कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthakairavākarakaumudī

अनेकार्थकैरवाकरकौमुदी Anekārthakairavākarakaumudī

3,608 verses · text only, tagging comes next

प्रथमः काण्डः

ध्यात्वाऽर्हतः कृतैकार्थ-शब्दसंदोहसंग्रहः ॥
1.1 · p. 1
एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसंग्रहम् ॥ १ ॥
1.1 · p. 1
अकारादिक्रमेणादावत्र प्रत्यन्तरे क्रमोऽत्रादौ ककारादि क्रमोऽन्ततः *प्रत्य० ऋतस्ततः॥ कादिक्रमोऽन्ततः ।
1.3 · p. 3
अनुष्टुप्metre not read in every line
उद्देश्यवचनं पूर्वं पश्चादर्थप्रकाशनम् ॥ २ ॥
1.2 · p. 3
अनुष्टुप्metre not read in every line
यत्रैक एव रूढोर्थो यौगिकस्तत्र दर्श्यते ।अनेकस्मिंस्तु रूढेऽर्थे योगिकः प्रोच्यते न वा ॥३॥
1.3 · p. 3
अनुष्टुप्
पदानां भङ्गतो प्रत्य० भागतो यो स्मिन्नानेकोर्थः प्रकाश्यते ॥
1.6 · p. 4
प्रदर्शनीयो नैवासौं तस्त्यानन्त्यप्रसङ्गतः ॥४॥
1.4 · p. 4
को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले ॥
1.8 · p. 4
कं शीर्षेऽप्सुसुखे खं रवः संविदि प्र० स्वसंविदि व्योमनीन्द्रिये || ५ ||
1.9 · p. 4
अनुष्टुप्metre not read in every line
शून्ये बिन्दौ सुखे प्रत्य० मुखे खस्तु सूर्यो गौरदके दृशि ॥
1.10 · p. 5
अनुष्टुप्metre not read in every line
वर्गे दिशि पणौ रश्मौ वज्रे भूमावित्रौ गिरि ॥६॥
1.6 · p. 5
त्वक् वल्कले चर्मणि च, न्यग्निम्ने नीचकार्त्स्न्ययोः।रुक् शोभाकिरणेच्छासु वाग्भारत्यां वचग्यपि ॥७॥
1.7 · p. 5
अनुष्टुप्
जूराकाशसरस्वत्यां प्र. जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ॥
1.13 · p. 6
ज्ञः स्याद्विचक्षणे पद्मा-सने चान्द्रमसायनौ प्र० सायने ॥ ८ ॥ अन्यत्र- जो जन्यां जातमात्रे च मृत्युञ्जये जनार्दने । जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ॥ ८ ॥ शः स्याद्विचक्षणे पद्मासने चान्द्रमसाय मा जटायां राक्षस्यां पतने दुर्भगस्त्रियाम् ॥ ९ ॥
1.8 · p. 6
सद्विद्यमाने सत्ये च प्रशातार्चितसाधुषु ॥
1.15 · p. 7
भः शुक्रे भमुडौ भांशो, भूस्तु भूमिरिव क्षितौ ॥९॥
1.9 · p. 7
स्थाने च मः पुनः शंभौ, मा लक्ष्भ्यां वारणेऽव्ययम्किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि ॥१०॥
1.10 · p. 8
अनुष्टुप्
क्ष्मामौर्व्योदयुर्दिने वह्नौ द्यौरतु स्वर्गे विहायसि ॥
1.18 · p. 8
रस्तीक्षणे दहने रास्तु सुवर्णे जलदे धने ॥११॥
1.11 · p. 8
द्रूः कामरूपिणि स्वर्णे, धूर्यानमुखभारयोः ॥
1.20 · p. 9
पूः शरीरे नगरे प्र- नगया च श्रीर्लक्ष्म्यां सरलद्रवेप्र-द्रुमे ॥१२॥
1.12 · p. 9
वेषोपकरणे वेष-रचनायां मतौ गिरि ॥
1.22 · p. 9
शोभात्रिवर्ग-संपत्त्योः स्त्रूः स्त्रू वे निर्झरेऽपि च ॥१३॥
1.13 · p. 9
वः पश्चिमदिगीशे [10] स्यादौपम्येप्र० स्याद्वौपम्ये पुनरव्ययम् ॥
1.24 · p. 10
द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने ॥ १४ ॥
1.25 · p. 10
दृग् [11] दृष्टृदर्शनध्यक्षिण प्रत्य० दृगदृष्टौ दर्शनेऽध्यक्षे विट् प्रवेशे नृवैश्ययोः ।तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥१५॥
1.15 · p. 11
metre not recognised
त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि ।भाः प्रभावे मयूखे च मास्तु मासे निशाकरे ॥१६॥
1.16 · p. 11
अनुष्टुप्
॥ इत्याचार्यश्रीहेमचन्द्रविरचितेऽनेकार्थसंग्रहे एकस्वरकाण्डः प्रथमः ॥
1.28 · p. 12
सुरभि । अन्यास्ता मलयस्य काननभुवः स्वच्छस्रवन्निर्झरास्तृ ष्णा या सुमिवर्तते तनुभृतामालोकमात्रादपि तर्षेऽम्बु क्षुधि भोजनं पथि रथः शय्याऽऽश्रमे नौर्जले ॥ १५ ॥ त्विट् शोभायां-त्वेषण त्वेषन्ति अनया या “कुत्संपदादिभ्यः “ (५/३/११४) क्विप् स्त्रियाम् । शोभायां यथा-शशित्विषा पोषितहर्षसंपदा तदा न तेनाननपद्मपङ्क्तयः । रुचौ दीप्तौ यथा- रथाङ्गपाणे: पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ॥ अथ सान्तौ । माः प्रभावे मयूखे च । भासते भाः । पुंस्त्रीलिङ्गः । द्वयोर्यथा सन्तोऽप्यसन्त इति चेत् प्रतिभान्ति भानोर्भासावृते नभसि शीतमयूखमुझ्याः । 'मास्तु मासे निशाकरे। माति माः 'अस्' इति असू पुंसि । द्वयोर्यथा- 'उदयति विततांशुः पौर्णमासीसुधांशुः । अत्र हि पूर्णो माश्चन्द्रो मासो वाऽस्यामिति पूर्णमासः “अण्" इत्यणि पौर्णमासी ॥ १६ ॥
1.15 · p. 12
इत्याचार्य श्री हेमचन्द्राचार्यविरचितायामनेकार्थकैरवाकरकौमुदीत्यमिधानायां-स्वोपज्ञा-नेकार्थसंग्रह - टीकायामेक स्वरकाण्डः प्रथमः समाप्तः ॥
1.30 · p. 12