All kośas › Anekārthakairavākarakaumudī
अनेकार्थकैरवाकरकौमुदी Anekārthakairavākarakaumudī
3,608 verses · text only, tagging comes next
द्वितीयः काण्डः (9/30)
कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः ।कुश्यति कुशः ।कंश्यति कौशते इति वा ।"क्वचित्" इति डः ।कौते व "को " इति कित शः ।दर्भ पुंक्लीबः ।पापिष्ठमत्तयोर्वाच्यलिङ्गः ।रामसुते दर्भे च यथा - सलौ कुशलवोत्सृष्टगर्भक्तेदौ तदाख्यया ।कविः कुशलवावेव चकार किल नामतः ।पापिष्ठः पातकी ।योक्त्रं योत्रम् ।मत्तः क्षीवः ।कुशी लोहविकारे स्यात् ।“भाजगोण" २ ।४ ॥ ३० ॥इति ङ्यां कुशी ।यथा-कुशीलतैव यत्तेषां चिराय न सहिष्यते ।कुशा वल्गा ।वल्गा अश्वमुखरज्जुः ।यथा कुशासक्तकरास्तत्र परलोकजिगीषवः ।अश्वप्रचारसद्योगा रेजुर्वीरा महाहवे ।कुशं जले यथा-कुशेशया ताम्ररुचा करेण ।एतच्छन्दविषय एवास्य प्रायेण प्रयोगः ।यथा कौमोदकी शब्दविषय एव ।विष्णुवाचिनः कुमोदकशब्दस्य १५३२ ॥
2.961 · p. 60
अनुष्टुप्metre not read in every line
केशः शिरसिजे पाशपाणौ होवेरदैत्ययोः ।क्लिश्यते इति केशः ।“क्लिश: के च" (उ० ५३०) इति शः ।केशते इति वा "क्वचित्" इति डः ।कस्येशो वा चतुर्वर्थेषु ।शिरसिजे यथा-मयि जीवति यत्तात: केशग्रहमवाप्तवान् ।पाशपाणौ प्रचेतसि यथा-केशो न वेशान्तशतैरपि रज्यते ।winAran(३०४) अनेकार्थसंग्रहः सटीक:wwwwwwwwwwer कुडमले चषके दिव्येऽर्थचये योनिशिम्बयोः ।जातिकोशेऽसिपिधाने, दर्शः सूर्येन्दुसङ्गमे ॥ ५३४ ॥
2.534 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: winALatin letters: ranLatin letters: wwwwwwwwwwernearly अनुष्टुप्: pāda 3, syllable 6 पि (wrong syllable)
हीवेरं वालकम् ।दैत्यो दानवविशेषः ।क्लेशो रागादौ दुःखे च ।क्लिश्यतेऽनेन क्लेशनं वा क्लेशः ।रागादयोऽविद्याऽस्मिता द्वेषा भिनिवेशाः ।तत्र यथामैत्र्यादिचित्रपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।दुःखे यथा-क्लेशः फले न हि पुनर्नवतां विधत्ते ।कोशः कोष इवाण्डके ।कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः ।जातीकोशेऽसिपिद्याने ।कुश्यति कोशः ।कूयते ।“कोर्वा" इति शः ।कुष्यते कोषः ।कोष इवेति, कोशशब्दः कोषशब्दश्व नवस्वर्थेषु वर्तते इत्यर्थः ।चषके पुंसि ।असिपिधाने शिवायां च त्रिलिङ्गौ ।अन्यत्र पुंक्लीबो ।अण्डके यथा- एतच्चराचरं विश्वं ब्रह्मकोशविनिर्गतम् ।॥ ५३३ ॥
2.533 · p. 60
अनुष्टुप्metre not read in every line
कुड्मले मुकुलेऽर्थे चये द्रव्यसंचये च यथा-नालस्यप्रसरो जडेष्वपि कृता वासस्य कोशे रुचिः ।चषके यथा-कोशेन वेश्याहि पिबन्ति कस्यं ।दिव्ये शपथे यथा-कक्षानिक्षिप्तलोत्रस्य कोशपानमिदं तव 1 योनिरुत्पत्तिस्थानम् ।तत्र यथा-कस्य न स्थाद्रतिः कोशे ।शिवायां यथा-कोशैर्बतत्यः प्रतिभान्ति कानने ।जातीकोशो जातिफलम् ।असिपिधाने यथा-दृढतर निबद्धमुष्टेः कोशनिषण्यस्य सहजमलिनस्य ।अर्थसंचयगृहे पद्मकर्णिकायां मांसखण्डिकायाञ्च मंखः ।अर्थसंचयगृहे यथा-यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ ।तस्माद्विजेभ्यो दत्त्वा र्धमर्द्ध कोशे प्रवेशयेत् ।पद्मकर्णिकायां यथा-कृत्वापि कोशपानं भ्रमरयुवा पुरत एव कमलिन्याः ।मांसखण्डिकायां यथा--पिशा चविषसान् कोशान सास्थीन कवलयन्त्यहो ।शिवाशिवारावद्वितीयः काण्डः(३०५)पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि चर्मणि ।दोषे वनमक्षिकायां खण्डने भुजगक्षते ॥ ५३५ ॥
2.535 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 3, syllable 4 न (wrong syllable)
दशा व व्यवस्थायां, दशास्तु वसनाञ्चले ।नाशः पलायने मृत्यौ, परिध्वस्तावदर्शने ॥ ५३६ ॥
2.536 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भरैविकृतावासयत्पलम् ।दर्शः सूर्येन्दुसङ्गमे ।पक्षान्तेऽष्टौ दर्शने च ।दृश्यते युगपत् सूर्याचन्द्रमसावत्रेति दर्शनम् वा दर्शः ॥ ५३४ ॥
2.534 · p. 60
metre not recognised
पक्षान्तेष्टिः कृष्णपक्षान्तयागः ।तत्र सूर्येन्दुसङ्गमे यथा-दर्श दर्शन यजते पूर्णे पूर्णेन वै द्विजः ।दर्शनम् आलोकनम् ।दंशो व(च)मणि च(म)मषि ।दोषे वनमक्षिकायां खण्डने भुजगक्षते ।दशति दशनं वा दंशः ।वनमक्षिकायां स्त्रीपुंसः ।वर्मणि चर्मणि च यथा-विद्वः सदंशेऽङ्गकृतेऽपि दंशे ।दोषे यथा-परदंशं न शंसन्ति सन्तः प्राणात्ययेऽपि च ।वनमक्षिकायां यथा-आस्वा दवद्भिः कवलैस्तृणानां कण्डूयनैदंशनिवारणैश्च ।खण्डने यथा दशनदंशविकासिरदच्छदा ।भुजगक्षते यथा-दंशेषु दंदशूकाना मादध्याज्जलसेवनम् ॥ ५३५ ॥
2.535 · p. 60
metre not recognised
दशा व व्यवस्थायां ।दश्यते दशा स्थादित्वात् कः ।द्वयोर्यथा-निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।आसीदासन्ननिर्वाणप्रदीपार्चिरिवोषसि ।दशास्तु वसनाञ्चले ।स्त्रीपुंसः ।प्रायेण बहुवचनान्तः ।यथा ते सान्द्रीभूय सद्यः क्रमविशददशाशादशाली विशालम् ।शश्वत्सम्पादयन्तो वरममलमलं मङ्गलं वो दिशन्तु ।नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ।नशनं नाशः ।पलायने यथा-शत्रावतिबले प्राज्ञो नाशमित्य (मेवा)व धारयेत् ।मृत्यौ यथा-अवगच्छति मूढचेतन: प्रियनाशं हृदि शल्यमर्पितम् ।परिध्वस्तौ यथा-अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।अद(३०६)अनेकार्थसंग्रहः सटीकः---निशा हरिद्रयो रात्रौ, पशुश्छागे मृगादिषु ।प्रमथेऽपि च पाशस्तु, मृगपक्ष्यादिबन्धने ॥ ५३७ ॥
2.537 · p. 60
अनुष्टुप्two metres in one verse
कर्णान्ते शोभनार्थ: स्यात्कचान्ते निकरार्थकः ।छात्रा द्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ॥ ५३८ ॥
2.538 · p. 60
अनुष्टुप्
र्शने यथा-सूर्यस्य नाशे कमलैर्निमीलितम् ॥ ५३६ ॥
2.536 · p. 60
निशा हरिद्रयो रात्रौ ।निश्यति निशा ।“उपसर्गादातोडोऽश्यः" ५ ॥ ११५६ ॥इति ड: ।नेशन्त्स्यामिति वा स्थादित्वात् कः ।हरिद्रयोरिति हरिद्रा दारुहरिद्रा च ।रात्रौ यथा-तथा गृहीतं शशिना निशामुखम् ।पशुश्छागे मृगादिषु ।प्रमथेऽपि च ।स्पशिः सौत्र: स्पशति पशुः ।"स्पशि भ्रस्जे: स्लुक च" (उ० ७३१) इति उः ।पुंसि ।छागे यथा-व्रजन्ति तामाशुगति यशस्विनो रणाश्च मेधे पशुतामुपागताः ।मृगादौ यथा-विषाण दंष्ट्रा नखकोटिपाटनैः परेषु युद्धं पशवः प्रयुञ्जते ।प्रमथेऽपि चेत्यत्र जातावेकवचनम् ।तेन सर्वेऽपि गणा उच्यन्ते ।तत्र यथा पतिः पशूनामपरिग्रहोऽभूत् ।पाशस्तु मृगपक्ष्यादिबन्धने ।कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः ।छात्राद्यन्ते च निन्दार्थः ।पाति पाशः ।“पादावम्यमि" (उ० ५२७) इति शः ।पाशनं वा ।मृगपक्ष्यादिबन्धने पुंक्लीबः ।तत्र यथा-छित्वापा शमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुराम ॥ ५३७ ॥
2.537 · p. 60
metre not recognised
कर्णान्ते शोभनार्थ इति कर्णवाचिशब्दात् परत उत्तरपदस्थः पाशशब्द: प्रशंसायां वर्तते ।यथा-पार्श्वत: कर्णपाशेन सर्वतो बन्धनं हिंसा ।कचान्ते निकरार्थो यथा-तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः ।छात्राद्यन्ते निन्दार्थों यथा तं छात्रपाशं स मुनिः शशाप ।पेशी मांस्यसिकोशयोः ।द्वितीयः काण्डः(३०७)-मण्डभेदे पलपिण्डे, सुपक्वकणिकेऽपि च ।भूस्पृग वैश्ये मानवे च, राशिमेषादिपुञ्जयोः ॥ ५३९ ॥
2.539 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
यशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ।वशाना- बन्ध्यगव्यां, हस्तिन्यां दुहितर्यपि ॥ ५४० ॥
2.540 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मण्डभेदे पलपिण्डे सुपक्वकणिकेऽपि च ।पिंशति पेशिः ।"किलि पिलि" (उ० ६०८) इति इः ।ड्या पेशी ।पञ्च स्वर्थेषु ।मांसिर्गन्धद्रव्यविशेषः ।आसिकोशः प्रत्याकारः ॥ ५३८ ॥
2.538 · p. 60
metre not recognised
मण्डभेदो मस्तु ।पलपिण्डो मांसपिण्डस्तत्र यथा-मांस पेशी परित्यज्य ग्रहीतुं मत्स्यमिच्छसि ।सुपक्वा कणिका यत्र स पक्वान्नविशेष: पूरिकाख्यः ।भूस्पृग्वैश्ये मानवे च ।भुवं स्पृशति भूस्पृग् ।बैश्यस्तृतीयो वर्णः ।मानवो मर्त्यः ।राशिमें पादिपुञ्जयोः ।अश्नुते राशिः ।“अशोरश्चादिः" (उ० ६८८) इति गिदिः ।पुंसि ।मेषादौ यथा-राशीनामुदयो लग्नम् ।पुजे यथा-अम्भश्च्युतः कोमलरत्नराशीनपांनिधिर्फेनपिनद्धभासः ॥ ५३९ ॥
2.539 · p. 60
अनुष्टुप्metre not read in every line
वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ।वष्टि कामयते वशः ।वशनं वा "युवर्ण" ५ ।३ ॥ २८ ॥इति अल् ।वनति वा ।"कृ वृ भृवनिभ्यः कित्" (उ० ५२८) इति शः ।जनो लोकः स्पृहा इच्छा तत्र यथा-दुर्जने स्ववशवर्त्तिनि कः स्यान्मत्सरः परिचयोऽथ दृढो वा ।आयत्ते वाच्यलिङ्गस्तत्र यथा-यदीच्छसि वशीकर्तुमक्लेशेन जगत्त्रयम् ।आयत्तत्वे यथा-सर्वः कार्यवशा ज्जनोऽभिरमते ।प्रभुत्वे यथा-वसूनि वाञ्छन्न वशी न मन्युना ।अत्र हि वशः प्रभुत्वमस्यातीति वशी ।वशा नार्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ।नार्यां यथा-वशाभिः स वशं नीतः ।वन्ध्यगव्यां यथा-अकार्यसिद्धये नेयान्यङ्गतां विगुणान्यपि ।(३०८)अनेकार्थसंग्रह सटीकः-------------warunnarun-run-----वंशः सोऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च ।वेशो वेश्यागृहे गेहे, नेपथ्ये च शशः पशौ ॥ ५४१ ॥
2.541 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: warunnarunLatin letters: runnearly अनुष्टुप्: pāda 1, syllable 1 वं (syllables merged)
बोले लोध्र नभेदे च, स्पशो हेरिकयुद्धयोः ।स्पर्शो वर्गाक्षरे दाने, स्पर्शने स्पर्शके रुजि ॥ ५४२ ॥
2.542 · p. 60
अनुष्टुप्
भवत्येव हि कुत्रापि यागे सदक्षिणा क्शा ।विघातायैव सा बुद्धिमूर्खस्याजवशा यथेत्यादौ वन्ध्यत्वोपचारात् गोरन्यत्रापि ।हस्तिन्यां यथा-वशास्पर्शसुखास्वादप्रसारितः करः करी ।दहिता पुत्री तत्र यथा-वशाभिरपि वश्याभिः क्रियते पितुरुन्नतिः ।वेश्यायामपि मंखः ।यथा-सायं वशावेश्मसु दीपवत्सु स्वास्ती र्णतल्पेषु ससौरभेषु ।साकूतसंगीतकसंकुलेषु संचेरिरे कामि जनाः प्रहर्षेः ॥ ५४० ॥
2.540 · p. 60
इन्द्रवज्राmetre not read in every line
वंशः संधेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च ।वमति वंशः ।“पादावमि" (उ० ५२७) इति शः ।सङ्घ समूहेऽन्वये वेणौ च यथा-स राजवंशो विजितारिवंशो वंशोत्थ मुक्तोंऽभितदामभूषः ।पृष्ठावयवे यथा - वंशनाडीमतिक्रम्य त्रिसन्धित्रिकमुच्यते ।आदिशब्दात् खड्गाद्यवयवेऽपि ।यथा सवंशवृत्तं सहजं च तैक्ष्ण्यं तेजोऽसहत्वं सततं परस्य ।तल्यस्त्वया भूमिप चन्द्रहासो निस्त्रिंशता तू व्यतिरिच्यतेऽस्य ।वेशो वेश्यागृहे गेहे नेपथ्ये च ।विशन्ति-अस्मिन् अनेन वा वेशः ।वेश्यागृहे यथा-वेशवाटें भ्रमा जूटटङ्कोट्टङ्कितपट्टिकः ।वाचाटष्टिटिभाकारो विटचेष्टविचेष्टते ।गेहे सामान्यगृहे यथा-वेशप्रवेशोऽशोभिमुखेन शुक्रे(के) ।नेपथ्ये यथा-स एव वेशः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ।मूर्धन्योपान्त्य मप्यमुं केचिदाहुः ।शशः पशौ ।बोले लोधे नभेदे च ।शशति शशः ।पशौ यथा-उद्या(द्य)न्तमुद्धृद्रुितमनोकहजालम ध्यादन्यः शशं गुणमनल्पमवन्नवाप ॥ ५४१ ॥
2.541 · p. 60
अनुष्टुप्two metres in one verseimpossible sign sequence: तमुद्धृद्रुितमनोकह
बोलो गन्धरसः ।द्वितोय: काण्ड:(३०९)अक्षो रथस्यावयवे, व्यवहारे बिभीतके ।प्रासके शकटे कर्षे, ज्ञाने चात्मनि रावणौ ॥ ५४३ ॥
2.543 · p. 60
अनुष्टुप्metre not read in every line
लोध्रो वृक्षः ।नृभेद: कामशास्त्रोक्तलक्षणस्तत्र यथा-शशो वृषोऽश्व इति लिङ्गतो नायकभेदाः ।स्पशो हेरिकयुद्धयोः ।स्पशिः सौत्रः ।स्पशति स्पशः ।द्वयोर्यथा-शब्दविद्येव नो भाति राजनीतिरपस्पशा ।सङ्ग्रामे स्वप्राणनिर्पक्षो व्यालं हस्तिनं योधयति य: स तीक्ष्णाख्यः पुरुषस्तत्रापि ।स्पर्शो वर्गाक्षरे(वर्गान्तरे) दाने स्पर्शने स्पर्शके रूजि ।स्पृशति स्पर्शः ।"पदरुज" ५ ।३ ॥ १६ ॥इति घन ।स्पर्शनं वा ।वर्गाक्षरे यथा-स्पृष्टं करणं सार्शा नाम् ।दाने यथा-गोसहस्रस्य च स्पर्शः प्रायश्चितं परं स्मृतत् ।अत्र ण्यन्तादल ।दाने हि ण्यन्तो दृश्यते यथा-गाः कोटिशः स्पर्शयता घटोध्नोः ।तथा हि ग्रहीता स्पृशति दाता स्पर्शयतीति ।स्पर्शने यथा-चिरात्सुतस्पर्शरसज्ञतां ययौ ।स्पर्शक: स्पृष्टा ।रुजि रोगविशेषे यथा-स्पर्शे धूमं प्रयोजयेत् ॥ ५४२ ॥
2.542 · p. 60
metre not recognised
अथ षान्ताः ।अक्षो रथस्यावयवे व्यवहारे बिभीतके ।प्रासके शकटे कर्षे ज्ञाने चात्मनि रावणौ ।अक्षति अक्षः ।अश्नुते वा ।"मा वा वद्यमि" (उ० ५६४) इति सः ।रथावयवे यथा-- अक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।व्यवहारो आयव्ययादिन्यायः ।तत्र यथा-राजाध्यक्षः ।बिभीतके यथा अक्षेषु रक्षांसि यतो वसन्ति ।प्रासके यथा-इत्थं नेयौ रजनि दिवसौ दोलयन् द्वाविवाक्षौ ।शकटे यथा-हस्तिभिस्तुरगै रक्षः संबाधेऽस्मिन् रणाङ्गणे ।कर्षे यथा अक्ष: षोडशमाषक: ।ज्ञाने आत्मनि च यथा-अक्षेण दक्षो बुबुधेऽक्षरूपम् ।रावणौ रावण सुते यथा-धनुर्धरकलादक्षो यदक्षो हतः ।द्यूतबीजयोरपि मंखः ।अनेकार्थसंग्रहः सटोकःअक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि ।बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ॥ ५४४ ॥
2.544 · p. 60
अनुष्टुप्metre not read in every line
महीधरविशेषे च शोणके क्षतवेधने ।ऋषिदे मुनौ कर्षः कर्षणे मानभिद्यपि ॥ ५४५ ॥
2.545 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कक्षो वोरुधि दोर्मूले कच्छे शुष्कवने तणे ।पापे कक्षा विभरज्जो काञ्च्यां गेहप्रकोष्ठके ॥ ५४६ ॥
2.546 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
द्यूते द्यूतमात्रे यथा-अक्षेण हारितं राज्यं पूर्वैः सक्षत्रियैरपि ।बीजे पद्मादि फले यथा - कृतोऽक्षसूत्रप्रणयी तया करः ।विभान्तमच्छस्फटिकाक्षमालयेत्यादौ तु उपचारात् ॥ ५४३ ॥
2.543 · p. 60
metre not recognised
अक्षं सौवर्चले तुत्थे हृषीके स्यात् ।सौवर्चलं कृष्णलवणम् ।तुत्थं मयूरग्रीवम् ।हृषीकम इन्द्रियं तत्र यथा-जिताक्षस्य तृणं नारी नि:स्पृहस्य तृणं नृपः ।उषा निशि ।बाणपुत्र्यां च ।उषति उषा ।द्वयोर्यथा-करैः स्पृशत्युषामिन्दुरनिरुद्ध इवाधिकम् ।ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ।महीधरविशेषे च शोणके क्षतवेधने ।ऋज्यते ऋक्षः ।“ऋजि रिषि" (उ० ५६७) इति कित् सः ।नक्षत्रे पुंक्लीबः ।नक्षत्राच्छभल्ल्योर्यथा ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्धीमतारम् ॥ ५४४ ॥
2.544 · p. 60
अनुष्टुप्metre not read in every line
महीधरविशेषे यथा-विन्ध्यश्च पारियात्रश्च माल्यवानृक्षपर्वतः ।शोणकोऽरलुवृक्षः ।कृतवे धनः कृतच्छिद्रः ।ऋषिदे मुनौ ।ऋषति ऋषिः ।“नाम्युपान्त्य" (उ० ६०९) इति किदिः पुंसि ।वेदे यथा-राजानमभिषिञ्चैयुरार्मन्त्रद्विजोत्तमाः ।अत्र ऋषेर्वेदस्येमे आर्षा मन्त्राः ।मुनौ यथा--रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः सम्वलिता विरेजिरे ।कर्षः कर्षणे मानभि द्यपि ।कर्षणं कृषति वा कर्षः ।मानभेदे पंक्लीबः ।तत्र यथा-षोडषमाषो निगद्यते कर्षः ॥ ५४५ ॥
2.545 · p. 60
metre not recognised
कक्षो वीरुधि दोर्मूलेद्वितीयः काण्डः(३११)Aभित्तो साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले ।उद्ग्राहिण्यां च कर्पूस्तु तुषाग्नौ कृषिकुल्ययोः ॥ ५४७ ॥
2.547 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: A
कच्छे शुष्कवने तृणे पापे ।कर्षति कक्षः ।“मा वावद्यमि" (उ० ५६४) इति सः ।दोर्मुले स्त्रीपुंसः ।वीरुधि यथा-नास्ति कक्षो निरोषधिः ।दोर्मूले यथा-स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे ।कच्छोऽनूपप्रायः ।तत्र यथा-कक्षं विवक्षति गजः सलिलं पिपासुः ।शुष्कवने यथा-आसीत्र्यक्षविपक्षकक्षदहनः ।तृणे यथा-प्रक्षिप्योचिषं कक्षे शेरते तेऽभिमारुतम् ।पापे यथा कक्षायते प्रेयसि यः प्रपन्ने तं हन्त पिकापुरुष वदन्ति ।कक्षा त्विभरज्जौ काञ्च्यां गेहप्रकोष्ठके ।भित्तौ साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले ।उद्ग्राहिण्यां च ।इभरज्जौ यथा-सान्द्रत्वल्कास्तल्पतालिष्टकक्षा माङ्गी शोभामाप्नुवन्त श्चतुर्थीम् ।काञ्च्यां रसनायां यथा-कक्षा समाक्रष्टुमथाच काक्षुः ।गेहप्रकोष्ठको गृहभूमिभागः ।तत्र यथा-सप्त कक्षा अतिक्रम्य ॥ ५४६ ॥
2.546 · p. 60
metre not recognised
भितो यथा-कक्षालग्ना शतपदी ग्रहीतुं न हि शक्यते ।साम्ये यथा-पक्षीन्द्रकक्षां क्रिमुपैति कक्षी ।रथभागे यथा-दृढकक्षैः परोलक्षैः रथैः क्षुण्णक्षमातलः ।अन्तरीयं निवसनं तस्य पश्चिमाञ्चले यथा-प्रलम्बकक्षाः खलु दाक्षिणात्याः ।उद्ग्राहण्यां यथा-कतिकक्षा विवक्षसे ।प्रतिज्ञायामपि मंखः ।यथा-दृढकक्षस्तु विवदेद्यत्प्रमेयान्न हीयते ।कर्पूस्तु तुषाग्नौ कृषिकुल्ययोः ।कृष्यते कर्षणं कर्षति वा कर्षः ।“कृषि चमि" (उ० ८२९) इति ऊः ।तुषाग्नौ पुंसि ।शेषयोः स्त्रियाम् ।तुषाग्नौ करीषानले यथा-उद्दीप्य कडू जुहुयात् य इच्छेद्ब्रह्मवर्चसम् ।कृषौ यथा-कर्पू कुर्वन्ति ये काले ।कुल्या(३१२)अनेकार्थसंग्रहः सटीकः...----------------घोषः कांस्ये स्वने गोपघोषकाभोरपल्लिषु ।घोषा तु शतपुष्पायां चोक्षः सुन्दरगोतयोः ॥ ५४८ ॥
2.548 · p. 60
अनुष्टुप्metre not read in every line
शुचौ झषस्तु मकरे बने मीने झषा पुनः ।नागवलायां तुषस्तु धान्यत्वचि बिभीतके ॥ ५४९ ॥
2.549 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ ।द्रुमे दक्षा तु मेदिन्यां ध्वाङ्क्षः काके बकेथिनि ॥ ५५० ॥
2.550 · p. 60
अनुष्टुप्
नदी सारणिर्वा नद्यां यथा-भगीरथी कर्षति देवकर्षमागङ्गाम) ।सारणौ यथा-कर्पूभिरासेवितवृक्षकाणां क्रीडान्तराले मुनिकन्यकानाम 11५४७ ॥
2.993 · p. 60
metre not recognised
घोष: कांस्ये स्वने गोपघोषकाभीरपल्लिषु ।घोषति घोषणं घोषन्ति अस्मिन्वा घोषः ।पञ्चसु अर्थेषु ।कांस्ये यथा-मुखा मुखे निक्षिपघोषपत्रम् ।स्वने यथा--शुश्राव घोषं न जनौधजन्यम् ।गोपे आभीरपल्लौ च यथा-हैयङ्गवीनमादाय घोषवृद्धानुपागतान् ।घोषको भाषकः ।तत्र वाच्यलिङ्गः ।घोषा तु शतपुष्पायां ।शतपुष्पा ओषधिः ।चोक्षः सुन्दरगीतयो: ।शुचौ ।चायते चोक्षः ।"लाक्षा द्राक्षा" (उ० ५९७) इति साधुः ।सुन्दरे शुचौ च वाच्यलिङ्गः ।तयोर्यथा-रजकक्षालितक्षोमे चोक्ष दन्तांशुरबबीत् ।गीतं चोक्षशाटकरागः ।तत्र यथा-प्रेक्षणीये विलासिन्या चोक्षरागहृतं मनः ॥ ५४८ ॥
2.548 · p. 60
अनुष्टुप्metre not read in every line
झषस्तु मकरे वने मीने ।झषति झषः ।मकरे मीने च यथा-स्त्रीमुद्रां झषके तनस्य महतीं सर्वार्थसंपत्करीम् ।बने यथा-उज्झन्ति शीर्ण हि झपं विहङ्गाः ।झषा पुन: ।नागवलायां ।नागवला ओषधिः ।तुषस्तु धान्यत्वचि बिभीतके ।तुष्यत्यनेन तुषः ।"स्थादिभ्यः कः" ५ ।३ ॥ ८२ ॥
2.995 · p. 60
metre not recognised
इति कः ।धान्यत्वचि यथा-- तुषरपि गरित्यक्ता न प्ररोहन्ति तण्डुलाः ।बिभीतको वृक्षः ।दोषेऽपि मंखः ।म्राम्यत्येष स कोऽपि निस्तुषगुणो दृष्टावशिष्टो जनः ॥ ५४९ ॥
2.549 · p. 60
metre not recognised
दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ ।awan-द्वितीय: काण्डः(३१३) गृहे ध्वाक्षी तु ककोल्या यक्ष: कात्स्न्यं निकृष्टयोः ।। जामदग्न्येऽपि पक्षस्तु मासाधं ग्रहसाध्ययोः ॥ ५ ॥
2.5 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: awan
द्रुमे ।दक्षते दक्षः ।पटौ वाच्यलिङ्गः ।प्रजापतौ यथा-दक्षस्य कन्या भव पूर्वपत्नी ।रुद्रवृषभः शम्भोरनड्वान् ।पटुश्चतुरः ।तत्र कुक्कुटे च यथा-गौतमाह्वान मिषतः कामिनो बोधयत्यलम् ।प्रभाते ताम्रचूडोऽत्र दक्षोऽसौ हि किमद्भुतम् ।द्रुमो द्रुमविशेषः ।दक्षा तु मेदिन्यां ।मेदिनी पृथ्वी ।ध्वाङ्क्षः काके बकेथिनि ।गृहे ।ध्वाक्षति ध्वाइक्षते वा ध्वाक्षः ।काके यथा-ध्वाङ् क्षविरावी न पिको निवसन्नपि बलिभुजां भुवने ।बके यथा-- स्तब्धग्रीवो मौनी निश्चलपिहितार्द्धलोचनः शश्वत् ।सजले जनो य आस्ते स किल ध्वाङ्क्षव्रती प्रोक्तः ।अर्थी तर्कुको भिक्षुको वा ।तत्र वाच्यलिङ्गः ।तत्र यथा- क्षितितले ध्वाक्षो जनो लक्षशः ॥ ५५० ॥
2.550 · p. 60
अनुष्टुप्metre not read in every line
गृहं तु गृहविशेषः ।यद्ब्याडि:-ध्वजो धुमश्च सिंहश्च श्वा वृषश्च खरो गजः ।ध्वाङ् क्षोऽष्टमश्च प्राच्याद्या ईशानान्ताः क्रमादमी ।ध्वाङ्क्षी तु ककोल्यां ।गौरादित्वाड्डीः ।कक्कोली ओषधिभेदः ।न्यक्षः कात्य॑निकृष्टयोः ।जामदग्न्येऽपि ।न्यक्षति नियतान्यक्षराण्य स्येति वा न्यक्षः ।निकृष्टे वाच्यलिङ्गः ।कात्न्यं निकृष्ट च यथा-आसीन्यक्षविपक्षकक्षदहह्नः ।जामदग्न्ये भार्गवे यथा न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादयम् ।पक्षस्तु मासार्धे ग्रहसाध्ययोः ।चुलीरन्ध्रे बले पार्वे वर्गे केशात्परश्चये ।पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ।पच्यते पक्षः ।“मा वा वदि" इति सः ।त्रयोदशस्वर्थेषु ।मासा॰ यथा-मासि मासि समाज्योत्स्नापक्षयोरुभयोरपि ।ग्रहे यथा-अपक्षपातेन परीक्षमा(३१४)अनेकार्थसंग्रहः सटोकःचुल्लोरन्ध्र बले पावें वर्ग केशात्परश्वये ।' पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥ ५५२ ॥
2.552 · p. 60
अनुष्टुप्metre not read in every line
प्लक्षो दोपे गर्दभाण्डेश्वत्थे जटिनि पक्षके ।प्रेक्षाधीरीक्षणं नतं प्रेषः प्रेषणपीडने ॥ ५५३ ॥
2.553 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 न (wrong syllable)
णाद्वयं द्वयस्या प्रतीम प्रतीमः ।साध्ये यथा-साध्यधर्मविशिष्टो धर्मी पक्षः ॥ ५५१ ॥
2.551 · p. 60
metre not recognised
चुल्लीरन्ध्रे यथा-पक्षे क्षिप्त्वाशु शुक्षणिम् ।बलें सैन्ये पिच्छे गरुति च यथा-चलितदुर्बलपक्षपरिग्रहः ।पाव गृहपार्श्वद्वारम् ।तत्र यथा-पक्षद्वारेण निर्गतः ।वर्गे सजा तीयगणे यथा-स्वपक्षक्षयकारकः ।केशात्परश्चये समूहे यथा न केशपक्षः क्षपितोऽपि रेणुना विपक्षनामग्रहलब्धमोहया ।विरोधे यथा- विपक्षमखलीकृत्य प्रतिष्ठा खलु दुर्लभा ।देहाङ्गे यथा - वामेन पक्षेण न दक्षिणेन न वाग्न चोत्तानमनातुरोऽपि ।वियोगयोगात्परमोऽपि धीरो वज्राव पातादिव दुःखमाप्ते(स्ते) ।सहाये यथा-सपक्षारुजवः शुद्धाः सफला गुणसेविनः ।राजकुञ्जरे यथा-आरुह्यपक्षं क्षपितारि पक्षः ॥ ५५२ ॥
2.552 · p. 60
वंशस्थम्two metres in one verse
प्लक्षो दीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके ।प्लोषति प्लक्ष: ।"प्लुषेः प्लष् च” (उ० ५६६) इति सः ।पञ्चस्वर्थेषु ।द्वीपे यथा-जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोतः क्रमोतः ।गर्दभाण्डो वृक्षः ।अश्वस्थः पिप्पल: ।जटी पर्कटी तत्र यथा-प्लक्षप्ररोह इव सौधतलं विभेद ।पक्षक: पक्षद्वारम् ।प्रेक्षा धीरीक्षणं नृत्तम् ।प्रेक्षणंप्रेक्ष्यतेऽसावनया वा प्रेक्षा ।धियां बुद्धौ यथा-प्रेक्षावन्तो विव … क्षन्ते न क्षीणं न निरर्थकम् ।ईक्षणे यथा-सततप्रेक्षया ज्ञातासुसाध्या सामया सखे ।प्रयत्नमात्राः संसाध्यास्तादृश्यः कथिताद्वितीयः काण्डःपौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः ।भिक्षा सेवाप्रार्थनयो तौ भिक्षितवस्तुनि ॥ ५५४ ॥
2.554 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (syllables merged)
माषो माने धान्य भेदे मूर्ख त्वग्दोषभिद्यपि ।मिषं ब्याजे स्पर्धने च मेषो राश्यन्तरे हुडौ ॥ ५५५ ॥
2.555 · p. 60
अनुष्टुप्
बुधैः ।नृत्ये यथा-प्रेक्षा क्षणे वर्तते ।प्रैषः प्रेषणपीडने ।प्रेषणं प्रेषः ।“प्रस्य प्रेष्य" १ ।२ ॥ १४ ॥इति एत्वम् ।प्रेषणे यथा प्रेषप्रौढा इह प्रैष्याः ।प्रौहौदि न कुर्वते ।पीडनं मर्दनम् ।क्लेशोन्मानयोरपि ॥ ५५३ ॥
2.553 · p. 60
metre not recognised
पौषो मासप्रभेदे स्यात् ।पौषी पौर्णमासी अस्य पौषः ।“साऽस्य पौर्णमासी" ६२ ॥ ९८ ॥इति अण् ।यथा-यदुद्भक्तं पौषमाघयोः ।पौष तु महयुद्धयोः ।पुष्ये भवं पौषम् ।“भर्तुसन्ध्यादेरणि" ६१३१८९ ।तिष्यपुष्ययोर्भाणि । २ ।४ ॥ ९ ॥इति य लुक् ।मह उत्सवः ।युद्ध सङ्ग्रामः ।भिक्षा सेवाप्रार्थनयोमतौ भिक्षितवस्तुनि ।भिक्षणं भिक्ष्यते वा भिक्षा ।"क्तेट" ५ ।३ ॥ १०६ ॥इति अः ।सेवायां यथा-भिक्षा माचरतः क्षयं परिगत: सर्वो गुणानां गणः ।प्रार्थनायां यथा भिक्षा सत्कुभिरेव सम्प्रति वयं वृत्ति समीहामहे ।भृतौ वेतने यथा-ऋत्विग्भ्यो न हि निर्वेदे भिक्षा देया कदाचन ।नान्तद्यनियुक्तेभ्यो यथा-श्राद्धं त्वया चिता ।अत्र हि प्रार्थना नास्ति ।भिक्षितवस्तुनि यथा-भिक्षाभोजी तद्गृहे रुक्षगात्रः ।॥ ५५४ ॥
2.554 · p. 60
metre not recognised
माषो माने धान्यभेदे मुर्खे: त्वग्दोषभिद्यपि ।मीय तेऽनेन माषः ।“वृकत मीङ् माभ्यः षः" (उ० ५४०) इति षः ।: माने धान्यभेदे च पुंक्लीब: ।माने यथा-माषो दशार्द्धगुजः ।धान्यभेदे यथा - तिलैीहियवैरिद्भिर्मूलफलेन “वा ।मूर्यो बालिशः ।तत्र वाच्यलिङ्गः ।त्वग्दोषभिदि यथा-माषकल्माषअनेकार्थसंग्रह सटीकः मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ ।यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥ ५५६ ॥
2.556 · p. 60
अनुष्टुप्metre not read in every lineimpossible sign sequence: यथा - तिलैीहियवैर
रूक्षोऽस्निग्धपरुषयोर्लक्षं व्यजशरव्ययोः ।संख्यायामपि वर्षस्तु समाद्विपांशवृष्टिषु ॥ ५५७ ॥
2.557 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ग्ध (wrong syllable); pāda 4, syllable 3 द्वि (wrong syllable)
विग्रहः ।मिषं व्याजे स्पर्द्धने च ।मिषत्यनेन मिषम ।स्थादित्वात्कः ।व्याजे यथा-हारान्तःस्थितपद्मरागमिषतः फालं दधौ शुद्धये ।स्पर्द्धनं संघर्षः ।मेषो राश्यन्तरे हुडौ ।मिषति मेषः ।लिहाद्यच् ।मीयते वा ।"व क त मीङ्" (उ० ५४०) इति षः ।हुडौ पुंक्लीबः ।राश्यन्तरे यथा-मेषोद्वषमुपारूढाः ।हुडौं यथा-यद पसरति मेषः कारणं तत्प्रहर्तुम् ॥ ५५५ ॥
2.555 · p. 60
metre not recognised
मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ ।मोक्षणं मोक्ष्यते वा मोक्षः ।मुञ्चति वा ।"मा वा वद्यमि" (उ० ५६४) इति सः ।निःश्रेयसे यथा-उपेयुषो मोक्षपथं मनस्विनः ।वृक्षविशेषो मुष्ककनामा तरुः ।मोचने यथा-स कारयामास वधूं पुरोधास्तस्मिन्समिद्धाचिषि लाजमोक्षम् ।मृतौ यथा-मोक्षं गतोऽश्वः सहसव कक्षे ।यक्षः श्रीदे गुह्यके च ।इज्यते यः ।मा वा वदि (५६४) इति सः ।श्रीदे यथा-अथ वैश्रवणीयेऽत्र बलिं यक्षाय कल्पयेत् ।गुह्य के यथा यक्षश्चके जनकतनया नानपुण्योदकेषु ।, रक्षा रक्षणभस्मनोः ।रक्षणं रक्ष्यतेऽनया वा रक्षा ।रक्षणे यथा-रक्षाहेतोर्नवशशि भृता वासवीनां चमूनाम् ।भस्मनि यथा-होमाग्नि रक्षातिलक चकार ॥ ५५६ ॥
2.556 · p. 60
अनुष्टुप्metre not read in every line
रूक्षोऽस्निग्धपरुषयोः ।रूक्षयति रूक्षः ।गुणे पुंसि ।तद्वति वाच्यलिङ्गः ।अस्निग्धो नीरसः ।प्रेमव जितो वा ।नीरसे यथा-भिक्षुभिर्लक्षित क्षेत्रं रूक्षभैक्षबुभु क्षुभिः ।प्रेमवजितपरुषयोर्यथा-इत्युक्तवन्तं जनकात्मजायां निता.__(३१७)AVAAAAA----द्वितोयः काण्डः वर्षवरेऽपि वर्षा तु प्रावृष्यथ विषं जले ।क्ष्वेडे विषा त्वतिविषा वृषो गव्याखुधर्मयोः ॥ ५५८ ॥
2.558 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: AVAALatin letters: AAA
न्तरूक्षाभिनिवेशमीशम् ।लक्षं व्याजशरव्योः ।संख्यायामपि ।लक्ष्येतऽनेन लक्षम् ।व्याजे पुंक्लीबः ।शरव्ये क्लीबः ।संख्यायां स्त्री क्लीबः ।व्याजे यथा-सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम ।रोमाञ्चलक्षेण स गात्रयष्टिं भित्वा निरक्रामदरालकेश्याः ।शरव्यं वेध्यम् ।संख्या दशसहस्रीलक्षणा ।तयोर्यथा-लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः ।वर्षस्तु समा द्वीपांशवृष्टिषु ।वर्षवरेऽपि ।वृष्यते वर्षति वर्षणं वा वर्षः ।वृणोति वा ।“वृ कत" (उ० ५४०) इति षः वर्षवरे पुंसि ।शेषेषु पुंक्लीबः ।समायां वत्सरे यथा-जीवेद्वर्षशत्रं कोऽत्र यः फलान्यस्य पश्यति ।द्वीपांशे यथा-एतदूढगुरुभारभारतं वर्षमद्य मम वर्तते वशे ।वृष्टी यथा-रसन्नरोदीमृशमम्बुन्तु वर्ष व्याजेन यस्याबहिरम्बुवाहः ॥ ५५७ ॥
2.557 · p. 60
upajati mixedmetre not read in every line
वर्षवरः षष्ठः ।तत्र वर्षशब्दो भीमसेनो भीमवत् ।वर्षा तु प्रावृषि वर्षन्ति मेघा आस्विति वर्षाः ।स्त्रियां भूम्नि च ।यथा-पङ्कभाजोऽपि हर्षाय वर्षाः ।सस्याभिलाषिणाम् ।अथ विषं जले ।क्ष्वेडे ।वेवेष्टि विषं पुंक्लीबः ।द्वयोर्यथा-मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।विषा त्वतिविषा अतिविषा ओषधिः ।वृषा गव्यारवुधर्मयोः ।पुराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च ।श्रेष्ठे स्यादुत्तरस्थश्च ।वर्षति वृषः ।गवि यथा-असंपदस्तस्य वृषेण गच्छतः ।आखो मूषिके यथा-निर्जन्तौ वृषदंश एष कुरुते मूकः स्थितोऽप्यत्र किम् ।धर्मे राशिभेदे च यथा दिवसपतेरपि दिवसा: प्रयान्ति वृद्धि वृषं चरतः ॥ ५५८ ॥
2.558 · p. 60
अनुष्टुप्metre not read in every line
(३१८)अनेकार्थसंग्रहः सटीकःपुराशिभेदयोः शङ्ग्यां वासके शुक्रलेऽपि च ।श्रेष्ठे स्यादुत्तरस्थश्च वषो तु:तिविष्टरे ॥ ५५९ ॥
2.559 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृषा पुनः कपिकच्छवां शुषिः शुषिरशोषयोः ।शेषोऽनन्ते वधे सीरिण्युपयुक्ततरेऽपि च ॥ ५६० ॥
2.560 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुंभेदे यथा-शशो वृषोऽश्व इति लिङ्गतो नायकभेदाः ।शृङ्गीओषधिः वासक आटरूषकः शुक्रल: शुक्राधिकः ।तत्र यथा त्यागी वृषः सुभग इत्यपि लब्धशब्दः ।उत्तरस्थ इति उत्तर पदस्थः वृषशब्दः ।श्रेष्ठे यथा-कविवृष निषेव्यो विजयते ।दानवेऽपि यथा-कृतगोपवधूरतेनतो वृषमुने नरकेऽपि सम्प्रति ।प्रतिपत्तिरधः कृतैनसो जनताभिस्तव साधु वर्ण्यते ।वृषी तु व्रतिविष्टरे ।बुबन्तः सीदन्त्यस्यां वृषी ।पृषोदरादित्वात् ।यथा-वृषीष्वेवोच्च गदैः स्थितम् ॥ ५५९ ॥
2.559 · p. 60
वियोगिनीmetre not read in every line
वृषा पुनः कपिकच्छ्वाम् ।कपिकच्छूलताभेदः ।शुषिः शुषिरशोषयोः ।शुष्यतिशोषणम् शुषिः ।“नाम्युपान्त्य” ५ ।१ ॥ ५४ ॥इति किदिः ।'खियाम ।शुशिरे छिद्रे यथा-वंशादिकं तु शुषिरम अत्र हिशुषिछिद्रं विद्यतेऽस्येति मध्वादित्वाद्रः ।। शोषे यथा * विवेिशतः शुषिशोकार्ताः सूकराः शश्वसुर्धनम् ।अवग्रहदहत्स स्यामहान्त इव कर्णकाः ।वलेपि मखः ।यथा-भ्रश्यच्छुशिनि रुत्साहमयासीत् तत्र तलम् ।शेषोऽनन्ते वधे सीरिण्यु पयुक्ततरेऽपि च ।शिनष्टि शिष्यते वा शेषः ।शिष् हिंसाया मित्यस्य वा भावेलिष्यति वा ।"श्लिषः शे च" (उ० ५४३) इति षः ।उपयुक्ततरे पुंक्लीबः ।अनन्ते नाग राजे यथा-व्यादिश्यते भूधरतामवेक्ष्य कृष्णेनदेहोद्वहनाय शेषः ।वधे यथा- न मेषशेषः शिवतातिशेषः ।सीरिणि बलभद्रेद्वितीयः काण्डः(३१९)शेषा निर्माल्यदाने स्याच्छोषः शोषणयक्षमणोः ।*अर्चिर्मयूखशिखयोरदोत्र च परत्र च ॥ ५६१ ॥
2.561 · p. 60
अनुष्टुप्metre not read in every lineimpossible sign sequence: यथा * विवेिशतः शुnearly अनुष्टुप्
आगः स्यादेनोवदघे मन्तावाशीहितैषणे ।उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥ ५६२ ॥
2.562 · p. 60
अनुष्टुप्
यथा-निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।उपयुक्ततरे यथा मन्दाकिन्याः पयः शेषं दिग्वारण दिग्धारिण)मदाविलम् ॥ ५६० ॥
2.560 · p. 60
metre not recognised
शेषा निर्माल्यदाने स्यात् ।यथा-तथेति शेषामिव भर्तुराज्ञा मादाय मूद्धर्ना मदनः प्रतस्थे ।शोषः शोषणयक्ष्मणोः ।शोषण शुष्यत्यनेन वा शोषः ।शोषणे यथा-शफरी ह्रदशोषविह्वला प्रथमा वृष्टिरिवान्वकम्पत ।यक्ष्मणि क्षयरोगे यथा--अत्य सुरतश्लेषः शोषदोषाय कामिनाम् ।अथ सान्ताः ।अचिर्मयूख शिखयोः ।अर्यतेऽनयाचिः ।“रुचि" (उ० ९८९) इति इस् ।स्वीक्लीबः ।मयूखे यथा-प्रशमादर्चिषामेतदनुदगीर्ण मुरा बुधम् ।शिखा ज्वाला तत्र यथा - शृणु येन स कर्मणा गतः शलभत्वं हर लोचनार्चिषाम् ।अदोऽत्र च परत्र च ।अद्यते दृशा मनसा च तदित्यदः ।“अदेरन्ध च वा" (उ० ९६३) इति अस् ।वाच्यलिङ्गः ।अत्र एतदर्थे यथा-चपलाजनं प्रति न चोद्यमदः परत्र ।परस्मिन् विप्रकृष्टेऽर्थे यथा-इदमपचितं ध्वान्तं दूराददः प्रविजृम्भते सपदि कनकक्षोदव्यूहप्रवाहनिभं नभः ।अत्रेदमिति सन्निकृष्टं ध्वान्तं परामृश्य तदपेक्षया विप्रकट नभसि वर्तते ।आमुष्मिकार्थसंसिद्ध्यै बद्धकक्षा हि साधवः ।इत्यादौ सन्निकृष्टेह लोकापेक्षया विप्रकृष्टे परलोकेऽपि परत्र द्वारेण वर्तते ।अनुपदेशेऽपि ।तथा च-अनुग्रहानुपदेशेऽन्तरदः ॥ ५ ॥इत्युक्तम् ॥ ५६१ ॥
2.561 · p. 60
वियोगिनीtwo metres in one verse
आग: स्यादेनोवदवे मन्तौ ।स्कन्धे विभागे स्यादसिः खड्गे नदीभिदि ।अर्चि ।~(३२०) अनेकार्थसंग्रहः सटोकःउरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ।अवष्टम्भे बले धातुतेजस्यौकस्तु समनि ॥ ५६३ ॥
2.563 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 स (wrong syllable)
अगत्यनेन आगः ।वस्त्यगिभ्यां णित् (उ० ९७०) इत्यस् ।एति एनः ।अर्तीणभ्यां नस् (उ० ९७९) एनोवदिति आगः शब्द: एन: शब्दश्वेत्यर्थः ।द्वावपि क्लीबे ।अधे पापे यथा अभ्यर्णमागस्कृतमस्पृशद्भिः ।अह्नायाह्नामिनोसोव्यपनयतुतरामेन सामासनानि ।मन्तौ अपराधे यथा-निशान्तनारीपरिधानधूनन स्फुटागसाप्यूरुषलोलचक्षुषः ।एनांसि मिथ्येव निवेद्य नीतः ।स वैमनस्यपि शुनैः प्रभुनः ।आशीहितैषणे ।उरगस्य च दंष्ट्रायाम् ।आशासनमाशीः ।आशंसति हिनस्ति वा ।पृषोदरा दित्वात ।स्त्रियाम ।हितैषणे हिताशंसायां यथा-अमोधा: प्रतिगृह्णन्तावानुपदमाशिषः ।उरगदंष्ट्रायां यथा-आशीस्तालुगता दंष्ट्रा यया विद्धो न जीवति ।आशीविष इत्यत्र पृषोदरादित्वात् सलोपः ।आशिशब्दाद्याम् ।आशीति ईकारान्त इत्यन्ये ।उषः संध्याप्रभातयोः ।उषति उषः ।“मिथि रज्युषि" (उ० ९७१) इति किदस् ।संध्यायां स्त्रीक्लीबः ।प्रभाते क्लीबः संध्यायां यथा-उपसि यासि न कान्तगृहं यदि ।प्रभाते यथा उषसि सर इव प्रफुल्लपद्मम् ॥ ५६२ ॥
2.562 · p. 60
upajati mixedmetre not read in every line
उरो वासि मुख्ये स्यात् ।अर्यते उरः ।"अर्तेरुराशो च" (उ० ९६७) इत्यस् ।क्लीबे वक्षासि यथा-उरसि निहितस्तारो हारः कृता जघने घने ।मुख्ये प्रधाने यथा-तान् सर्वान् वरिवस्यति त्रिभुवने मोरसान्येव ते ।अत्र हि मानामुरांसि मोरसानि ।"उरसोऽग्रे” ७ । ३ ॥ ११४ ॥इति समासान्तः ।ओजो दीप्ति प्रकाशयोः ।अवष्टम्भे वले धातुतेजसि ।ओषति ओजः ।"उषेच"द्वितीयः काण्डः(३२१)ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः ।पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥ ५६४ ॥
2.564 · p. 60
metre not recognised
बुद्धौ विकलवाचि स्यात्गुत्सः स्तम्बगुलुञ्छयोः ।हारभेदे ग्रन्थिपणे गोसो बोलविभातयोः ॥ ५६५ ॥
2.565 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्र (wrong syllable)
(उ० ९५९) इत्यस् ।पञ्चस्वर्थेषु क्लीबे दीप्तौ कान्तौ यथा-रूपं तदोजस्वितदेववीर्यम् ।प्रकाश आलोकः ।तत्र बले च यथा अधितिष्ठति विश्वमोजसा स विवस्वानिव मेदिनीपतिः ।अवष्टम्भे यथा-रूद्रौजसा तु प्रहृतं त्वयास्याम् ।धातूनां रसादीनां तेजस्तत्र यथा-रोगार्ता हि निरोजसः ।ओकस्तु सद्मनि ।उच्यत्योकः ।"उच्यञ्चे: कच" (उ० ९६५) इति अस् ।क्लीबे यथा-तपस्विनः स्थाणुवनौकसस्तामाकालिकों वीक्ष्य मधु प्रवृत्तिम् ॥ ५६३ ॥
2.563 · p. 60
वियोगिनीmetre not read in every line
ओकास्त्वाश्रयमात्रे स्यात् ।आश्रयमाने वर्तमान ओकः शब्दः पुंक्लीबः ।तत्र यथा-निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।कंसस्तैजसमानयोः ।पानपात्रे दैत्यभेदे ।काम्यते कामयते वा कंसः ।“मावा वदि" (उ० ५६४) इति सः ।दैत्यभेदे पुंसि ।अन्यत्र पुंक्लीबः ।तैजसं कांस्यधातुः ।तत्र यथा-कसेषु हंसः परमो न भुङ्क्ते ।मानं हिरण्यमानविशेषः ।पानपात्रे यथा-पीयूषकंसस्त्रिदिवोकसां शशी ।दैत्यभेदे यथा-करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् ।कासूः शक्त्यायुधे रुजि ।बुद्धौ विकलवाचि स्यात् ।कसति कासूः ।“कसिपद्यादिभ्यो णित्" (उ० ८३५) इति ऊः ।चतुर्ष अर्थेषु ।विकलवाचि वाच्य लिङ्गः ।अन्यत्र स्त्रियाम् ।शक्तिनाम्नि आयुधे यथा-कासूभिरेवाशु रिपूनिराशुः ।रुक् रोगभेदः ॥ ५६४ ॥
2.564 · p. 60
metre not recognised
बुद्धौ यथा-कासूः कस्यापि(३२२)अनेकार्थसंग्रहः सटीकःيع ني بيبيابيه يه مياه -ني--Aurunniumचास इक्षुपक्षिभेदोश्छन्दः पद्येच्छयोः श्रुतौ ।ज्यायान् वृद्ध प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ॥ ५६६ ॥
2.566 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: Aurunniumnearly अनुष्टुप्: pāda 1, syllable 4 क्षु (wrong syllable)
कीदृशी ।विकलवाक् वाग्विकल: ।विकलावागित्यन्ये ।गुत्सः स्तम्बगुलुञ्छयोः ।हारभेदे अन्थिपणे ।गुध्यते गुत्सः ।“गुधि गृधेस्त च" (उ० ५६८) इति कित् सः ।चतुर्ष अर्थेषु ।स्तम्बे गुलुञ्छे च यथा-वत्सो जिघत्सति बलादपि शालिगुत्सम् ।हारभेदो द्वात्रिचल्लताहारः ।ग्रन्थिपणं सुगन्धितृणविशेषः ।गोसो बोलविभातयोः ।गांस्यति गोसः ।बोलो गन्धरसः ।विभाते यथा-गोसेनासेविता विद्या न भुक्तं मध्यवासरे ॥ ५६५ ॥
2.565 · p. 60
metre not recognised
चास इक्षुपक्षिभेदोः ।चष् हिंसायाम् ।चष्यते चासः ।घनि पृषोदरादित्वात् सत्वम् ।द्वयोर्यथा - दृष्टश्चासः शुभावासः ।छन्दः पद्येच्छयोः श्रुतौं ।छादयति छन्दः ।“छदि बहिन्यां छन्दोधौ च" (उ० ९५४) इत्यस् ।क्लीबे ।पद्यं गायत्र्यादि बन्धः ।तत्र यथा-इहच्छन्दो मात्रश्रुतिरचितदुःशिक्षितधियः ।इच्छायां यथा-मूर्ख छन्दोऽनुवृत्या च ।इच्छायामकारान्तोऽपि ।श्रुतौ वेदे यथा - छान्दसाश्चर्चयन्ति यत् ।ज्यायान् वृद्ध प्रशस्ये च ।अतिशयेन वृद्धः प्रशस्यो वा ज्यायान् ।"गुणाङ्गाद' ७ । ३ ॥ ९ ॥इति ईयसौ ज्यायानिति साधुः ।वाच्यलिङ्गः ।वृद्धे यथा-ज्यायान् दाशरथिर्बभञ्ज रहितज्याया समैशं धनुः ।प्रशस्ये यथा-ज्यायांसमनयोविद्याद्यस्य स्याच्छ्रोत्रियः पिता ।ज्योतिर्वह्निदिनेशयोः ।प्रकाशे हशि नक्षत्रे ।द्योतते ज्योतिः ।"धुतेरादेश्च जः" (उ० ९९१) इति इस् ।पञ्चस्वर्थेषु क्लीबे ।गौडस्तु भद्योतदृष्टिषु क्लीबे भास्करवह्नयोर्नेत्याह ।वह्रौं यथा-धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः ।दिनेशेद्वितीय: काण्डः(३२३)wamnav-प्रकाशे दृशि नक्षत्रे तपः कृच्छादिकर्मणि ।धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥ ५६७ ॥
2.567 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: wamnav
तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले ।त्रासो भये मणिदोषे तेजस्त्विरेतसोर्बले ॥ ५६८ ॥
2.568 · p. 60
metre not recognised
यथा-ज्योति?तितविष्टपं विजयते राजीव संजीवकम् ॥ ५६६ ॥
2.566 · p. 60
प्रकाशस्तेजः ।तत्र यथा-कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने ।दृगत्र कनीनिका मध्यम यन्मयः ।तारानेत्र त्रिभागः स्याज्ज्योतिस्तत्यं च मांशकम् ।नक्षत्रे यथा-ज्योतिषां प्रति बिम्बानि प्राप्नुवन्त्युपहारताम् ।तपः कृच्छादि कर्मणि ।धर्मे लोकप्रभेदे च ।तप्यते तपः ।“अस्” (उ० ९५२) इति अस ।क्लीबे ।कृच्छ्रे सान्तपनम् आदिशब्दात् चांद्रायणादिव्रतम् ।तत्र यथा - तपः क्व वत्से क्व च तावकं वपुः ।धर्म यथा-विनाप्यस्मदलंभूष्णरिज्यायै तपसः सुतः ।लोकप्रभेदो जनो लोकाद्द्वितीयः ।तपाः शिशिरमाघयोः ।शिशिरे पुंसि ।माघे पुक्लीबः ।शिशिरे यथा-ग्रीष्मे पञ्चाग्नितपसा तपस्य म्भोऽन्तरश्रिता ।त्वया सायुज्यमाप्येत पार्वत्यत्र निदर्शनम् ।माधे यथा - महतामपि चेतांसि लोभो मोहश्च नाशयेत् ।तपास्तपस्यश्च यथा-सरसां कमलान्यहो ॥ ५६७ ॥
2.567 · p. 60
अनुष्टुप्metre not read in every line
तमो राही गुणे पापे ध्वान्ते ।ताम्यन्ति अनेन तमः ।“अस्” (उ० ९५२) इति अस् ।राहौ पुंक्लीबः ।अन्यत्र क्लीबे ।राहौ यथा-जनसे तमसेवेन्दुः ।गुणे यथा-रजोजुषे जन्मनि सत्ववृद्धये स्थिती प्रजानां प्रलये तमःस्पृशे ।पापे यथा--कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसा सरयूतटाः ।ध्वान्ते यथा-क्षपातमस्काण्डमलीमसं नभः ।शोकेऽपि मंखः ।यथा-अथान्धकारमाशानां शशामा(३२४)अनेकार्थसंग्रहः सटोकःनवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः ।वृषले दानपात्रे च दासी झिण्टयपि चेद्यपि ॥ ५६९ ॥
2.569 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 ण्टय (syllable split)
श्यानसन्तति ।न तु खण्डेन्दुचूडस्य प्रियाविरहज तमः ।तरो जवे बले ।तरत्यनेन तर ।“अस्" (उ० ९५२) इति अस् ।क्लीबे द्वयोर्यथा-कैलासनाथं तरसा जिगीषुः ।त्रासो भये मणिदोषे ।सनं त्रस्यत्यस्माद्वा त्रासः ।भये यथा चक्षुर्यदीयमपहत्य जनस्य चेतस्त्रासादिव श्रवणकन्दरदुर्गमेति ।मणिदोषे यथा-अत्रासामणयो धार्याः ।तेजस्विट्रेतसोर्बले ।नवनीते प्रभावेऽग्नौ ।तेजयति तेजः ।“अस्' (उ० ९५२) इति अस् ।क्लीबे ।विषि दीप्तौ यथा-तत्तेजः प्रथमोद्भवं भ्रमकरं शौरं चिरं पातु वः ।रेतसि शुक्रे यथा-अत्यादित्यं हुतवहमुखे संभृतं तद्वितेजः ।बले यथा-तेजसां हिन वयः समी क्ष्यते ॥ ५६८ ॥
2.568 · p. 60
वसन्ततिलकाmetre not read in every line
नवनीते यथा-धेनुः स्तोकपयस्काऽपि सतेजस्का प्रशस्यते ।प्रभावे प्रतापे यथा-इतस्ततो रूढतृणाङ्करेषु तेजो विषां रिपुमन्दिरेषु ।अग्नौ यथा-तेजसः सपदि राशिरुच्छ्रितः प्रादुरास किल वाहिनीमुखे ।असहनत्वेऽपि मंखः ।यद्भरतः अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ।तत्र यथा-तेजः क्षमावानकान्तः कालज्ञस्य महीपतेः ।दासो धीवरभृत्ययोः ।वृषले दानपात्रे च ।दास्यतेऽस्मै दासः ।धीवरे यथा-अपिपोतकृतावासदसैराशा विजज्ञिरे ।भृत्ये यथा-अद्यप्रभृत्यनवताङ्गि तवास्मि दास: ।वृषले शूद्रे यथा-कि रे दास तपस्यसि ।दानपात्रे यथा - ददौ दासाय वासांसि नृवर्यः सूर्यपर्वणि ।दासी झिण्ट्यपि चेद्यपि (चेट्यपि) गौरादित्वाद्डीः ।झिण्टी वृक्षभेदः ।चेद्यां यथा-निःशेषागारद्वितीयः काण्डः(३२५)धनुः शरासने राशौ पियालद्रौ धनुर्धरे ।नभो व्योम्नि नभा घ्राणे विसतन्तौ पतद्ग्रहे ॥ ५७० ॥
2.570 · p. 60
अनुष्टुप्metre not read in every line
प्रावृषि श्रावणे नासा घोणा द्वारोव॑दारुणोः ।पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥ ५७१ ॥
2.571 · p. 60
अनुष्टुप्
कर्मश्रमशिथिलतनुः कुम्भदासी तथाऽत्र ॥ ५६९ ॥
2.569 · p. 60
धनुः शरासने राशौ पियालद्रौ धनुर्धरे ।धनति धनुः ।"रुत्ति” (उ० ९९७) इति उस् ।शरासने पुंक्लीबः ।अन्यत्र पुसि ।शरासने राशी च यथा-धनुस्त्यागं करोत्यस्मिन्नर्कवक्तासरोत्सवे ।पियालद्रुः राजादनः ।धनुर्धरे यथा-धनुर्धनुष्पाणिरयं दुरापः ।नभो व्योम्नि ।नभ्यति नभः ।“अस्” (उ० ९५२) इति अस् ।क्लीबे यथा-ऋते रवेः क्षालयितुं क्षमेत कः ।क्षपातमस्काण्ड मलीमसं नभः ।नभा घ्राणे विसतन्तौ पतद्ग्रहे ।प्रावृषि श्रावणे ।पञ्चस्वर्थेषु पुंसि ।घ्राणं नासिका ।विसतन्तुमृणाल सूत्रम् ।पतद्ग्रहः पालम् ॥ ५७० ॥
2.570 · p. 60
अनुष्टुप्metre not read in every line
प्रावृषि यथा-प्रत्यासन्ने नभसि दयिता जीविता लम्बनार्थी (र्थ) ।श्रावणे यथा-अहह पान्थ न जीवति ते प्रिया ।नभसि मासि न यासि गृहं यदि ।नासा घोणा द्वारोर्द्धदारुणोः ।णासृट् शब्दे नासते नासा ।घोणा नासिका तत्र यथा-नासा विरोकपक्नोल्ललितं तनीयो रोमा ञ्चतामिव रजः पृथिव्याः ।द्वारशाखाया ऊद्या उपरि दारु द्वारोजदारु ।स्तम्भादीनामुपरिस्थं दारु इत्यन्ये ।तत्र यथा नासा निवेशित सिता सित रक्त पीतबिम्बा विशन्ति बसती विहितातिथेयाः ।पयः क्षीरे च नीरे च ।पीयते पयः ।पाहाभ्यां पयह्यौ च (उ० ९५३) इति अस् ।क्लीबे ।द्वयोर्यथा-यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातु: पयसां(३२६)अनेकार्थसंग्रह सटीकः-बहिः कुशेऽग्नौ भासस्तु भासि गृध्रशकुन्तयोः ।महस्तेजस्युत्सवे च मिसिर्मास्यजमोदयोः ॥ ५७२ ॥
2.572 · p. 60
वसन्ततिलकाtwo metres in one verse
शतपुष्पामधुर्योश्च मत्सा वासी सुमत्तिका ।रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ॥ ५७३ ॥
2.573 · p. 60
अनुष्टुप्
रसज्ञः ।प्रसूरश्वा जनन्यपि ।प्रसूते प्रसूः ।स्त्रियाम ।अश्वेति सगर्भा वडवा तस्यां यथा-न प्रसूर्वाहिनी या स्यात् ।जनन्यां यथा-भिन्नप्रसूषु पुत्रेषु तथैकपितृकेषु च ॥ ५७१ ॥
2.571 · p. 60
metre not recognised
बहिः कुशेऽग्नौ ।बृंहति बहिः ।यहि हेर्नलुक् च (उ० ९९०) इति इस् ।कुशे पुंक्लीबः ।अग्नौ पुंसि ।कुशे दर्भे यथा-नियमविधिजलानां बहिरा चोपनेत्री ।अग्नौ यथा-बहिर्मुखास्तहि लिहन्तु हव्यम् ।अत्र हि बहिरग्निर्मुखं येषां ते बहिर्मुखा देवाः ।भासस्तु भासि गृद्धशकुन्तयोः ।भासते भासः ।भासि दीप्तौ यथा-भासर्भासितदिग्मुखोऽयमुदितो देवः स्वयं भास्करः ।गृध्रो दूरदृक् ।शकुन्तः पक्षिभेदः ।महस्तेजस्युत्सवे च ।मह्यते महः ।"अस्" (उ० ९५२) इति अस् ।क्लीबे ।तेजसि यथा अस्मिश्चन्द्रमसि प्रसन्नमहसि ।उत्सवे यथा-सुसितवसनालं कारायां कदाचन कौमुदी महसि सुदृशि स्वैरं यान्त्यागतोऽस्त मभूद्विधुः ।मिसिर्मास्यजमोदयोः ।शतपुष्पामधुर्योश्च ।मिश मशरोषे च ।मिश्यते मिसिः ।“नाम्युपान्त्य” (उ० ६०९) इति किदिः ।पृषोदरादित्वाद्दन्त्यः सकारः ।स्त्रियाम् ।चतस्रो ऽप्योषधयः ॥ ५७२ ॥
2.572 · p. 60
metre not recognised
मृत्सा वासो सुसृत्तिका ।मृदस्यति मृत्सा प्रशस्तामृदेव वा ।“सस्नौ प्रशस्ते' ७ ।२ ।१७२ इति स्वार्थे सः ।बासी तक्षोपकरणम् ।सुमृत्तिकायां यथा-निःशल्ये संस्कृते तत्रद्वितीयः काण्डः(३२७) anxnmarnamammarmarrrrrचोले रागे देहधातौ तिक्तादौ पारदेऽपि च ।रसा तु रसनापाठासल्लकीक्षितिकङ्गषु ॥ ५७४ ॥
2.574 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: anxnmarnamammarmarrrrr
रहो गुह्य रते तत्वे रजो रेणुपरागयोः ।स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥ ५७५ ॥
2.575 · p. 60
अनुष्टुप्
मृत्सारचितवेदिकः ।रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ।चोले रागे देहधातौ तिक्तादौ पारदेऽपि च ।रसनं रस्यते वा रस: ।एकादशस्वर्थेषु ।वीर्य शङ्गारादौ विषे रागे तिक्तादौ च पुंक्लीबः ।शेषेषु पुंसि ।स्वादे यथा-स्कन्दस्य मातुः पयसां रसज्ञः ।जले यथा-सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।वीर्ये यथा-यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।शृङ्गारादौ यथा-इत्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये ।विषे यथा - तीक्ष्णरसदान् भिक्षुकाञ्च रिपौ प्रयुजीत ।द्रवे यथा-चातुर्जातकसंस्कृतोऽनुशनकैरिक्षो रसः पीयताम् ॥ ५७३ ॥
2.573 · p. 60
अनुष्टुप्metre not read in every line
चोलो गन्धरसस्तत्र सत्यभामायां भामाशब्दवदेकदेशेन रसशब्दः ।रागोऽनुरक्तिस्तत्र यथा- रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ।देहधातौ यथा-रसासृक्मासमेदोऽस्थि मज्जाशुक्राणि धातवः ।तिक्तादयस्तिक्तस्वाद्वम्ललवणोष्णकषायाः ।तत्र यथा-षट्रसाः किल वैद्येषु भरतेऽष्टौ नवापि वा ।पारदे यथा-रसोपविद्धा इव लोहधातवः ।चर्वणेऽपि मंखः ।यथा-आनन्दसान्द्रो रसः ।रसा तु रसनापाठासल्लकी क्षिति कङ्गषु ।पञ्चस्वर्थेषु स्त्रियाम् ।रसना जिह्वा तत्र यथा-रसया रसयन्त्वमी ।पाठा ओषधिभेदः सल्लको वृक्षभेदः ।क्षितौ पृथिव्यां यथा - फणावतस्त्रासयितुं रसाया मूलं विवक्षन्नि व पन्नगारिः ।कङ्गर्धान्यभेदः ॥ ५७४ ॥
2.574 · p. 60
वंशस्थम्two metres in one verse
रहो गुह्ये रते तत्वे ।रहति(३२८)अनेकार्थसंग्रहः सटीकःभाषा शृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः ।वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि ॥ ५७६ ॥
2.576 · p. 60
अनुष्टुप्metre not read in every line
रहः ।अस् क्लीबे ।गुह्यमत्रकान्तम् ।तत्र यथा-रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।रते यथा-एवमालि निगृहीत साध्वसं शंकरो रहसि सेव्यतामिति ।तत्त्वे यथा-को वा शंसति शिष्येभ्यः स्वगुरोविरहे रहः ।अयमव्ययमपि ।रजो रेणुपरागयोः ।स्त्रीपुष्पे गुणभेदे च ।रञ्जति रजः ।"मिथिरज्युषि" (उ० ९७१) इति किदस् ।क्लीबे ।रेणौ यथा-रजोभिः स्यन्दनोद्धृतरस्पृष्टालकवेष्टनौ ।पराग: पुष्परेणुस्तत्र यथा-भूरेणु दिग्वान्नवपारिजातमालारजोवासितबाहुमध्याः ।स्त्रीपुष्पे यथा-अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ।गुणभेदे यथा-रजो जुषे जन्मनि ।रज इत्यकारान्तोऽपि ।रासः क्रीडासु गोदुहाम् ।भाषाशृङ्खलके ।रासृट् शब्दे रासनं रासः ।गोदुहां गोपालानां क्रीडा ।यदाह-अनेकनर्तकीयोज्यं चित्रता लतयान्वितम् ।आचतुः षष्ठि युगलाद्रासकं मसृणोद्वते ।तत्र यथा गोपीरासकवासितकहृदयो गोष्ठे हरिः क्रीडति ॥ ५७५ ॥
2.575 · p. 60
अनुष्टुप्metre not read in every line
भाषाणां मागध्यादीनामेकान्तरितो न्यासः शृङ्खला कारत्वाच्शृङ्खलकम् ।वत्सा उरस्तुग्वर्षतर्णकाः ।वदति उद्यते वा वत्सः ।"मावावद्यमि" (उ० ५६४) इति सः ।उरसि पुंक्लीबः ।अन्यत्र पुंसि ।उरसि यथा - श्रीवत्सः कच्छवासी स भवतु भवतां खेदविच्छेदहेतुः ।अत्र हि श्रीवत्से वक्षसि यस्य स श्रीवत्सो हरिः ।तुक् अपत्यम् ।तत्र यथा-वत्सेन रामभद्रेण ममादेशं विधित्सता ।तुगित्युपलक्षणम् ।तेन लघुभ्रात्रादावपि ।यथा-मद्दोर्दण्डभराकान्तं वत्सलक्ष्मण लक्षयः ।वर्षे वत्सरे यथा--द्वितोय: काण्डः(३२९) गूथे रूपे वसुस्त्वग्नौ देवभेदे नपे रूचि ।योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥ ५७७ ॥
2.577 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 रू (wrong syllable)
कालो हि वत्साद्यतिवाहनेन प्रश्रावितो दिव्यरसं प्रसूते ।तर्णके यथा - यं सर्वशैलाः परिकल्प्य वत्सम् वयस्तारुण्य बाल्यादौ खगे ।वेत्ति वयः ।“अस्” (उ० ९५२) इति अस् ।क्लीबे ।तारुण्ये यथा-गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ।बाल्यादौ यथा-आद्ये वयसि नाधीतं द्वितीये नाजितं धनम् ।पक्षिणि यथा-रुतानि शृण्वन् वयसांगणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ।वर्चस्तु तेजसि ।गूथे रूपे ।वर्चते वर्चः ।“अस्" (उ० ९५२) इत्यम् ।तेजसि यथा-वर्चासि चर्चयतु सोऽचित पादपद्मः ।॥ ५७६ ॥
2.576 · p. 60
metre not recognised
गूथे यथा-रसासृग्मांसभेदोऽस्थिमज्जाशुक्रां वर्चसाम् ।रूपे यथा-यन्मदीयाः प्रजास्तत्र हेतुस्त्वब्रह्मवर्चसाम् ।वसुस्त्वग्नौ देवभेदे नृपे रुचि(रुचौ) ।योक्त्रे शुष्के ।वसन्त्यत्र वसुः ।"भृ मृत त्सरि" (उ० ७१६) इति उः ।पुंसि ।शुष्के पुंस्यजयः ।क्लीबे गौडः ।अग्नौ देवभेदे च यथा वसूपमातस्य वसूनि मेदिनी ।नृपे राजविशेषे यथा-असत्यवचनात् प्राप नरकं वसुभूपतिः ।रुचि दीप्तौ यथा- निरकासयद्र विमपेतवसुं वियदालयादपरदिग्गणिका ।योक्त्रे यथा-व्यवस्था हरितां कुर्वन् वसुभिविततैः शुभाम् ।प्रातस्तुनोऽरुणो देवो भास्वान् पातु स सारथिः ।शुष्कम् आस्पानम् ।देवमात्रेऽपि मंखः ।यथा--रक्षाहेतोर्नव शशिभृता वासवीनां चमूनाम् ।अत्र हि वासवस्येमा इति ईयप्राप्तेरयं शब्दोऽनुचितः स्यादिति वसूनां देवानामिमा इति व्याख्येयम् ।वसु स्वादौ रत्ने वृद्ध्यौषधे धने ।स्वादौ वाच्यलिङ्गः ।रत्नादिषु क्लीबे ।स्वादु(३३०)अनेकार्थसंग्रहः सटीकःवपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः ।वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥ ५७८ ॥
2.578 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
विद्वान ज्ञात्मविदोः प्राज्ञे वेधा धातविष्णषु ।शंसा वचसि वाञ्छायां शिरो मुद्धप्रधानयोः ॥ ५७९ ॥
2.579 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
मधुरम् ।रत्ने यथा--मन्दभाग्या न पश्यन्ति रत्नगर्भावसुन्ध राम् ।अत्र हि वसूनि रत्नानि धारयति वसुन्धरा ।वृद्धिनाम औषधं वृद्धयौषधम् ।धने यथा-सुजसमाहितदिग्वसुना कृताः ।॥ ५७७ ॥
2.577 · p. 60
अनुष्टुप्metre not read in every line
वपुः शस्ता कृतौ देहे ।उप्यते वपुः "रुधर्ति" (उ० ९९७) पति उस् ।क्लीबे ।शस्ताकृतौ शुभे आकारे यथा-वपुरेव तवाचष्टे भगवन् वीतरागताम् ।देहे यथा-बभूव तस्याश्चतुरश्रशोभि व विभक्तं नवयौवनेन ।व्यासो मुनिप्रप ञ्चयोः ।व्यासर्यात व्यस्यते वा व्यासः ।मुनौ यथा-व्यासः क्षमाभूतां श्रेष्ठो वन्द्यः स हिमवानिव ।प्रपञ्चे यथा प्रौढिाससमासौ च वासो वेश्मन्यवस्थाने ।वसन्त्यत्र वसनं वा वासः ।वेश्मनि यथा-दृश्यते कतिपयैः किल वास स्तादृशमखिलमही नगरं तत् ।अवस्थाने यथा-एको वासः पत्तने वा वने वा ।रतगृहेऽपि मंखः ।यथा-शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्चनैः ।वासा स्यादाटरूषके ।वाति वासा ।"मावाबदि" (उ० ५६४) इति सः ।स्त्रियाम् ।आटरूषक औषधविशेषः ॥ ५७८ ॥
2.578 · p. 60
metre not recognisedimpossible sign sequence: यथा प्रौढिाससमासौ
विद्वान ज्ञात्मविदोः प्राज्ञे ।वेत्ति विद्वान् ।"वा वेत्तेः क्वसुः" ५२ ॥ ३२ ॥
2.32 · p. 60
metre not recognised
इति क्वसुः ।वाच्यलिङ्गः ।जानाति ज्ञो ज्ञाता ।तत्र यथा-महिम्नः पारन्ते परमविदुषः ।आत्मविदि यथा-विद्वान् दारसखः परं परिणतो नीवारमुष्टिं पचः ।प्राज्ञे यथा-विद्वान् सर्वत्र पूज्यते ।वेधा धातृविष्णुषु ।द्वितीयः काण्डः(३३१)सेनाप्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः ।सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५८० ॥
2.580 · p. 60
अनुष्टुप्metre not read in every line
विधति वेधाः ।“अस्" (उ० ९५२) इति अस् ।पुंसि ।धाता विधाता तत्र यथा-सत्यं सुन्दरि वेधस्त्रिजगतीसारं त्वमेकाकृतिः ।ज्ञो विद्वान् तत्र यथा-वराया वाचो यः प्रथित इह वेधाः कविवृषा ।विष्णौ यथा - शेषशय्यासुखासीनं वेधसं ददृशुः सुराः ।शंसा वचसि वाञ्छायाम् ।शंसनं शंसा ।"शंसि प्रत्ययात्" ५ ।३ ॥ १०५ ॥इति अः ।वचसि उक्तो यथा – अनन्तशक्तस्तव देव सा स्यादशक्तिजानाम सहस्रशंसा ।वाञ्छायां यथा-शंसा सहस्रसङ्कीर्णे महेश मम मानसे ।शिरो मूर्द्धप्रधानयोः ।सेनाऽग्रभागे ।शीर्यते शृणोति वा शिरः ।"मिथि रञ्जि" (उ० ९७१) इति किदस् ।क्लीबे ।मूर्द्धनि यथा-बभार दुःखेन भृशानतं शिरः ।प्रधाने यथा कारस्कर शिरोभूतशूतः पूतदिगम्बरः ॥ ५७९ ॥
2.579 · p. 60
अनुष्टुप्metre not read in every line
सेनाया अग्रभागो ऽग्रप्रदेशविशेषः ।तत्र यथा-आक्रम्याजेरग्निमस्कन्धमुच्चोरास्था याथोवीतशत शिरश्च ।हेला लोलावम॑गत्वातिमर्त्य द्यामारोहन् मानभाज: सुखेन ।श्रेयस्तु मङ्गले धर्मशस्तयोः ।अतिशयेन प्रशस्यं श्रेयः ।'गुणाङ्गात्' । ७ ।३ ॥ ९ ॥इति ईयसौ ।प्रशस्य श्रः । ७ ।४ ॥ ३४ ॥इति श्रादेशः ।शस्ते प्रशस्ते वाच्यलिङ्गः ।अन्यत्र क्लीबे ।मङ्गले यथा-श्रेयांसि वो दिशतु वृत्तमृगेन्द्र जायः ।धर्मे पुण्ये यथा-कथाऽपि खलु पापानामलमश्रेयसे यतः ।शस्ते यथा-मन्यसेऽरिवधः श्रेयान् प्रीतये नाकिना मिति ।सहो बले ज्योतिषि च ।सहते सहः ।“अस्" (उ० ९५२) इति अस् ।क्लीबे ।बले यथा-कस्ते सहासि(३३२)अनेकार्थसंग्रहः सटोकःस्रोत: प्रवाहेन्द्रिययोहंसोऽर्के मत्सरे च्युते ।खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ॥ ५८१ ॥
2.581 · p. 60
metre not recognised
सहते सह तेन तरस्विना ।युक्तस्यैकेनेत्यादि ।ज्योतिषि दीप्तौ यथा-क: सहेत रवेः सहः ।सहा हेमन्तमासयोः ।हेमन्त ऋतौ मासे मार्गशीर्षे च यथा-न सहसा सहसाकृतवेपथुः ॥ ५८० ॥
2.580 · p. 60
metre not recognised
स्रोतः प्रवाहेन्द्रिययोः ।स्रवति स्रोतः ।“जुरीभ्यां तस्" (उ० ९७८) इति तस् ।क्लीबे ।प्रवाहे यथा-संसर्यन्त्या सपदि भवतः स्रोतसिच्छायया सा स्यादस्थोपगतयमुनासङ्गमे नाभिरामा ।इन्द्रिये इन्द्रियद्वारे यथा-स्रोतसो मलिनीभावाद्व्याधिदेहे प्रवर्तते ।करिकरेऽपि मंखः ।यथा-स्रोतोरन्ध्रध्वनि तसुभगं दन्तिभिः पोयमानः ।नदीमात्रेऽपि यथा-स्रोतोमा भुवि परिणतां रन्तिदेवस्य कीर्तिम् ।हंसोऽर्के मत्सरे च्युते ।खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ।निर्लोभनृपतौ प्राण वाते श्रेष्ठेऽग्रतः स्थितः ।हन्ति हंसः ।“मा वा बदि' (उ० ५६४) इति सः ।एकादशस्वर्थेषु ।अर्के यथा-हंसोदये हसति पङ्कजराजिरेषा ।मत्सरो द्वेषः ।तत्र यथा-मुनौ विहंसे सरसीव शुष्के ।अच्युते विष्णौ यथा - लक्ष्मीसूनतटोत्तंसं हंसं कंसनिसूदनम् ।खगाश्वयोगिमन्त्रादिभेदेष्विति भेदशब्दः प्रत्येकमभिसम्बध्यते ।तत्र खगभेदे यथा-स्वनति सलीलं हंसः पुच्छायासेन वायसोऽप्युच्चैः ।अश्वभेदे यथा-तं हंसमारुह्य स राजहंसः ।योगिभेदे यथा-श्रेष्ठः परमहंसानां सप्तर्षीणामिवाङ्-ि गराः ।मन्त्रभेदे यथा--विन्यस्येद्विधिना शिष्ये हंसं वंशसमुद्भवे ।आदिशब्दाद्ध्यानादिग्रहः ।परमात्मनि यथा-अहं स इति हंसो यंद्वितीयः काण्डःuAAAनिर्लोभनपतौ प्राणवाते श्रेष्ठेऽग्रतः स्थितः ।हविः सपिषि होतव्ये हिंसा चौर्यादिके वधे ॥ ५८२ ॥
2.582 · p. 60
अनुष्टुप्metre not read in every lineimpossible sign sequence: ीणामिवाङ्-ि गराः Latin letters: uAAA
अहिः सर्प बत्रे वप्रे स्यादीहोद्यमवाञ्छयोः ।कुहूनष्टेन्दुदर्श स्यात्कुणिते कोकिलस्य च ॥ ५८३ ॥
2.583 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
भिन्नाभिन्नो विपश्चिताम् ॥ ५८१ ॥
2.581 · p. 60
निर्लोभनृपतौ यथा-सन्मानस वासरसः सततं पकनिलयतामाप्तः ।त्वं शुद्धपक्षपाती सत्यं क्षितिपाल हंसोऽसि ।प्राणवाते यथा-हंसश्चरति कायेऽस्मिन् पञ्चधा व्याप्य सर्वतः ।अग्रतः स्थित उत्तरपदस्थितः ।श्रेष्ठे यथा-कविहंससेव्यमानक्रमाम्बुजा जयति भारतीदेवी ।हविः सपिषि होतब्ये ।हूयते हविः ।“रुचि” (उ० ९८९) इति इस् ।क्लीबे ।सपिषि यथा-हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।होतव्यमात्रे यथा-विराजितं होतस्त्वया विधि वदग्निषु ।हिंसा चौर्यादिके वधे ।हिंसाहेतुत्वात् हिंसनं वा हिंसा ।चौर्य स्तेयम् आदिशब्दादसत्यादिपरिग्रहः ।तत्र यथा हिसा शून्यमयत्नलभ्यमशनम् ।वधः प्राणव्यपरोपणम् ।तत्र यथा हिंसया जायतेऽल्पायुः ॥ ५८२ ॥
2.582 · p. 60
अनुष्टुप्metre not read in every line
अथ हान्ता: ।अहिः सर्प वृत्रे वप्रे ।अंहते अहिः ।“अम्भि कुण्ठि" (उ० ६१४) इति इ: नलोपश्च ।सर्प स्त्रीपुंसः ।अन्यत्र पुंसि ।सर्प यथा-अहेरिव गणाद्भीत: सन्मानान्नर कादिव ।वृत्रे यथा-वृषेव सोऽन्यैरहितापकारी ।वप्रे केदारे यथा-गतं नीरमहेर्बहिः ।वप्रे प्राकारे इति मंखः ।स्यादीहोद्यमवाञ्छयो: ।ईहनम् ईहा ।उद्यमे यथा-उदेतुमत्य जन्नीहां राजसु द्वादशस्वपि ।वाञ्छायां यथा-धर्मार्थ यस्य वित्तहा तस्यानोहा गरीयसी ।पुल्लिङ्गोऽपि ।कुहूर्नष्टेन्दुदर्श स्यात् कुणिते कोकिलस्य च ।कुहणि विस्मापने ।कुयते कुहः ।AVAALAVANWAVAJAVANVAVALA(३३४) अनेकार्थसंग्रह सटीकःग्रहो ग्रहणनिबंन्धानुग्रहेषु रणोद्यमे ।उपरागे पूतनावादित्यादौ विधुन्तुदे ॥ ५८४ ॥
2.584 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: AVAALAVANWAVAJAVANVAVALAnearly अनुष्टुप्: pāda 1, syllable 5 रे (syllables merged)
ग्राहो आहे जलचरे गुहः स्कन्दे गुहा पुनः ।गह्वरे सिंहपुच्छ्यां च गृहा दारेषु सनि ॥ ५८५ ॥
2.585 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
"नृति शृधि" (उ० ८४४) इति किदः ।स्त्रियाम् ।नष्टेन्दुदर्शी नष्टचन्द्रा अमावास्या ।द्वयोर्यथा-यशः प्रालेयांशुर्दिशिदिशि जगद्देव भवतस्तथायं दुर्वारा किरति किरणश्रेणिमधुना ।यथासमयं (यथा सर्व यं) राकामयसमयमालोक्य भुवनं कुहूशब्दो जातः पिकनिकरकण्ठकशरणः ॥ ५८३ ॥
2.583 · p. 60
metre not recognised
ग्रहो ग्रहणनिबंन्धानुग्रहेषु रणोद्यमे ।उपरागे पूतनादावादित्यादौ विधुतुदे ।ग्रहणं गृह्यते गृह्णाति वा ग्रहः ।ग्रहणे यथा-तदपि न किल वालपल्लवाग्रग्रह परया विविदे विदग्धसंख्याः(संख्या) ।निर्बन्धे आसक्तो यथा कोऽयं ग्रहस्तव विवेकवतोऽपि शंपासंपातकातरतरे तरूणीरतादौ ।अनुग्रहे प्रसाद ग्रहशब्दः ।सत्यभामायां भामाशब्दवत् ।तत्र रणोद्यमे च यथा-त्वं देव कुर्याः समरे ग्रहं सदा ।उपरागे चन्द्रसूर्योपप्लवे यथा-विषुवद्ग्रहसंक्रान्तिचन्द्रसूर्यसमागमे ।विष्ट्यादिषु च योगेषु स्नानदानादि शस्यते ।पूतनादौ यथा-- सर्वज्वरहरो धूपो ग्रहाणां च विशेषतः ।आदित्यादौ यथा-- यात्यस्ताचलचुम्बिनीं परिणतिं देवो ग्रहग्रामणीः ।विधुंतुदे राही यथा-शोकग्रहग्रस्त इवाननेन्दुर्दुनोति नो देवि मनो नितान्तम् ॥ ५८४ ॥
2.584 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable); pāda 4, syllable 6 धु (wrong syllable)
ग्राहो ग्रहे जलचरे ।ग्रहणं ग्राहः ।बाहुलकाद्घञ् ।गृह्णाति वा ।"वा ज्वलादि" ५ ॥ ११६२ ॥इति णः ।ग्रहे यथा-- नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयं ग्राहनिषक्तबाहुम् ।जलचरे यथा-उद(प्र)ग्राहमुदन्वतो जलमतिकामति ।अवद्वितीयः काण्डः (३३५) प्रौहो निपुणतर्के स्याद्गजांहिपर्वणोरपि ।बर्हः पर्णे परिवारे कलापे बहु भूयसि ॥ ५८६ ॥
2.586 · p. 60
metre not recognised
हारेऽपि मंखः ।अवहारो मिथ्याकालक्षेपरूपः ।तत्र यथा जलबहुले बहुलेहावहितप्राणिप्रकारपरिकरिते ।ग्राहसहस्रर्दीर्घ संसाराब्धी क इव तीर्णः ।गुहः स्कन्दे ।गृहति गुहः ।"तुदादि विषि" (उ० ५) इति कित् यः ।स्कन्दः षण्मुखः ।तत्र यथा-गुहोपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाक रिष्यत् ।गुहा पुनः ।गह्वरे सिंहपुच्छ्यां च ।गह्वरे यथा-दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवा न्धकारम् ।सिंहपुच्छी ओषधिः ।गृहा दारेषु सद्मनि ।गृह्णन्ति गृहाः ।“गेहे ग्रहः" ५ ॥ ११५५ ॥इति कः ।उपचा राद्दारा गृहाः ।पुंक्लीबः ।पुंसि बहुवचनान्त एव ।दारेषु यथा-गृहा मुनीनामुटजाङ्गणेषु ।सद्मनि यथा - गृहानुपतुं प्रणयादभीप्सवो भवन्ति नापुण्यवतां मनीषिण: ॥ ५८५ ॥
2.585 · p. 60
metre not recognised
प्रौहो निपुणतर्के स्याद्गजाघ्रि (हि)पर्वणोरपि ।प्रौहणं प्रौहः ।प्रौद्यतेऽसाविति वा धज ।"प्रस्य षैष्य" ११२११४ ।औत्वम् ।निपूणतर्के यथा-प्रौहप्रौढिं न कुर्वते ।गजांहिर्गजचरणः ।तत्र यथा-आकुञ्चितप्रौहनिरूपितक्रमम् ।करेणुरारोहयते निपादिनम् ।पर्व उत्सवः ।अङ्गलिसन्धिर्वा ।बहः पर्णे परीवारे कलापे ।बहते बहः ।परीवारे पुंसि ।शेषयोः पुंक्लीबः ।पर्णे यथा-अ(आ)पाण्डुरं केतकबहमन्यः ।परीवारे यथा-दैवं चेत्प्र तिकूलं स्याद्बर्हस्तहि निरर्थकः ।कलापे यथा-यद्वायुरन्विष्टमृगैः किरातरासेव्यते भिन्नशिखण्डिबर्हः ।बहु भूयसि ।व्यादिकासु च संख्यासु ।बहति बहुः ।"मि वहि" (उ० ७२६) इति उः ।वाच्यलिङ्गः ।भूयसि यथा-किं वा बहु ब्रूमहे यत्सत्यंv...----avraniअनेकार्थसंग्रहः सटीक: ज्यादिकासु च संख्यासु महावुत्सवतेजसी ।मही भुवि नदीभेदे मोही मूर्छाविपर्ययौ ॥ ५८७ ॥
2.587 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: vLatin letters: avrani
लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च ।वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः ॥ ५८८ ॥
2.588 · p. 60
अनुष्टुप्
पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥ ५८६ ॥
2.586 · p. 60
त्र्यादिकासु संख्यासु यथा-बहुभिर्वसुधाभुक्ता राजभिः सगरादिभिः ।महावुत्सवतेजसी ।महति महः ।उत्सवे यथा-सीता स्वयंग्रहमहै: सुभगं भविष्णुः ।तेजसि यथा-ग्रहपतिमहवीची न्यञ्चिता शातमिश्रः ।महीभुवि नदीभेदे ।गौरादित्वाड्डीः ।भुवि यथा -- आसीना थपितामही तव मही ।नदीभेदे यथा-मही न हीयतेऽम्बोधेः ।मोही मूर्छाविपर्ययौ ।मोहन मोहः ।मूर्छायां यथा-अथ मोहपरायणा सती विवसा कामवधूर्विबोधिता ।विपर्ययोऽविद्या तत्र यथा-न मुश्चामः कामानहह गहनो मोहमहिमा ॥ ५८७ ॥
2.587 · p. 60
metre not recognised
लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च ।लुनाति लूयते वा लोहम् ।“लूगोहः” (उ० ५८६) इति हः ।पुंक्लीबः काला यसे यथा-हरति श्यामिका हेम्नो न लोहस्य हुताशनः ।सर्वतैजसे यथा-रसोपविद्धा एव लोहधातवः ।जोङ्गकम् अगरु ।तत्र यथा-स्वलेहिकार्तस्वरपद्मपत्रैरानर्च गौरी सशरं पिनाकम् ।बहो वृषस्कन्धदेशे वायौ ।वहन्त्यनेनेति वहः ।“गोचर संचर" ५ ।३ ॥ १३१ ॥इति घः ।वृषस्कन्धदेशे यथा-- मिथ्यैव जातः स जनो बहे गडरिवालसः ।गन्धवहैकादेशेन सत्यभामायां भामाशब्दवद्वायौ वहशब्दः ।आचरणवाहवर्ण कवोदृष्वपि मंखः ।आचरणे यथा-न स्नेहेन न दानेन न मानेन न सेवया ।केन वहेन वहन्ते खला इति न निर्णयः ।वाहे तुरगे यथा-बहु वहहेषितबंहितगहने सैन्ये समन्ततः प्रसृते ।क्व भवेदरिर्वराको गोमाय प्रायतां जातः ।वर्णकेद्वितीयः काण्ड: (३३७) वृषे वाहा तु वाही स्याद्व्यूहो निर्वाणतर्कयोः ।समूहे बलविन्यासे सहः क्षमे बलेऽपि च ॥ ५८९ ॥
2.589 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable)
सहोव्यां सहदेवायां कुमारू नख भेषजे ।मुद्गपण्यां च सिंहस्तु राशिभेदे मृगाधिपे ॥ ५९० ॥
2.590 · p. 60
अनुष्टुप्
वर्णिकायां यथा-बहुप्रयोजनं वस्तु विविच्यारभते बुधः ।वह विना हि नादत्ते बहुमूल्यं विवेचकः ।वोढरि यथा-विरह हुतवहेन प्रेयसी दह्यतेऽसौ ।नदेऽपि यथा-तं ससिन्धुवहमाप महीं यः ।बाहोऽश्वमानयोः ।वृषे ।वाह्यते वाहः ।अश्वे यथा-इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः ।मानभेदे व्योमाख्ये यथा-मातुं वाहैः शक्यते नान्तरिक्षं वेत्तुं शक्यं नो मनो मानिनीनाम् ॥ ५८८ ॥
2.588 · p. 60
metre not recognised
वृषे यथा-खे खेलगामी तमुवाह वाहः ।वाहा तु बाहौ स्यात् ।यथा-शाम्यन्ति भोगेन न जातु कामा न बाहया वा सुतरः समुद्रः ।व्यूहो निर्माण तर्कयो ।समूहे बलविन्यासे ।व्युह्यते रच्यते व्यूहः ।निर्माण यथा-सकुट्टिमव्यूहनिहितार्थः ।तर्के वितर्के यथा हिताहितव्यूहपरामनीषिणः ।समूहे यथा-सर्वाङ्गीण वलीविलुप्त नयनव्यूहः कथं वर्तते ।बलस्य सैन्यस्य चक्रादिरूपेण विन्यासो बलविन्यासः ।यदाह-दण्डो मण्डल भोगौ चाप्युत्सन्न श्वावलो दृढः ।व्यूहास्तेषां विशेषाः स्युश्चक्रव्यूहादयोऽपि च ।तत्र यथा - "लोकरिव महाकाव्यं व्यू हैस्तदभवद्बलम् ।सहः क्षमे बलेऽपि च ।सहते सहः ।क्षमे वाच्यलिङ्गः ।तत्र यथा-असहः स हि शीतस्य ।बले पुक्लीबः ।तत्र यथा-न सहेन स हीयते ॥ ५८९ ॥
2.589 · p. 60
अनुष्टुप्metre not read in every line
सहोयाँ सहदेवायां कुमार्यां नखभेषजे ।मुद्गपां च ।उ यथा-सहव सहते सर्वम् ।शेष ओषधि वर्गः ।सिंहस्तु राशिभेदे मृगाधिपे ।श्रेष्ठे स्यादुत्तरस्थश्च ।(३३८)अनेकार्थसंग्रहः स्टीकःश्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणमातरि ।वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥ ५९१ ॥
2.591 · p. 60
अनुष्टुप्metre not read in every lineimpossible sibilant cluster: स्टीकः
इत्याचार्यश्री हेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहेद्विस्वरकाण्डो द्वितीयः ।हिनस्ति सिंहः ।“हिसे: सिम च” (उ० ५८८) इति हः ।अचि वा पृषोदरादित्वात्साधुः ।राशिभेदे यथा-सिंहः पाणिपयोधिपावकमितैः ।मृगाधिपे यथा-सरागं सारङ्गाः सह सहचरीभिविचरत ।प्रचारः सिंहानामिह हि विधिना हन्त विहतः ॥ ५९० ॥
2.590 · p. 60
metre not recognised
उत्तरपदस्थः ।श्रेष्ठे यथा-उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः ।सिंही स्वर्भाणुमातरि वासावृहत्योः क्षुद्रायाम् ।स्वर्भाणुमाता राहुमाता ।तत्र यथा-सिंहिकासुतसं त्रस्तो भृगो मृगाङ्कमाश्रितः ।जग्राह साश्रयं तत्र तमन्यः सिंहिकासुतः ।वासा आटरूषकः ।वृहती वार्ताकी ।क्षुद्रा कण्टकारिका ।स्नेहः प्रेम्णि घृतादिके ।स्नेहनं स्निह्यतेऽनेन वा स्नेहः ।पुंक्लीबः प्रेम्णि यथा - काष्ठागतस्नेहरसानु विद्धं द्वन्द्वानि भावं क्रियया विवक्र: ।घृतादिके यथा-प्रदीप: स्नेहमादत्ते दशया ह्यन्तरस्थया ।सौहार्देऽपि मंखः ।यथा-तं जगाद गिरमुद्गिरनिव स्नेहमाहितविकाशया दृशा ॥ ५९१ ॥
2.591 · p. 60
अनुष्टुप्metre not read in every line