरपि ॥ ५१४ ॥
2.514 · p. 60
अनुष्टुप्
वने यथा-वाधेतोल्काक्षयितचमरीवाल मारो दवाग्निः ।अधिज्य धन्वा विचचार दावम् ।दर्वी फणान्तवोंः ।दृणाति दर्विः ।"हप वृभ्यो विः” (उ० ७०४) यां दर्वी ।फणायां यथा पृथुविभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।त - (९)रुहस्तः ।तत्र यथा-नानाप्रकाररसमध्यगताऽपि दर्वी स्वाद रसस्य सुचिरादपि नैव वेत्ति ।दावी स्याद्देवदारुणि ।हरि द्राद्वितये चापि ।दृणाति दार्वी ।“कृवापाजि" (उ० १) इति उण् ।गौरादित्वाद्डोः ।देवदारुव क्षभेदः ।हरिद्राद्वितयं हरिद्रा दारुहरिद्रा च ।दिवं खे त्रिदिवे दिने ।दोव्यन्ति अत्र दिवम् ।स्थादित्वात् कः ।खे आकाशे त्रिदिवे स्वर्गे च यथा-न केवलं सद्मनि मागधीपतेः पथि व्यजंभन्त दिवौकसामपि ।दिने दिवसे यथा-दिवेश्वरं स त्रिदिवेशवन्द्यम् ।प्रायेण वृत्तिविष येऽस्य प्रयोगः ॥ ५१३ ॥
2.513 · p. 60
metre not recognisedimpossible sign sequence: ी फणान्तवोंः ।
देवं हृषीके ।दोव्यति देवम् ।लिहादित्वादच् ।हृषीकमिन्द्रियम् ।देवस्तु नृपतौ तोयदे सुरे ।नृपतौ यथा-देव त्वद्गुणकीर्तनेन सुखयत्याखण्डलं नारदः ।तोयदे यथा-देवे वर्षति कर्षकैविकसितं धाराकदम्बैरिव ।सुरे यथा-देवासुरैरमृतमम्बुनिधिर्ममन्थे ।देवी कृताभिषेकायां तेज नीस्पृकयोरपि ।गौरादित्वाद्डीः ।कृताभिषेकायां यथा-देवी भावं गमिता परिवारपदं कथं भजत्येषा ।तेजनी मूर्वानामद्वितीय: काण्ड:धवो धूर्ते नरे पत्यौ द्रुभेदेऽथ ध्र वो वटे ।वसुयोगभिदोरातौ* शङ्कावुत्तानपादजे ॥ ५१५ ॥
2.515 · p. 60
अनुष्टुप्metre not read in every line
स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः ।ध्र वा मूर्वाशालपर्योः स्त्रग्भेदे गोतिभिद्यपि ॥ ५१६ ॥
2.516 · p. 60
अनुष्टुप्
लता ।स्पृक्का गन्धद्रव्यविशेषः ॥ ५१४ ॥
2.514 · p. 60
metre not recognised
धवो धूर्ते नरे पत्यौ द्रुभेदे ।धुनोति धवः ।धूर्तो वञ्चकः ।नरो मनुष्यः ।पत्यौ भर्तरि यथा- भर्तुमित्रं प्रियमविधवे विद्धि मामम्बुवाहम् ।द्रभेदे वृक्षविशेष यथा-धवलकुचसमेत यौवनं वा वनं वा ।अथ ध्रुवो वटे ।वसु योगभिदोरातौ ।शङ्कावुत्तानपादजे स्थिरे नित्ये निश्चिते च ।ध्रुवति ध्रुवः ।'तुदादिविषि' (उ०५) इति किदः ।स्थिरनित्ययोर्वाच्यलिङ्गः ।निश्चिते पुंसि ।क्लीबे इत्यन्ये ।वटो न्यग्रोधः ।वसुभित् देवविशेषः ।योगभिदि यथा-गण्डो वृद्धि ध्रुवश्चैव ! आतिः ।शरारिः ।शङ्कौ स्थाणौ यथा-द्वादशाङ्गल माने तु पाशं निक्षिप्य वै ध्रुवे ।उत्तानपादजो मुनि विशेषः ।तत्र यथा-स्फुटतरभुपरिष्टादल्पमूर्तेधू वस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् ॥ ५१५ ॥
2.515 · p. 60
metre not recognised
स्थिरे निश्चले यथा-कदाभ वन्महा काव्यं व्योमेवेक्षे ध्रुवस्थिति ।नित्ये शाश्वते यथा-ध्रुवं कश्चित्सर्व सकलमपरस्त्वध्रुवमिदम् ।निश्चिते यथा-जातस्य हि ध्रुवो मृत्युर्घवं जन्म मृतस्य च ।ध्रुवं खेऽजस्रतर्कयोः ।खे आकाशे यथा-ध्रुवं ध्रुवन्ति ग्रहमण्डलास्पदम् ।अजस्रं यथा-ध्रुवं दत्त वित्तं द्विजपरिवृढेभ्यः क्षितिधवः ।तर्क वितर्के यथा-ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लध्य गन्तुं तुरगास्तदीषुः ।ध्रुवा मूर्वाशालपर्योः स्रग्भेदे गीतिभिद्यपि ।मूर्वा ओषधिः ।शालपर्णी*भिदोः शम्भौ शङ्कावुत्तानपादजे ।(२९४)अनेकार्थसंग्रहः सटोकःनवो नव्ये स्तुतौ नोवी स्त्रीकटोवस्त्रबन्धने ।मूलद्रव्ये परिपणे प्लव: प्लक्षे प्लुतो कपौ ॥ ५१७ ॥
2.517 · p. 60
अनुष्टुप्metre not read in every line
शब्दे कारण्डवे म्लेच्छजाती भेलकभेकयोः ।मनिम्नमहोभागे कुलके जलवायसे ॥ ५१८ ॥
2.518 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लताभेदः ।स्रजोभेदः स्रग्भेदः ।यदाहुः-ध्रुवा तु सर्वसज्ञार्थ यस्यामाज्यं निधीयते ।गीतिभेदे यथा-ध्रुवा हि नाम नाद्यस्य प्रथम प्राणाः ॥ ५१६ ॥
2.516 · p. 60
metre not recognised
नवो नव्ये स्तुती ।नूयते नवनं वा नवः ।नव्ये वाच्यलिङ्गस्तत्र यथा- नवानधोऽधोबृहतः पयोध रान् ।स्तुतिः स्तवनम् ।नीवी स्त्रीकटीवस्त्रबन्धने ।मूलद्रव्ये परिपणे ।नीयते नीविः ।क ह स इति डित् विः ।इयां नीवी ।स्त्रियाः कटीवस्त्रस्य परिधानस्य बन्धन बन्धनग्रन्थिः ।यत्कात्यः नोविराग्रन्थनं नार्या जघनस्थस्य वाससः ।तत्र यथा-नीवीब न्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानाम् ।मूलद्रव्यं वणिजादीनां मूलधनम् ।तत्र यथा- मानात्स्नेहो न होनश्रेत्सखि सन्तोष एव सः ।नीवी न नीता निधनममार्गोल्लाभ एव सः ।परिपण: आडम्बरः ।कारायामपि मंखः ।यथा-बहुगुणशतपरिचयनीमोह करी लोष्ट शृङ्खलाकलिता ।कामोऽस्यां प्रतिबद्धो नीवीह्येषा किमा श्चर्यम् ।प्लवः प्लक्षे प्लुतौ कपौ ।शब्दे कारण्डवे म्लेच्छजातौ भेल कभेकयोः ।क्रमनिम्नमहीभागे कुलके जलवायसे ।जलान्तरे ।प्लवते प्लवनं वा प्लवः ।द्वादस्वर्थेषु पुंसि ।प्लक्षो वृक्षभेदः ।प्लुतौ गतिविशेषे कपौ च यथा – प्लवाः प्लवैविक्लवयन्ति शाखाम् ॥ ५१७ ॥
2.517 · p. 60
अनुष्टुप्metre not read in every line
शब्दे म्लेच्छजातौ च यथा-रटन्ति राटी कटुभिः प्लवैः प्लवाः ।भेलके उडुपे यथा-यत्र स्त्री यत्र कितवो यत्र बालो तु शासिता ।नद्यामश्मप्लवेनेव सहतेनैव मज्जति ।द्वितीयः काण्डः (२९५) जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि ।पक्वं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५१९ ॥
2.519 · p. 60
अनुष्टुप्metre not read in every line
कक्षाधोऽवयवे वक्रोपायपर्शसमूहयोः ।प्राध्वं दूरपथे प्रह, बन्धे पूर्व तु पूर्वजे ॥ ५२० ॥
2.520 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)
कारण्डवः पक्षिभेदस्तत्र भेके जलवायसे च यथा-प्लवमानप्लव व्याप्ता कुल्या यत्र सुशीतला ।क्रमनिम्नमहीभागे यथा प्रागुत्तरप्लवे देशे लोमशे फलवजिते ।अग्निचित्यां प्रकुर्वाण: प्राग्वंशं तत्र कल्पयेत् ।कुलकः कुलप्रधानः ॥ ५१८ ॥
2.518 · p. 60
अनुष्टुप्metre not read in every line
जला न्तरम् ।विशिष्टं पूरयुक्तं जलमम्बुधिरित्यर्थः ।यदाह अम्बुवृद्धौ पूरःप्लवोऽपि च ।तत्र यथा-सानन्दबाष्पप्लवाः ।प्लवं गन्धतृणे मुस्तकभिद्यपि ।गन्धतृणं गन्धप्रधानं तृणम् ।मुस्तकभित् कैवर्तीमुस्तकः ।पक्वं परिणते नाशाभिमुखे ।पच्यते स्म पक्वम् ।"क्ष शुषि' ४ ।२ ॥ ७८ ॥इति कस्य वा देशः ।वाच्य लिङ्गः ।परिणते यथा-तन्वी श्यामा शिखरदशना पक्वनिम्बा धरोष्ठो ।नाशाभिमुखे पातोन्सुखे यथा-पक्वस्य बुद्धि किल पातहेतुं स जन्ति देवा अपि कि विचित्रम् ।पार्श्वमन्तिके ।कक्षाधोऽवयवे वक्रोपायपशुसमूहयोः ।स्पृशति स्पृश्यते वा पार्श्वम् ।स्पृशेश्वः परे च इति श्वः ।पर्शनां समूहो वा ।"पड्विण्' ६ ।२ ।२० ।कक्षाधोऽवयवे पुंक्लीबः ।अन्तिके यथा विसृष्टपाश्र्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ॥ ५१९ ॥
2.519 · p. 60
metre not recognised
कक्षाधोऽवयवे यथा-पार्वाभ्यां स प्रहाराभ्यां स व्रणेनाधरेण च ।दूति सङ्ग्रामयौग्यासि न योग्या दूतकर्मणि ।वक्रोऽनुजुरुपायो लंचादिः ।तत्र यथा-पाइँन अन्वेष्टा पावः ।पशुसमूहे यथा-सभग्नपार्यो निशितासिधातः ।प्राध्वं दूरपथेअनेकार्थसंग्रहः सटीकःप्रागने श्रुतिभेदे च भवः सत्ताप्तिजन्मसु ।रुद्रे श्रेयसि संसारे, भावोऽभिप्रायवस्तुनोः ॥ ५२१ ॥
2.521 · p. 60
अनुष्टुप्metre not read in every line
प्रह्वे बन्धे ।प्रगतमध्वानम् प्राध्वम् ।“उपसर्गादध्वनः" ७ ।३ ॥ ७९ ॥इति अत् समासान्तः ।दूरपथे यथा-प्राध्वं गता अपि मधौ पथिकाः समीयुः ।प्रह्वे प्रवहणे वाच्यलिङ्गः ।तत्र यथा - त्वबोधप्राध्वबुद्धस्त्वदृष्टिनिश्चेष्टचक्षुषः ।त्वत्कथोत्सु ककर्णस्य कदा कालो ममैष्यति ।बन्धे यथा-प्राध्वं कृत्वा तुरगयुगलस्यैष सूतः प्रयाति ।बन्धे प्राध्वमिति मान्तमव्यय मपि ।यथा-प्राध्वंकृत्य रथेष्वश्वान् ।पूर्व तु पूर्वजे ।प्रागने श्रुतिभेदे च ।पूर्वति पूर्व पृणाति वा ।"नि घषि" (उ० ५११) इति कित् वः ।प्राक्पूर्वजयोर्वाच्यलिङ्गः ।पूर्वजे आदिपुरुषे यथा-पूर्वैः किलायं परिवर्द्धितो नः ॥ ५२० ॥
2.520 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 र्वति (syllable split)
प्रागिति दिग्देशः कालो वा ।तत्र दिशि यथा-वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ।देशे यथा-पूर्वापरौ तोयनिधीव गाह्यः ।काले यथा-यदा फलं पूर्वतपः समाधिना न तावता लभ्यममस्त मानिनी ।अग्ने प्रथमतोऽर्थे पुंक्लीबः ।तत्र यथा-पूर्व त्वद्गुण बद्धमेव हृदयं बन्धं पुनर्हिति ।श्रुतिभेदे आगमविशेषे यथा सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति या: काश्चन सूक्तसंपदः ।तवैव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिनवाक्यविषः ।भवः सत्ताप्तिजन्मसु ।रुद्रे श्रेयसि संसारे ।भवनं भवति भवत्य स्मिन् वा भवः ।औणादिको अप्रत्ययः ।सत्तायामाप्तौ च यथा विभवभवभवेनाहं यवस्ते युवानः ।जन्मनि यथा-भवो हि लोकाऽभ्युदयाय तादृशाम् ।रुद्रे यथा-तावत्स वह्नभवनेत्रजन्मा ।श्रेयसि यथा-भवतु भवाय भवानी ।संसारे यथा-भवच्छिदद्वितीय: काण्डः(२९७)स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु ।चेष्टायोन्योर्बुधे जन्तौ शुङ्गारादेश्च कारणे ॥ ५२२ ॥
2.522 · p. 60
वंशस्थम्two metres in one versenearly upajati 12
स्त्र्यम्बकपादपांसवः ।भावोऽभिप्रायवस्तुनोः ।स्वभावजन्मसत्तात्म क्रियालीलाविभूतिषु ।चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे ।शब्दप्रवृत्तिहेतौ च ।भवति भावः ।"वा ज्वलादि" ५ ।११६२ इति णः ।भवनं वा भवतोऽस्मादभिधानप्रत्ययाविति वा ।पञ्चदशस्वर्थेषु ।अभिप्रायस्वभावात्मयोनिशब्दप्रवृत्तिहेतुषु पुंक्ली बः ।शेषेषु पुंसि ।अभिप्राये यथा-अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावमतोऽभिधास्ये ।वस्तुनि यथा-जगति जयिनस्ते ते भावा न वेन्दुकलादयः ॥ ५२१ ॥
2.521 · p. 60
अनुष्टुप्metre not read in every line
स्वभावे यथा-भावानुरक्तव नितासुरतैः शपेयम् ।जन्मनि यथा-उपकाराय हिमवतां भावो विधिना प्रतिज्ञातः ।सत्तायां यथा-नासतो विद्यते मावो नाभावो विद्यते सतः ।आत्मनि यथा--यतो बुधैः सर्वगतस्त्वमु च्यसे न वेत्सि भावस्थमिदं कथं जनम् ।अत्र हि सर्वगतस्त्वं ममाप्यात्मा त्वं तत्रस्थिताहमित्यर्थमाहुः ।क्रियायां धात्वर्थे यथा धात्वर्थः केवल: शुद्धो भाव इत्यभिधीयते ।लीलायां यथा-हावैर्भा वविलासैश्च हरन्ति वरयोषितः ।विभूतावैश्वर्ये यथा-शत्रोर्भावोऽपि हि श्रेयान्न मित्रस्य तु दुर्गतिः ।अन्धकारोऽपि हि वरं न ज्योत्स्ना तुहिनाहिता ।चेष्टायां कायकृते व्यापारे यथा-सर्वभावेन संसारः शुभेनाप्यशुभेन वा ।बन्धनायैव साधूनां मुग्धानां तोषणाय च ।योनावुत्पत्तिस्थाने यथा-को भावः खलचित्तानां जलानां विद्युतां तथा ।अपूर्व एष सन्तानो न विधेः (विधिः)सृष्टिगोचरः ।बुधेनाद्योक्त्या विदुषि यथा-सौगतजरत्परिव्राजि , कायाः कामन्दक्या भूमि भाव एव वेत्ति ।जन्तौ यथा-भावा(२९८)__ अनेकार्थसंग्रहः सटीकःशब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति ।नील्यां मेकलकन्यायां लवः कालभिदिच्छिदि ॥ ५२३ ॥
2.523 · p. 60
अनुष्टुप्metre not read in every line
विलासे रामजे लेशे*, लट्वा पक्षिकुसुम्भयोः ।लघ्वी हस्वाविवक्षायां, प्रभेदे स्यन्दनस्य च ॥ ५२४ ॥
2.524 · p. 60
अनुष्टुप्
३भवन्ति भवतो भवतो विरक्ताः ।शृङ्गारादेः कारणे (प्र. श्रृङ्गा रादिकारणे) यथा-स्थायिनो (स्वामिनो)ऽर्थे प्रवर्तन्ते भावाः सञ्चारिणो यथा ॥ ५२२ ॥
2.522 · p. 60
metre not recognised
शब्दप्रवृत्तिहेतौ यथा-द्विजातिभावा दुपपन्न चापलः ।तात्पर्योदयसुरतसम्वेगेष्वपि मंखः ।तात्पर्य यथा हितं स्वपरयोः कार्यमाहितं न(ना) चरेत्क्वचित् ।शास्त्राणामिति भावं हि प्रवदन्ति मनीषिणः ।उदये यथा-भावः पुण्यकृतां तेषां सर्वसन्तोषकृन्मतः ।सुरतसम्वेगे यथा-हृदयनिहितं भावाकूतं वम द्भिरिवेक्षणैः ।कथय सुकृती कोऽयं मुग्धे त्वयाऽद्य विलोक्यते ।रेवा मन्मथयोषिति ।नोल्यां मेकलकन्यायाम् ।रेवृड्गतौ ।रेवते रेवा मन्मथयोषित् रतिः ।नीली ओषधिः ।मेकलकन्या नर्मदा ।तत्र यथा-रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीम् ।लव: कालभिदिच्छिदि ।विलासे रामजे लेशे ।लुनाति लवनं था लवः ।कालभित् कालभेदः ।यदाह-अष्टादशनिमेषाः स्युः काष्ठा काष्ठाद्वयं लवः ।तत्र यथा-लुप्ता पुनरावृत्तिस्तस्य लवस्यापि यो व्यतिक्रान्तः ।छिदिच्छेदे लवने यथा-नखानलव सम्प्राप्तसौभाग्यफलसम्पदः कान्त (कन्ता) कुचक्षेत्रभुवो बत चेतो विकुर्वते ॥ ५२३ ॥
2.523 · p. 60
अनुष्टुप्metre not read in every line
विलासे यथा-बालालवेनैव मनो हरन्ति ।रामजे रामपुत्रे यथा-मयाप्तं रामत्वं कुशलवसुता नत्वधिगता ।तेरे पहर सरकारदS पदरीधते उललतपस्यन्दिनीं लोचने ।योउत जललवस्यन्दिनाद्वितोयः काण्डः(२९९) विश्वाः सुरेषु विश्वन्तु, शुण्ठयां भुवनकृत्स्नयोः ।विश्वा विषायां शिवं तु, मोक्षे क्षेमे सुखे जले ॥ ५२५ ॥
2.525 · p. 60
metre not recognisedLatin letters: Snearly अनुष्टुप्
शिवो योगान्तरे वेदे, गुग्गुलौ वालुके हरे ।पुण्डरीकद्रुमे कोले शिवा झाटामलोमयोः ॥ ५२६ ॥
2.526 · p. 60
अनुष्टुप्
लट्वा पक्षिकुसुम्भयोः ।लटति लट्वा "लटि खटि (उ० ५०५) इवि वः ।पक्षिभेदे यथा-लट्वाप्रदक्षिणा श्रेष्ठा ।कुसुम्भे यथा--लट्वापुष्पस्तव किततटं भालपृष्ठं वहन्ती ।लध्वी ह्रस्वाविवक्षायां प्रभेदे स्यन्दनस्य च ।लघुशब्दात् "स्वरादुतो गुणादखरोः" २ ।४ ॥ ३५ ॥
2.946 · p. 60
अनुष्टुप्metre not read in every line
इतिङचाम् ।लध्वी ह्रस्वा या विवक्षा तस्यां यथा-आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात् ।स्यन्दनप्रभेदे यथा-क्षिप्तावरोधाङ्गनमु त्पथेन गां विलय लध्वी करभौ च भज जतुः(बभजतुः) ।विश्वाः सुरेषु ।विशन्ति विश्वाः (विशति विश्वः) ।"निघृषि" (उ० ५११) इति किद्वः ।सुरादेवविशेषाः पुंभूम्नि ।यदाहुः साध्यास्त्रयोदश प्रोक्ता विश्वे देवाश्चतुर्दश ।अत्र विश्वे इति छान्दसत्वात्संज्ञायामपि जस इः ।विश्वन्तु शुण्ठयां भुवनकृत्स्नयोः ।शुण्ठयां नगरे स्वीक्लीबः ।भुवने क्लीबे कृष्णे वाच्यलिङ्गः ।भुवने यथा-सा निमिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिवृक्ष येव ।कृत्स्ने यथा-विश्वं जगद्विशति शक्तिभिरेक ईशः ।विश्वा विषायाम् ।विषा ओषधिभेदः ।शिवं तु मोक्षे क्षेमे सुखे जले ।शेरतेऽस्मिन्ननेन वा शिवम् ।“शीडापो हस्वश्च वा" (उ० ५०६) इति वः ।मोक्षे क्षेमे सुखे च यथा-विभ्रद्ब्रह्मशिरः शिवाय जगतामेणाङ्कचूडामणिः ।क्षेमवत्यपि मखः ।यथा-शिवास्ते सन्तु पन्थानः ।अशिवः शिवारुतैरिति ।जलमम्बु ॥ ५२५ ॥
2.525 · p. 60
अनुष्टुप्metre not read in every line
शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे ।पुण्डरीकद्रुमे कले ।(३००)अनेकार्थसंग्रह स्टीकःफेरौ शम्यां पथ्याधात्र्योः शिविर्भुजें नृपान्तरे ।शुल्वं ताने यज्ञकर्मण्याचारे जलसन्निधौ ॥ ५२७ ॥
2.527 · p. 60
अनुष्टुप्metre not read in every lineimpossible sibilant cluster: स्टीकःnearly अनुष्टुप्: pāda 1, syllable 4 म्यां (syllables merged)
सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः ।पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ॥ ५२८ ॥
2.528 · p. 60
अनुष्टुप्
योगान्तरे यथा-वरीयान् परिधः शिवः ।वेदः श्रुतिः ।गुग्गुलुर्म हिषाक्षः ।वालुकमोबधिः ।हरे यथा-स वः पातु शिवः शश्वद्यत्प्रपञ्चमहोदधौ ।उत्पद्यन्ते विपद्यन्ते ब्रह्माद्या बुद्बुदा इव ।पुण्डरीकद्रुमो द्रुमविशेषः ।कीले यथा-शिवप्रबद्धाः शिशवस्तुरङ्गाः ।शिवा झाटामलोमयोः ।फेरौ शम्यां पथ्याधात्र्योः ।षट्स्वर्थेषु स्त्रियाम् ।झाटामला ओषधिः ।उमा गौरी तत्र यथा-सा शिवा वः शिवाय ॥ ५२६ ॥
2.526 · p. 60
अनुष्टुप्metre not read in every line
फेरुः क्रोष्टा क्रोष्ट्री च तत्र यथा अशिवः शिवारुतः ।शमी वृक्षः ।पथ्या हरीतकी ।धात्री आमलकी ।शिविर्भूर्जे नृपान्तरे ।शेतेऽस्मिन्नसौ वा शिविः ।"छवि छिवि" (उ० ७०६) इति साधुः ।पुंसि ।भूजों द्रुमः ।नृपान्तरे यथा-सदस्यङ्ग देव्याः शिविनृपतिवशार्णवभुवः ।याप्ययानेऽपि ।तत्र तु स्त्रियाम् ।यथा-तत्तद्विरागमुदितं शिबि काधरस्थाः साक्षाद्विदुः स्म न मनागपि यानधुर्याः ।शुल्वं ताने यज्ञकर्मण्याचारे जलसन्निधौ ।शलति शुल्वम् ।“शल्यतेरु चातः” (उ० ३१९) इति वः ।ताने यथा-शुल्वं भवति काञ्चनम् ।यज्ञकर्म यज्ञक्रिया ।आचारश्चरित्रम् ।जलसन्निधिः जलसमीपम् ॥ ५२७ ॥
2.527 · p. 60
metre not recognised
सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः ।पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ।सीदन्त्यस्मिन् सत्वम् ।"प्रह्वाहा” (उ० ५१४) इति साधुः ।सतो भाव इति वा ।गुणे पिशाचादौ बले जन्तुषु च पुक्लीबः ।द्रव्यं पारिभाषिकम्+द्वितीयः काण्ड: (३०१)सान्त्वं सामनि दाक्षिण्ये, जुवा मूर्वा जुत्रः नुचि ।हवस्तु सप्ततन्तौ स्यानिदेशाह्वानयोरपि ॥ ५२९ ॥
2.529 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 जु (wrong syllable)
विशेष्याख्यम् ।यदाहुः वस्तूपलक्षणम् यत्र सर्वनाम प्रयुज्यते द्रव्यमित्युच्यते सोऽर्थोऽभेद्यत्वेन विवक्षितः ।तत्र यथा-सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।गुणे प्रकृतिगुणे यथा-- रजोजुषे जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमः स्पृशे ।चित्ते यथा-शुद्धसत्त्वस्य सर्वं हि क्षिप्रमेव विशुध्यति ।व्य वसायोऽतिशयवद्वीर्यमवष्टम्भ इति यावत् ।तत्र यथा-- क्रियासिद्धिः सत्वे वसति महतां नोपकरणे ।स्वभावे यथा सत्वान्तः स्फुरता यवा कृतगुणाध्यारोपतुच्छाय वा ।पिशाचादौ यथा-सत्वेनाधिष्ठितः केन केन तेऽपहृतामतिः ।यस्मादकपदे सर्वं वृत्तं तव तिरोहितम् ।आत्मभावे विद्यमानतायां यथा सत्त्वस्योभयवादिमानसलसदृष्टान्तवन्ध्यात्मनः ।बले स्थाम्नि यथा-स्वभुजसत्ववशाज्जगती जितस्तव विसृष्टधनस्य च ।प्राणेषु इन्द्रियादिषु दशविधेषु जन्तुषु जीवेषु च यथा-सत्वानि निन्ये नितरां महान्त्यपि व्यथा द्वयेषामपि मेदिनीभृताम् ॥ ५२८ ॥
2.528 · p. 60
अनुष्टुप्two metres in one verse
सान्त्वं सामनि दाक्षिण्ये ।सांत्व्यतेऽनेन सान्त्वम् ।सामनि यथा-शत्रौ सान्त्व मपक्रिया ।दाक्षिण्ये यथा-सान्त्ववान शीलसम्पन्नः ।युवा मूर्वा ।स्रवति जुवा ।"निघृषि' (उ० ५११) इति किद्वः ।मूर्वा ज्याहेतु: तृणविशेषः ।स्रुवः स्रुचि ।यथा-उद्विजा जुह्वति हव्यमग्नौ ।हवस्तु सप्ततन्तौ स्यानिदेशाह्वानयोरपि ।हूयते हवः ।ह्वानं वा ।“भावेऽनुपसर्गात्' ५ ॥ ३1४२ ॥इति अल वाशब्दस्योत्वं च ।सप्ततन्तौ अध्वरे यथा-अश्वप्रचारसद्योगाद्रेजुर्वीरा महाहवे ।निदेश आज्ञा ।आह्वानम् आकारणम् ।अनेकार्थसंग्रहः सटोकःअंशुः सूत्रादि सूक्ष्मांसे, किरणे चण्डदोधितौ ।आशा ककुभि तृष्णायामाशुस्तु व्रीहिशीघ्रयोः ॥ ५३० ॥
2.530 · p. 60
अनुष्टुप्metre not read in every line
ईशः स्वामिनि रुद्रे च, स्यादीशा हलदण्डके ।काशस्तृणे रोगभेदे कोशः कपो दिगम्बरे ॥ ५३१ ॥
2.531 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
तयोर्यथा -- परस्परहवाभीतैस्त्वदीयहववृत्तिभिः ।नाहमित्याह वाचं को नरेन्द्रा हवसत्क्षणे ॥ ५२९ ॥
2.529 · p. 60
अनुष्टुप्
अथ शान्ताः ।अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितौ ।अश्नुते अंशुः ।“अशेरा नोऽन्तश्च" (उ० ७१९) इति उः ।पुंसि ।सूत्रादि सूक्ष्मांशे यथा-अंशवस्तन्तुहेतवः ।किरणे यथा-हिमांशुमाशुनसते तन्न दिम्नः स्फुटं फलम् ।चण्डदीधितौ यथा- एषाब्जिनीषद्यदवा ग्नि राह सुदुग्निशावृत्तमिवेतदंशोः ।आशा ककुभि तृष्णायाम् ।आ अश्नुते अचि आशा अश्यतेऽनया(आश्यत्यनया वा ।“उपस र्गादातः" ५ ।३ ॥ ११० ॥इति अङ् ।द्वयोर्यथा-आदित्येन द्विजे नैव दक्षिणाशावलम्बिना ।न केवलमनेनात्मादिवसोऽपि लघूकृतः ।आशुस्तु व्रीहिशीघ्रयोः ।अश्नुते आशुः ।“कृवापाजि" (उ०१) इति उग् ।व्रीहौ पुंसि ।शीघ्र शीघ्रगामिनि ।वाच्यलिङ्गः ।व्रीहौ यथा-आशूज जहावानिशमाशु शुक्षणौ ।शीघ्र यथा तिग्मांशुराशुराशांतान् ।शैघ्यऽपि ।तत्र तु क्लीबे ॥ ५३० ॥
2.530 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 पुं (wrong syllable); pāda 3, syllable 6 शे (wrong syllable)
ईशः स्वामिनि रुद्रे च स्यात् ।ईष्टे ईशः ।स्वामिनि वाच्य लिङ्गः ।तत्र यथा-तमीशकामरूपाणामत्याखण्डलविक्रमम् ।रुद्रे यथा-मातरं कल्पयंत्वेनामीशो हि जगतः पिता ।ईशा हल दण्डके ।हलीशां नेशते वेश्यास्त्यक्तं लब्धां भुजङ्गतः ।क्राशस्तृणे रोगभेदे ।काशते काशनं वा काशः ।तृणे पुक्लीबः ।तत्र यथा वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाशकाशाः ।रोगद्वितीयः काण्डः(३०३)कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः ।कुशी लोहविकारे स्यात्कुशा वल्गा कुशं जले ॥ ५३२ ॥
2.532 · p. 60
अनुष्टुप्metre not read in every line
केशः शिरसिजे पाशपाणौ होवेरदैत्ययोः ।क्लेशो रागादौ दुःखे च, कोशः कोष इवाण्डके ॥ ५३३ ॥
2.533 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दौ (wrong syllable)
भेदे यथा-वर्जयेत् काशवांश्चौर्यम् ।कीशः कपो दिगम्बरे ।कायति कीशः ।“ति निश" (उ० ५३७) इति साधुः ।द्वयोर्यथा कीशः कस्य न हास्याय ॥ ५३१ ॥
2.531 · p. 60
metre not recognised