All kośas › Anekārthakairavākarakaumudī
अनेकार्थकैरवाकरकौमुदी Anekārthakairavākarakaumudī
3,608 verses · text only, tagging comes next
द्वितीयः काण्डः (28/30)
अथ परिप्लवावाकुलचञ्चलौ ।परिप्लवते परिप्लवः ।वाच्यलिङ्गः ।द्वयोर्यथा-मत्कुणाविव पुरः परिप्लवौ सिन्धुनाथशयने निषेदुषः ।पराभवस्तिरस्कारे नाशे ।पराभवनं पराभवः ।द्वयोर्यथा - व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु येन मायिनः ।पारशवोऽयसि ।शुदायां विप्रतनये तनये च परस्त्रियाः ।परशवे इदं, परशव्यन्तस्य विकारः पारशवः ।"परशव्याद्यलुक्चेत्यण (६-२-४०) यलुक्च ।परस्त्रिया अपत्यम्वा ।"परस्त्रियाः परशुश्चावणे" (६-१-४०) इत्यण् ।अयसि पुंक्लीवः ॥ ३०६ ॥
2.306 · p. 60
वंशस्थम्two metres in one verse
"शूद्रायां विनतनय" इति यः ।शूद्रायां विप्रेण जन्यते ।पुटग्रीवस्तु गर्गर्या ताम्रस्य कलशेऽपि च ।पुटवद्ग्रीवास्य पुटग्रीवः ॥ ३०७ ॥
2.307 · p. 60
अनुष्टुप्metre not read in every line
बलदेवस्तु कालिन्दीकर्षणे मातारि श्वनि ।बलेन दीव्यति बलदेवः ।कालिन्दीकर्षणे यथा- स्वस्थीभूतो बलदेवोऽप्युदस्तायोग्रलाङ्गलः ।बलदेवा त्रायमाणा ।त्रायमाणा ओषधिः ।रोहिताश्वो हुताशने हरिश्चन्द्रनृपसुते ।रोहिताख्यो मृगोऽश्वो वाहनमस्य रक्तवर्णो वा अश्वोऽस्य रोहिताश्वः ।हुताशने यथा-रम.(४०४) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागःहरिश्चन्द्रनृपमुते सहदेवस्तु पाण्डवे ।सहदेवा बलादण्डोत्पलयोः शारिवौषधे ॥ ३०९ ॥
2.309 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द्र (wrong syllable)
सहदेवी तु साक्ष्यामपदेशस्तु कारणे ।व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः ॥ ३१ ॥
2.31 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उपस्पर्शस्त्वाचमनस्नानयो स्पर्शमात्रके ।खण्डपशुः शिवे राही भार्गवे चूर्णलेपिनि ॥ ३१२ ॥
2.312 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
सादम्बररोहिरोहिताश्वः ॥ ३०८ ॥
2.308 · p. 60
हरिश्चन्द्रनृपसुते यथा--ततः प्रविशति सुतारा रोहिताश्वश्च ।सहदेवस्तु पाण्डवे ।सह दीव्यति सहदेवः ।यथा-ततः प्रवि शति अर्जुनेनादिश्यमानमार्गो नकुलसहदेवाभ्यां सह राजा युधिष्ठिरः ।सह देवा बलादण्डोत्पलयोः शारिवौषधे ।सहदेवी तु साक्ष्याम् ।विषयमेदेन शोणादित्वाड्डीः ।चत्वारोऽपि गुल्मभेदाः ॥ ३०९ ॥
2.309 · p. 60
अनुष्टुप्metre not read in every line
अथ शान्ताः ।अपदेशस्तु कारणे ।व्याजे लक्ष्येऽपि ।अपदिश्यते अपदेशः ।कारणे यथा विनापदेशं बालोऽपि ।व्याजे यथा--रक्षापदेशाद्गुरुहोमधेनोः ।लक्ष्यं वेध्यम् ।अप. भ्रंशो भाषाभेदाऽपशब्दयोः ।पतने च ।अपभ्रश्यति अपभ्रंशनम्वा अपभ्रंशः ।त्रिष्वपि यथा-अपभ्रंशपराचीना वर्णव्यत्ययहारिणः ।नृपा इवैते कवयः ॥ ३१० ॥
2.310 · p. 60
metre not recognised
आश्रयाशस्तु वहावाश्रयनाशके ।आश्रयमश्नाति आश्रयाशः ।आश्रयनाशके वाच्यलिङ्गः ।वह्नौ यथा-परितः प्रसभेन नीयमानः शरवर्षैरवशायमाश्रयाशः ।उपदंशोऽवदंशे स्यान्मेहनामययोरपि ।उपदिश्यते उपदंशः ।अवदंशश्च क्षणम् ।मेहनं मेढम् ।आमयो रोगः ।अवदंशे यथा-स्वादुकारं कालखण्डोपदंशैः क्रोष्टाडिम्ब व्यष्वणत् व्यस्वनच्च ॥ ३११ ॥
2.311 · p. 60
अनुष्टुप्metre not read in every line
उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके ।उपस्पृश्यते उपस्पर्शः ।त्रिष्वपि यथा-जलोपस्पर्शपूर्वकम् ।खण्डपशुः शिवे राहौ भार्गवे चूर्णछेपिनि ।खण्डामलकभैषज्ये ।खण्डःचतुर्थः काण्डः(४०५) खण्डामलकभैषज्ये जीवितेशः प्रिये यमे ।जीवितस्वामिजोवात्वोर्नागपाशस्तु योषितां ॥ ३१३ ॥
2.313 · p. 60
अनुष्टुप्metre not read in every line
करणे वरुणास्त्रे च प्रतिष्कशः पुरोगमे ।वार्ताहारे सहाये च पुरोडाशो हविभिदि ॥ ३१४ ॥
2.314 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable); pāda 4, syllable 6 वि (wrong syllable)
हुतशेषे सोमरसे चमस्यां पिष्टकस्य च ।अम्बरीषो नृपे सूर्ये युधि भ्राष्ट्रकिशोरयोः ॥ ३१५ ॥
2.315 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सो (wrong syllable)
पशु रस्य खण्डपशु: ।शिवे राहौ भार्गवे च यथा-खण्डपशु सहेत कः ।चूर्ण लेपी सुधालेपकः ॥ ३१२ ॥
2.312 · p. 60
metre not recognised
जोवितेशः प्रिये यमे ।जीवितस्वामिजीवा त्योः ।जीवितस्येशो जीवितेशः ।जीवितस्वामिनि वाच्यलिङ्गः ।प्रिये यमे च यथा-जीवितेशवसति जगाम सा जीवातुर्जीवनौषधम् ।नागपाशस्तु योषितां करणे वरुणास्त्रे च ।नागपाश इव नागानां पाशो वा नागपाशः ।द्वयो यथा-तं बद्ध्वा नागपाशेन ॥ ३१३ ॥
2.313 · p. 60
metre not recognised
प्रतिष्कशः पुरोगमे ।वा हारे सहाये च ।प्रतिकशति प्रतिष्कशः ।वर्चस्कादित्वात् ।वाच्यलिङ्गः ।त्रिष्वपि यथा-ग्राममध्यप्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः ।पुरोडाशो हविभिदि ।हुतशेषे सोमरसे चमस्यां विष्टकस्य च ।पुरो दास्यते पुरोडाशः ।पृषोदरादित्वात्साधुः ।हविर्भिदि हुतशेषे सोमरसे च यथा-वैतानेषु कृपीटयोनिषु पुरोडाशं वषट् कुर्वते॥ ३१४ ॥
2.314 · p. 60
metre not recognised
अथ षान्ताः ।अम्बरोषो नृपे सूर्ये युधि भ्राष्ट्रकिशोरयोः ।आम्राते खण्डपरशौ ।अमति अम्बरीषः ।“अमेवर्रादिरितीषः" (उ० ५५५) ।भ्राष्ट्रे पुंक्लीनः ।अन्यत्र पुसि ।नृपे यथा-अम्बरीषश्च नाभोगो बुभुजाते चिरं महीम् ।किशोरो हयशावः ॥ ३१५ ॥
2.315 · p. 60
अनुष्टुप्metre not read in every line
आम्रातो बृक्षः ।खण्डपरशुरीश्वरः ।अनुकर्षों अनुकर्षणे ।१. पच्चदशी तु पूर्णिमा ।दर्शश्च पादपाशी तु खट्टिका यामुदाहृता ।शृङ्खला कटके वापि पुरोडाशो हविर्भिदि ।(४०६) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागःआम्राते खण्डपरशावानुकर्षोऽनुकर्षणे ।स्थस्यापोदारुणि चानिमिषः सुरमत्स्ययोः ॥ ३१६ ॥
2.316 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अनुतर्षोऽभिलाषे स्यात्तृषाचषकयोरपि ।अलम्बुषश्छईनेऽलम्बुषा स्वापण्ययोषिति ॥ ३१७ ॥
2.317 · p. 60
अनुष्टुप्
गण्डीयाँ किम्पुरुषस्तु किन्नरे लोकभिद्यपि ।देववृक्षो मंदरादौ गुग्गुलौ विषमच्छदे ॥ ३१८ ॥
2.318 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
नन्दिघोषो बन्दिघोष स्यन्दने च किरीटिनः ।परिवेषः परिवृतौ परिधौ परिवेषणेः ॥ ३१९ ॥
2.319 · p. 60
अनुष्टुप्
रथस्याधोदारुणि च ।अनुकर्षणम् अनुकृष्यते वा अनुकर्षः ।रथस्याधोदा रुणि यथा-अनुकर्षशादविचलतस्खलद्रथे रुधिरावमर्दन सकर्दमावनौ ।अनिमिषः मुरमत्स्ययोः ।न निमिषति अनिमिषः ।"नाम्युषात्य” (५.१-५४) इति कः ।द्वयोर्यथा--कदाचिदम्भोनिधिरिख उच्चैः-स्तननाभिरम्याः कृतानिमिषनय नविभ्रमाः सकन्दर्पाः सिषेचे वेलाविलासिनी ॥ ३१६ ॥
2.316 · p. 60
metre not recognised
अनुतर्षों अभिलाषे स्यात्तृषाचषकयोरपि ।अनुतृष्यते अनुतर्षः ।मदयेऽपि तत्र क्लीवः ।सर्वे ऽपि यथा-सोपचारमुपशान्तविचारं सानुतर्षपदेन ।अलम्बुषश्छद्दने ।अलति अलम्बुषः ।अलेरम्बुषः, बाहुलकात् षत्वम् ।छर्दनो दुर्योधनमित्रम् राक्षसः ।अलम्बुषा स्वापण्य(पण)योषिति ।गण्डोर्या ।गण्डीरी ओषधिः ॥ ३१ ॥
2.31 · p. 60
metre not recognised
किम्पुरुषस्तु किन्नरे लोकभिद्यपि ।कुत्सितः पुरुषोऽश्वमुखत्वात्किंपुरुषः ।कुत्सिताः पुरुषा अस्मिन्निति वा ।किन्नरे यथा-यत्रांशुकाक्षेपविलज्जितानां यह च्छया किम्पुरुषाङ्गनानाम् ।लोकभिदि यथा-भारतं प्रथम वर्ष ततः किंपुरुष परम् ।देववृक्षो मन्दारादौ गुग्गुली विषमच्छदे ।देवानां वृक्षो देववृक्षः ॥ ३१८ ॥
2.318 · p. 60
metre not recognised
नन्दिघोषो बन्दियोषे स्यन्दने च किरोटिनः ।नन्दी चासौ घोषश्च, नन्दी घोषोऽस्य वा नन्दिघोषः ।द्वयोर्यथा--अर्जुनसमरमिव नन्दिघोषमुखरितदिगन्तरं मंचमारूरोह वासवदत्ता ।परिवेषः परिवृतौ परिधौ परिवेषणे ।परिवेषणं परिवेषः ।परिवृतौ परिवेष्टने यथा कृतपरिवेषोऽप्युच्चैर्वेलावलयेन जलनिधिःचतुर्थः काण्डः(४०७) परिघोषः स्यादवाच्ये निनादे जलदध्वनौ ।पलपो यातुधाने पलङ्कषा तु किंशुके ॥ ३२० ॥
2.320 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गोक्षुरे गुग्गुली लाक्षारास्नातुण्डीरिकासु च ।भूतवृक्षस्तु शाखोटे स्यानाकलिवृक्षयोः ॥ ३२१ ॥
2.321 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
महाघोषो महाशब्दे स्यान्महाघोषमापणे ।महाघोषा शृङ्गयोषध्या राजवृक्षः पियालके ॥ ३२२ ॥
2.322 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुवर्णालुतरौ वातरुषः शक्रशरासने ।वातूलोकोचयोश्चापि विशालाक्षो महेश्वरे ॥तायें विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे ।भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे ॥ २४ ॥
2.24 · p. 60
अनुष्टुप्
परितः ।क्षयसमये समुपेत महाजले पृषततां याति ।परिधावुपसूर्यके यथा-- बद्धभीमपरिवेषमण्डलः ।परिवेषणे भोज्यनिक्षपणे यथा-रचयति परिवेषं शेष भोज्यस्य कैषा ॥ ३१९ ॥
2.319 · p. 60
metre not recognised
परिपोषः स्यादवाच्ये निनादे जलदध्वनौ ।परिघुभ्यते परिघोषः ।पलङ्कषो यातुधाने ।पल कषति पलङ्कषः ।बाहुलकात् खः 1 यातुधानो राक्षसः ।पलङ्कपा तु किंशुके ।गोक्षुरे गुग्गुलौ लाक्षारा स्नातुं()डीरिकामु च ।षट्स्वर्थेषु च ॥ ३२० ॥
2.320 · p. 60
अनुष्टुप्metre not read in every line
भूतवृक्षस्तु शाखोटे स्यो नाककलिवृक्षयोः ।भूतानां वृक्षो भूतवृक्षः ।योऽपि वृक्षाः ॥ ३२१ ॥
2.321 · p. 60
अनुष्टुप्metre not read in every line
महा घोषो महाशब्दे ।महांश्चासौ घोषश्च ।महाघोषः ।स्यान्महाघोषमापणे ।महान् घोषोऽत्र महाघोषम् ।महाघोषा शृङ्गयोषध्यां ।शृङ्गीनाम ओषधिः ।राजवृक्षः पियालके ।सुवर्णालुसरौ ।राज्ञो वृक्षो राजवृक्षः ।पियालको राजादनः ॥ ३२२ ॥
2.322 · p. 60
metre not recognisednearly अनुष्टुप्
वातरुषः शक्रशरासने ।वातूलोत्कोचयोश्चापि ।वातेन रौति वातरूपः ।कोरदृषेति साधुः ।वातूलो वातसमूहः ।उत्कोचो लंचा ।विशालाक्षो महेश्वरे ।ताक्ष्ये विशालनेत्रे च ।विशालेऽक्षिणी अस्य विशालाक्षः ।विशालनेत्रे वाच्यलिङ्गः ।तत्र यथा-पद्मपत्रविशालाक्षी ॥ ३२३ ॥
2.323 · p. 60
metre not recognised
वीरवृक्षोऽर्जुनद्रुमे ।भल्लाते ।वीराणां वृक्षो वीरवृक्षः ।सकटाक्षस्तु कटा क्षिणि ।धवमे ।सह कटाक्षेर्वर्तते सकटाक्षः ।कटाक्षिणि वाच्यलिङ्गः ॥ ३२ ॥
2.32 · p. 60
metre not recognised
(४०८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागःअधिवासः स्यान्निवासे संस्कारे धूपनादिभिः ।अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने ॥ ३२५ ॥
2.325 · p. 60
अनुष्टुप्metre not read in every line
कलहंसो राजहंसे कादम्बे नृपसत्तमे ।कुम्भीनसस्त्वहौ कुम्भीनसी लवणमातरि ॥ ३१६ ॥
2.316 · p. 60
अनुष्टुप्
धनरसोऽप्सु कपूरे सान्द्रे सिद्धरसे द्रवे ।मोरटे पीलुपयों च चन्द्रहासोऽसिमात्रके ॥ ३२७ ॥
2.327 · p. 60
metre not recognised
अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः ।अध्युष्यतेऽधिवासः ।निवासे यथा-नागाधिवासे स ययौ क्षितीश: ।धूपनादिभिः संस्कारे यथा -पुष्पाधिवासः सुरभीकृतानि ।अवध्वंसस्तु निन्दायां परित्यागेऽव चूर्णने ।अवध्वंसनमवध्वंसः ॥ ३२५ ॥
2.325 · p. 60
अनुष्टुप्metre not read in every line
कलहंसो राजहंसे कादम्बे नृपसत्तमे ।कलश्चासौ हंसश्च कलहंसः ।आरक्त चंचुचरणा हंसा राजहंसाः ।अतिधूसरपक्षाः कादम्बाः ।द्वयोर्यथा-दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ।कुम्भीनसस्त्वहौ ।कुम्भीव नासिकाऽस्य कुभीनमः ।अस्थूलाच्चेति ॥ ७-३-१६१ ॥
2.3281 · p. 60
metre not recognised
नसादेशः ।कुम्भीनसी लवणमारि ।गौरादित्वान्डोः ।लवणो राक्षसस्तस्य माता तत्र यथा--स च प्राप मधूपघ्नं कुम्भी नस्याश्च कुक्षिजः ।वनात्करमिवादाय सत्वराशिमुपस्थितः ॥ ३२६ ॥
2.326 · p. 60
अनुष्टुप्metre not read in every line
धनरसो ऽप्सु कपूरे सान्द्रे सिद्धरसे द्रवे ।मोरटे पोलुपया॑ च ।घनस्य रसो, धन श्चासौ रसश्च, धनो रसोऽत्र वा, घनरसः ।सान्द्र बह (हु)लम् ।तत्र वाच्यलिङ्गः ।द्रवो निर्यासः ।मोरटं सप्तरात्रात्परं क्षीरं पीलुपी ओषधिः ।द्रवेऽप्सु च यथा तडिदनललतानामिव घनरस एषोतिदाहकृद्विरसः ।पतति धनाधनधनरसविसरो विसरन्ति च प्राणाः ।चन्द्रहासोऽसिमात्रके ।दशग्रीवकृपाणे च ।चन्द्रस्येव हासोऽस्य चन्द्रहासः ।असिमात्रके यथा-चन्द्रहासोमुखे यस्तेपतितोऽतिप्रसा दिनि ।सशत्रुथमित्रम्बा समचर्तिपदं व्रजेत् ॥ ३२७ ॥
2.327 · p. 60
metre not recognised
दशग्रीवकृपाणेचतुर्थः काण्डः(४०९) दशग्रीवकृपाणे च तामरस तु पङ्कजे ।ताम्रकांचनयोः दिव्यचक्षुस्त्वन्धे सुलोचने ॥ ३२८ ॥
2.328 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म (wrong syllable)
सुगन्धभेदे च निश्रेयसं कल्याणमोक्षयोः ।नीलजसा नदीभेदेऽप्सरोभेदे तडित्यपि ॥ ३२९ ॥
2.329 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ज (wrong syllable)
पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि ।पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा ॥ ३३० ॥
2.330 · p. 60
अनुष्टुप्
मलीमसं पुनः पुष्पकासीसे मलिनायसोः ।महारसः पुनरिक्षौ खरद्रौ कसेरुणि ॥ ३३१ ॥
2.331 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यथा-बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः ।तामरसं तु पङ्कजे ।ताम्र काञ्चनयोः ।ताम्यति तामरसम् ।केनेति (३-४-३३) साधुः ।त्रिष्वपि यथा-- अनवरतममन्दरागतामरससदृशः ।दिव्यचक्षुस्त्वन्धे सुलोचने ।सुगन्धभेदे च ।दिव्यं चक्षुरस्य दिव्यचक्षुः ।अन्धसुलोचनयोाध्यलिङ्गः ।सुलोचने यथा चर्मचक्षुर्जनः सर्वः कवयो दिव्यचक्षुषः ॥ ३२८ ॥
2.328 · p. 60
अनुष्टुप्metre not read in every lineimpossible sign sequence: न्धसुलोचनयोाध्यलिङ
निःश्रेयसं कल्याणमोक्षयोः ।निश्चितं श्रेयः निःश्रेयसम् ।निसश्च श्रेयस इति असमासान्तः ।द्वयोयथा निःश्रेयसाय स श्रीमान् श्रीकण्ठो वः प्रकल्पताम् ।नीलजसा नदीभेद्रेऽप्सरो भेदे तडित्याप ।नीलं जस्यति नीलंजसा ।बाहुलकात् खः ।अप्सरोभेदे यथा नीलंजसायाविलयात् ॥ ३२९ ॥
2.329 · p. 60
अनुष्टुप्metre not read in every line
पुनर्वसुः स्वान्नक्षत्रे कात्यायनमुनावपि ।पुनर्चस्वस्य पुनर्वसुः ।पुंसि ।नक्षत्रे यथा-पुष्यपुनर्वसुरेवतिचित्रा ।कात्या यनमुनिः वररुचिः ।पौर्णमासो यागभेदे ।पौर्णमास्यां भवः पौर्णमासः ।"भतुसन्ध्यादेरण (६-३-८९) ।यथा-पौर्णमासश्च दर्शश्च यज्ञो पक्षान्तयोः पृथक् ।पौर्णमासी तु पूर्णिमा ।पूर्णो मासश्चन्द्रोऽस्यामस्ति पौर्णमासी ।पूर्ण मासेऽण् ।यथा-उदयति विततांशुः पौर्णमासी सुधांशुः ॥ ३३० ॥
2.330 · p. 60
अनुष्टुप्metre not read in every line
मलीमसं पुनः पुष्पकासीसे मलिनायसोः ।मलोऽस्यास्ति मलीमसं ! “मलादिमसश्च (७-२-१४) ।मलिने वाध्यलिङ्गः ।तत्र यथा-क्षपातमस्काण्डमलीमसं नमः ।महा रसः पुनरिक्षौ खर्जूरद्रौ कशेरुणि ।महान् रसोऽस्य महारसः ।कशेरु कन्द(४१०) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागःमधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ।'राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ३३२ ॥
2.332 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
रासेरसो रससिद्धिवलौ शृङ्गारहासयोः ।षष्ठोजागरके रासे गोष्ठ्यां विश्वावसुः पुनः ॥ ३३३ ॥
2.333 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
निशि गन्धर्वभेदे च विभावसुस्तु भास्करे ।हुताशने हारभेदे चन्द्रे स्वःश्रेयस सुखे ॥ ३३४ ॥
2.334 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 4, syllable 6 स (wrong syllable)
परानन्दे च भद्रे च सरसस्तु धूमके ।वाधभाण्डेऽवग्रहस्तु ज्ञानभेदे गजालिके ॥ ३३५ ॥
2.335 · p. 60
metre not recognisednearly अनुष्टुप्
भेदः ॥ ३३१ ॥
2.331 · p. 60
मधुरमा तु मूर्वायां द्राक्षादुग्धिकयोरपि ।मधुवद्रसोऽस्या मधुरसा ।मूर्वा ज्याहेतुस्तृणविशेषः ।दुन्धिका ओषधिः ।राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ।राजा चासौ हंसश्च राजहंसः ।त्रिष्वपि यथा-वर्षागम इव प्रवासितराजहंसः ॥ ३३२ ॥
2.332 · p. 60
अनुष्टुप्metre not read in every line
रासेरमो रससिद्धबलौ शृङ्गारहासयोः ।षष्ठीजागरके रासे गोष्ठयां ।रासे रसोऽस्य रासेरसः ।रस्यते वा ।“फनसेति" (उ० ५७३) ।साधुः ।रससिद्ध्यर्थमुपहारो रससिद्धिबलिः ।विश्वावसुः पुनः ।निशि गन्धर्षभेदे च ।विश्वं वस्वस्य विश्वावसुः ।वसुराटोः (३-२-८१) इति दीर्घः ।निशि स्त्रियां ।गन्धर्वभेदे पुंसि ।यद्वैजयन्ती-विश्वावसुस्तु गन्धर्व भेदे ना स्त्री पुनर्निशि ।गन्धर्वभेदे यथा--विश्वावसुप्रागहरैः प्रवीणैः ॥ ३३३ ॥
2.333 · p. 60
metre not recognised
विभावसुस्तु भास्करे ।हुनाशने हार भेदे चन्द्रे ।विभैव वस्वस्य विभावसुः ।पुंसि ।सर्वेषु यथा-विभावसोविभा भाति तमस्तानवभाविनी ।स्वःश्रेयसं मुखे ।परानन्दे च भद्रे च ।शोभनं श्रेयः स्वःश्रेयसम् ।निसश्च श्रेयस (७-३-१२२) इत्यत्समासान्तः ।त्रिष्वपि यथा-स्वःश्रेयातायास्तु वः ॥ ३३४ ॥
2.334 · p. 60
metre not recognised
सरसस्तु धृणके ।वाद्यभाण्डे ।सर्वे रसा अत्र सवरसः ।अथ हान्ताः ।अवग्रहस्तु ज्ञानभेदे गमालिके ।प्रतिबन्धे वृष्टिरोधेऽपि ।अवगृह्यते अवग्रहः ।ज्ञानभेदे यथा-अक्षार्थयोगे दर्शनान्तरमर्थग्रहणमवग्रहः ।१, यमस्वसा तु कालिन्यां कपर्दिनः स्त्रियामपि ।राजा ।(४११)चतुर्थः काण्डः प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे ।अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ॥ ३३६ ॥
2.336 · p. 60
metre not recognised
तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्वमारके ।अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने ॥ ३३७ ॥
2.337 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
बन्युपयोगयोश्चोपनाहो वीणानिबन्धने ।वणालेपनपिण्डे च गन्धवहो मृगेऽनिले ॥ ३३८ ॥
2.338 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
गजालिके यथा-अवग्रहगृहीतोऽपि प्रभिन्नो नावरुध्यते ॥ ३३५ ॥
2.335 · p. 60
प्रतिबन्धे निषधे यथा- एतस्ता निरवग्रहोग्रकरभोल्लीढावरूढाः पुरः ।वृष्टिरोधे यथा-वृष्टिर्भवति सस्यानामवग्रहविशेषिणाम् ।अभिग्रहस्तु गौरवे ।अभि योगेऽभिग्रहणे ।अभिग्रहणमभिग्रहः ।गौरवाऽभियोगयोर्यथा-अभिग्रहेण विद्यार्थी कुचाताभिग्रहं गुरोः ।अभिग्रहणे यथा-आसनाऽभिग्रहो भक्त्या ।अवरोहस्तु लतोद्गमे ।तरोरङ्गेऽवतरणेऽपि ।अवरुह्यते अवरोहः ।तरोरङ्ग शाखायाः स्कन्धादधः प्रदेशः ॥ ३३६ ॥
2.336 · p. 60
metre not recognised
अवतरणे यथा आरोहमवरोहं च मुहुः सूदति कुवंती ।त्वदङ्गयष्टौ मदृष्टिर्निश्चलापि कपोयते ।अश्वारोहोऽश्ववारके ।अश्वमारोहति अश्वारोहः ।यथा-अश्वारोहैविरहितमिदं वाहवृन्दं वृथैव ।अश्वारोहाऽश्वगन्धायाम् ।आशु आरोहति, अश्वारोहा ।पृषोदरादित्वात् ।अश्वगन्धा ओषधिः : उपग्रहोऽनुकूलने बंदयुपयोगयोश्च ।उपगृह्यते उपग्रहः ॥ ३३७ ॥
2.337 · p. 60
metre not recognised
बन्दी हठाकृष्टा स्त्री ।उपनाहो वीणानिबन्धने ।व्रणालेपनपिण्डे च ।उपनह्यतेऽनेन उपनाहः ।'व्यञ्जनाद घञ् (५-३-१३२) ।गन्धवहो मृगेऽनिले ।गन्धं वति गन्धवहः ।लिहादित्वात् (५-३-५०) अच् ।अनिले यथा-चन्दनगन्धवहोऽसौ सर्पति विध्यधराधरभूमेः ॥ ३३८ ॥
2.338 · p. 60
metre not recognised
गन्धवहा तु नासायां ।यथा--गन्धवहामपि धत्स्वसखि त्वं दुर्वह एष मम प्रति याति ।तमोपहो जिने स्त्री चन्द्रेग्नों ।तमोऽपहन्ति, तमोपहः ।क्लेशा(४१२) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागःगन्धवहा तु नासायां तमोपहो जिने रखो ।चन्द्रेऽग्नो तनूरुहस्तु पुत्रे गरुति लाम्नि च ॥ ३३९ ॥
2.339 · p. 60
metre not recognised
प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतग्रहे ।क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि ॥ ३४० ॥
2.3307 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दा (wrong syllable)
परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः ।शापेऽथ परिवाहोऽम्बूच्छ्वासे राजाईवस्तुनि ॥ ३४१ ॥
2.341 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ई (wrong syllable)
दिभ्योऽपादिति (५-१-८१) डः ।जिने यथा-तमश्छिन्दयात्तमोपहः ।खौ यथा--खरकिरणनखरनिवहस्तमालमलिनात्मनामुपरि रोषात् ।सिंह इव हास्ति कानां परिपतति (पतित) तमोपहस्तमसां ।चन्द्रे यथा-तमोपहं प्रचलितं प्रदोषे स्तुवन्ति वैतानममी मनुष्याः ।तनूरुहस्तु पुत्रे गरुति लोम्नि च ।तन्वां रोहति तनूरुहः ।गरुति लोम्नि च पुंक्लीबः ।पुत्रे यथा-वेस्तनूरहं शनि ।गरुति पिच्छे यथा-अधुनीत खगः स नैकधा तनुमुत्फुल्लतनुरुहोकृतां ।लोम्नि यथा रचिरचित्रतनूरहशालिभिः ॥ ३३९ ॥
2.3309 · p. 60
metre not recognised
प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे ।क्रियाकारे दानद्रव्ये तद्रहे स्वीकृतावपि ।प्रतिगृह्यते प्रतिग्रहः ।सैन्यपृष्ठे अधा-सेनापतिः प्रतिग्रहस्थो योधानामुद्दीपनजयनप्रसारणापसारणत्रणादिशोध नादीनि यथाकालमाचरेत् ।प्रभेदः प्रतिपक्षग्रहः ।पतद्ग्रहः पित्तलादि मयं ताम्बूलप्रत्येषणादि भाण्डम् ।क्रियायाः करणमारम्भः क्रियाकारः ।तत्र यथा--विचार्योदर्कमार्येण कार्यः कार्यप्रतिग्रहः ।दानद्रव्यं द्विजेभ्यो विधिवदेयम् ।तद्ग्रहो दानद्रव्यग्रहः ।तयो यथा–प्रतिग्रहसमर्थोऽपि नाददोत प्रतिग्रहम् ।अत्र हि प्रथमो द्विजकर्तृ के ग्रहणे ।द्वितीया विधिवदेये ।स्वीकृतौ यथा-चिन्तयन् परधनं प्रतिग्रहं भूभृदेष यदि तस्करोऽत्रकः ॥ ३४० ॥
2.340 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 3, syllable 5 दा (wrong syllable)
परिग्रहः परिजने पन्यां स्वीकारमूलयोः ।शापे ।परिगृह्यते परिग्रहः ।परिजने यथा-दलयति कुलानि करिणां किं हरिणपरिग्रहः सिंहः ।पन्यां यथा-निर्दिष्टां कुलपतिना सपर्णशालामध्यास्य प्रयतपरिग्रह द्वितीयः ।स्वीकारे यथा-गुरुवचनपरिग्रहो हि धर्मः ।मूले आदौ यथा-शुद्धिर्दिव्यपरिग्रहा ।शापे यथा- परिचरितव्याचतुर्थः काण्डः(४१३) परिबईः परीवारे पार्थिवोचितवस्तुनि ।पितामहः पदमयोनौ जनके जनकस्य च ॥ ३४२ ॥
2.342 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ब (wrong syllable); pāda 4, syllable 2 जन (syllable split)
विरारोहो गजारोहे वरारोहा कटावपि ।सर्वसहः सहिष्णौ स्यात्सर्वसहा पुनः क्षितौ ॥ ३४३ ॥
2.343 · p. 60
अनुष्टुप्metre not read in every line
इत्याचार्यश्रीहेमचन्द्रसूरीश्वरविरचितेऽनेकार्थसंग्रहेचतुःस्वरकाण्ड चतुर्थः ॥ ४ ॥
2.4 · p. 60
metre not recognised
गुरवो न यथा हि परिग्रहाय कल्पन्ते ।अथ परिवाहोऽम्बूछ्वासे राजाई वस्तुनि ।पर्युह्यते परिवाहः ।अम्बूवासे यथा-तडागोदरसंस्थानां परिवाह इवाम्भसाम् ॥ ३४१ ॥
2.341 · p. 60
metre not recognised
परिबईः परीवारे पार्थिवोचितवस्तुनि ।परिबीते परिवहः ।द्वयोर्यथा-वेश्मानि रामः परिबहवन्ति ।पितामहः पद्मयोनौ जनके जनकस्य च ।पितुः पिता पितामहः ।पित्रो औ महट् (६-२-६३) इति डामहट् ।पायोनौ यथा--प्रणेमतुस्तौ पितरौ प्रजाना पद्मासनस्थाय पितामहाय ।जनकस्य जनके यथा-पिता पितामहो भ्राता स्वकुल्यो जननी तथा ॥ ३४२ ॥
2.342 · p. 60
metre not recognisednearly अनुष्टुप्
वरारोहो गजारोहे ।वरमारोहति वरा रोहः ।वरारोहा कटावपि ।वरमारोहणमस्याः, वरारोहा ।यथा-किंकिणी काणवाचाला वरारोहा मृगीदृशः ।सर्वसहः सहिष्णौ स्यात् ।सबै सहते सर्वसहः ।सर्वात्सहश्चेति (५-१-११) खः ।वाच्यलिङ्गः ।यथा-मुनिरसि विरसानि ब्रूहि सर्वसहोऽस्मि ।सर्वसहा पुनः क्षितौ ।यथा-सर्वसहा भगवती तव जन्मभूमिः ॥ ३४३ ॥
2.343 · p. 60
metre not recognised
इत्याचार्यश्रीहेमचन्द्रसूरीश्वरविरचितायामनेकार्थकैरवाकर कौमुदीत्यभिधानायां स्वोपज्ञानेकार्थसंग्रहटीकायांचतुःस्वरकाण्डश्चतुर्थः ॥ ४ ॥
2.4 · p. 60
metre not recognised
१. महासहा स्यादम्सानकुसुमं मषिपण्यपि ।वरारोहो ।अथ पञ्चमः काण्डः ।स्यादाच्छुरितकं हासनखघातविशेषयोः ।कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ॥ १ ॥
2.1 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कः (wrong syllable)
कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः ।स्यागोजागरिकं भक्ष्यकारके मङ्गलेऽपि च ॥ ३ ॥
2.3 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि ।जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले ॥ ४ ॥
2.4 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 2 ल (wrong syllable)
अर्ह ।अथ पंचमं पंचस्वरं काण्डमारभ्यते ।तत्रादौ कान्ताः ।स्यादाच्छुरितकं हासनखधातविशेषयोः ।आच्छुरणमाच्छुरितकम् ।हासविशेषे सोत्यासहासे यथा-गौरीकृताच्छुरितकं रतये बभूव ।नखघात विशेषे यथा-अङ्गुष्ठाग्रेण बुद्धैः कररहनिकरैर्यत्कृतं स्वल्परेखम् ।देहे रोमांचकारि प्रभवति नितरां स्पर्शमात्राद्वेषु ।तत्कत्तव्यं प्रवीणैरुरसिजयुगले मन्द-सीत्का रयुक्तम् ।हन्वोरन्ते च नाम्नाच्छुरितकमुदितं कामभोगप्रधानम् ।कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ।द्वाःस्थे पिइगे कवौ रङ्गाजीवे ।कक्षाया अवेक्षकः ।कक्षावेक्षकः ।वाच्यलिङ्गः ॥ १ ॥
2.1 · p. 60
अनुष्टुप्two metres in one verse
अथ कटखादकः ।खादके काचकलशे शगालबलिपुष्टयोः ।कटं भृशं शवं वा खादति कटखादकः ।खादके वाच्यलिङ्गः ॥ २ ॥
2.2 · p. 60
अनुष्टुप्metre not read in every line
कृमिकण्टक चित्रायासुदुम्बरविडङ्गयोः ।कमीणां कण्टकं कृमिकण्टकम् ।चित्रा ओषधिः ।स्यागोजागरिकं भक्ष्यकारके मङ्गलेऽपि च ! गोजागरोऽस्त्यत्र गोजागरिकम् ।अतोऽनेकस्वरादितीकः ।भक्ष्यकारके वाच्यलिङ्गः ॥ ३ ॥
2.3 · p. 60
अनुष्टुप्metre not read in every line
चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि ।चिलति चिलः ।नाम्युपान्त्येति ।(५-१-५४) कः ।तं मीलयति-चिलमीलिका ।१. उपकारिका पिष्टभेदोपकारेशवेश्मसु ।कक्षा… पञ्चमः काण्डः* नवफलिका तु नवे नवरजास्त्रियामपि ।नागवारिको गणिस्थराजे राजेभहस्तिपे ॥ ५ ॥
2.5 · p. 60
metre not recognised
चित्रमेखले गरुडेऽप्यथ स्याव्यवहारिका ।लोकयात्रेङ्गुदीवर्द्धनीष्वथ बीहिराजिकः ॥ ६ ॥
2.6 · p. 60
metre not recognised
चीनान्ने कामलिकायामप्यथो शतपनिका ।स्याद्वचादूर्वयोः शीतचम्पको दीपतर्पणौ ॥ ७ ॥
2.7 · p. 60
अनुष्टुप्metre not read in every line
हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका ।मलिनमुखस्तु गोलायूले प्रेतेऽनले खले ॥ ८ ॥
2.8 · p. 60
metre not recognised
जलकरङ्कः स्यान्मेधे नालिकेरतरोः फले ।शंखे ।जलस्य करको जल करङ्कः ॥ ४ ॥
2.4 · p. 60
metre not recognised
नवफलिका तु नवे नवरजास्त्रियाम् ।नवफलमेव नवं फलं यस्या वा नवफलिका ।नागवारिको गणिस्थराजे राजेमहस्तिपे ।चित्रमेखले गरुडेऽपि ।नागान् वारयति नागवारिकः ।कुशकेति साधुः ।गणिस्थराजो वृक्षः ॥ ५ ॥
2.5 · p. 60
metre not recognised
चित्रमेखलो मयूरः ।अथ स्याव्यवहारिका ।लोकयात्रेङ्गुदीवर्द्धनीषु ।व्यवहरति व्यवहारिका ।वर्द्धनी सम्मार्जनी ।अथ वीहिराजिकः चीनान्ने कामलिकायामपि ।व्रीहिवद्राजयोऽस्य व्रीहि राजिकः ॥ ६ ॥
2.6 · p. 60
metre not recognised
कामलिका रोगविशेषः ।अथो शतपत्रिका ।स्याद्वचार्वयोः ।शतं पाण्यस्याः शतपबिका ।शीतचम्पको दीपतर्पणौ ।शीतश्चासौ चम्पकश्च शीतचम्पकः ।दीपे तपणे च ॥ ७ ॥
2.7 · p. 60
metre not recognised
हेमपुष्पकश्चम्पके ।हेमवर्णानि पुष्पाण्यस्य हेमपुष्पकः ।यथा-मधौ वनं राजति हेमपुष्पकैः ।हेमपुष्पिका एथिका ।पीतवर्णेति शेषः ।अथ खान्ताः ।मलिनमुखस्तु गोलाङ्गले प्रेतेऽनले खले ।मलिन मुखमस्य मलिनमुखः ।स्वले वाध्यलिङ्गः ।गोलाङ्गले यथा-मलिनमुखसहर्वेष्टयामास लङ्कां ॥ ८ ॥
2.8 · p. 60
metre not recognised
शीतमयूखः कपूरे चन्द्रे ।* मु. मू ।शङ्ख चललतायाच अलदायको मत्स्यके ।काकोच्या राजशफरे नवफलिका नूतने ।नवनातरजोनार्यामध्ययो नागवारिकः सुवसन्तक इत्येष वासन्त्या:मदनोत्सबे हेम.(४१६) अनेकार्थसंग्रहः सटीक : द्वितीयो विभागःशीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः ।विधावात्मनि रुद्रे च सर्वतोमुखमम्बु खम् ॥ ९ ॥
2.9 · p. 60
अनुष्टुप्metre not read in every line
कथाप्रसङ्गो वातूळे विषस्य च चिकित्सके ।नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ १० ॥
2.10 · p. 60
अनुष्टुप्
रतनारीचो मन्मथे शुनि स्त्रीणां च सीस्कृतौ ।ऋषभध्वजः प्रथमजिनेन्द्रे शशिशेखरे ॥ ११ ॥
2.11 · p. 60
metre not recognised
शीता मयूखा अस्य शीतमयूखः ।चन्द्रे यथा-सन्तोऽप्यसन्त इति चेत्प्रति-- भान्ति भानो भासावृते नभसि शीतमयूखमूख्याः ।अथ सर्वतोमुखः ।विधा वात्मनि रुद्रे च ।सर्वतो मुखमस्य सर्वतोमुखः ।विधौ ब्रह्मणि यथा-अथ सर्वस्य : धातारं सर्वे ते सर्वतोमुखम् ।सर्वतोमुखमम्बु खम् ॥ ९ ॥
2.9 · p. 60
metre not recognised
अम्बुनि यथा-- प्रभाते सोऽथ राजेन्द्रो वन्दित्वा सर्वतोमुखम् ।ख व्योम ॥ ९ ॥
2.9 · p. 60
अनुष्टुप्metre not read in every line
अथ गान्ताः ।कथाप्रसङ्गो वातूले विषस्य च चिकित्सके ।कथायां प्रसङ्गोऽस्य कथा प्रसङ्गः ।वाच्यलिङ्गः ।विषयस्य चिकित्सके-यथा कथाप्रसङ्गेन जनरूदाढता दनुस्मृताखण्डलसूनुविक्रमः ।तवाभिधानाचथते नताननः सुदुःसहान्मंत्रपदा दिवोरगः ।नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ।नाड्यां तरङ्गा अस्य नाडीतरङ्गः ।काकोलः काकः ।रतहिण्डकः कामुकः ।तत्र हिण्डके वाच्य लिङ्गः ॥ १० ॥
2.10 · p. 60
अनुष्टुप्two metres in one verse
अथ चान्ताः ।रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ ।रताय नारीमञ्चति रतनारीचः ।अणि पृषोदरादित्वात् ।अथ जान्तौ ।ऋषभध्वजः प्रथमजिनेन्द्र शशिशेखरे ।ऋषभो ध्वजोऽस्य ऋषभध्वजः ।द्वयोयथा-स श्रीमानृषभध्वजः प्रतिकलं स्वःश्रेयसायास्तु वः ॥ ११ ॥
2.11 · p. 60
metre not recognised
मुनिभेषजंफपमा अण्डा(४१७) मुनिभेषजस्त्वगस्तिपथ्यायो लडनेऽपि च ।दशनोच्छिष्टो निःश्वासे चुम्ब ने दन्तवाससि ॥ १२ ॥
2.12 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ष (wrong syllable); pāda 3, syllable 5 ष्टो (wrong syllable)
अवग्रहणं रीढायां रोधनेऽथाऽवतारणम् ।वस्त्राश्चलार्चने भूमावेशेऽथ पविदारणम् ॥ १३ ॥
2.13 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
दारणे युधि च परिभाषणं तु प्रजल्पने ।नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥ १४ ॥
2.14 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 यु (wrong syllable); pāda 3, syllable 5 न्दो (wrong syllable)
प्रासादवीथोवरण्डे मत्तहस्तिन्यपाश्रये ।मण्डूकपर्णोऽरलुकशोणकयोः कपोतने ॥ १५ ॥
2.15 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
स्त्वगस्तिपथ्यायां लङ्घनेऽपि च ।मुनीनां भेषजं मुनिभेषजम् ।अगस्तिपथ्या हरीतकीभेदः ।अथ टान्ताः ।दशनोच्छिष्टो निश्वासे चुम्बने दन्तवाससि ।दशनैरुच्छिष्टो दशनो च्छिष्टः ।चुम्बने यथा-रेवती दशनोच्छिष्टपरिपूतपुटे दृशौ ।दन्तवासाअधरः ॥ १२ ॥
2.12 · p. 60
metre not recognisednearly अनुष्टुप्
अथ शान्ताः ।अवग्रहणं रीढायां रोषने ।अवगृह्यते अवग्रहणं ।रीढा अवज्ञा ।अथा चतारणम् ।वस्त्राचलार्चने भूमावेशे ।अवतायते अवतारणम् ।वस्त्रांचला चने यथा--सामानिकादिदेवीभिः क्रियमाणोऽवतारणः ।अथ प्रविदारणम् ।दारणे युधि च ।प्रविदार्यते प्रविदार्यतेऽस्मिन्वा प्रविदारणम् ।द्वयोर्यथा-- बिभ्यति प्रविदारणात् ॥ १३ ॥
2.13 · p. 60
metre not recognised
परिभाषणं तु प्रजल्पने ।नियमे निन्दो पालम्भोक्तौ च ।परिभाष्यते परिभाषणम् ।निन्दायां उपालम्भस्योक्तिः ।त्रिष्वपि यथा-बाला इव प्रवर्त्तन्ते कृतेऽपि परिभाषणे ।अथो मत्तवारणः ।प्रासादवीथोवरण्डे मचहस्तिभ्याधये ।मत्तान् वारयति मत्तवारणः ॥ १४ ॥
2.14 · p. 60
metre not recognised
अपाश्रयो गवाक्षः ।त्रिवपि वशा-राजते राजवेश्मेदं सर्वतो मत्तवारणैः ।मण्डूक पर्णोऽरलुकशोणकयोः कपीतने ।मण्ड्कवापर्णान्यस्य मण्डूकपर्णः ।त्रयोऽपि(४१८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागःमण्डूकपर्णी मजिष्ठात्रीयो!जितिकोषधे ।स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके ॥ १६ ॥
2.16 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र्णी (syllables merged); pāda 4, syllable 3 द्ग (wrong syllable)
वातरायणः क्रकचे सायके शरसंक्रमे ।निष्प्रयोजननरे चापि, (चाप्य) अवलोकितमीक्षिते ॥ १७ ॥
2.17 · p. 60
metre not recognised
अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हारे ।अजितेऽपराजिता तु दुर्गा श्वेता जयन्त्यपि ॥ १८ ॥
2.18 · p. 60
metre not recognised
उपधुपित आसन्नमरणे धपितेऽपि च ।स्थागणाधिपतिर्विघ्ननायके पार्वतीपतौ ॥ १९ ॥
2.19 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 धु (wrong syllable)
मण्डूकपर्णी मजिष्ठात्रीयोर्गोंनिहि कौषधे ।पाककर्णेति डीः ।तिस्रोऽपि ओषधयः ।स्याद्रोमहर्षणाख्या तु रोमोद्गमें विभीतके ।रोमाणि हर्षयति रोमहर्षणम् ।रोमोद्गमे यथा--स्वेद बिन्दुततिलांछितालिकः सर्वतो विततरोमहर्षणः ॥ १६ ॥
2.16 · p. 60
metre not recognised
वातरायणः क्रकचे सायके शरसंक्रमे ।निष्प्रयोजननरे चापि ।वातमियर्ति वातरायणः ।विदनगगनेति (उ. २७५) साधुः ।सायको बाणः ।शरसंक्रमः शरसेतुः ।अथ तान्ताः ।अवलोकितमीक्षिते ।अवलोक्यते अवलोकितम् ।यथा- गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ १७ ॥
2.17 · p. 60
अनुष्टुप्metre not read in every line
अवलोकितस्तु बुद्धे ।बुद्भः सुगत विशेषः ।अपराचितोऽच्युते हारे ।अजिते ।न पराजीयते अपराजितः ।अजिते वाच्यलिङ्गः ।त्रिष्वपि यथा-त्रिलोकी रक्षिता येन स जयत्यपराजितः ।अपराजिता तु दुर्गा श्वेता जयन्त्यपि ।दुर्गा चण्डी, श्वेता गिरिकर्णिका ।जयन्ती ओषधिः ॥ १८ ॥
2.3355 · p. 60
metre not recognised
उपधुपित आसन्नमरणे धयितेऽपि च ।उप धूप्यते उपधूपितः ।वाच्यलिङ्गः ।स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ।गणानामधिपतिर्गणाधिपतिः ।विघ्ननायके यथा-सर्वविघ्नच्छिदे तस्मै गणाधि पतये नमः ।पार्वतीपतौ यथा-कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमि१. समुद्धरणं वान्तान्ने बलस्योद्धारणे प्रहे ।अव.पञ्चमः काण्डः(४१९)पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधे ।मूर्दाभिषिक्तः प्रधानक्षत्रियक्षितिपालयोः ॥ २० ॥
2.20 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
'यादसांपतिः पाश्यध्योः वसन्तदूत आम्रके ।पिके पञ्चमरागे वसन्तदूत्यति मुक्तके ॥ २१ ॥
2.21 · p. 60
अनुष्टुप्metre not read in every line
रौघजट क्षणमभ्यपद्यत जनैषा गगनं गणाधिपतिमूर्तिरिति ॥ १९ ॥
2.19 · p. 60
पृथिवी पतिस्तु भूपे कृतान्ते ऋषभौषधे ।पृथिव्यां पतिः पृथिवीपतिः ।भूपे यथा-स गण्डपाली बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ।मूर्द्धाभिषिक्तः प्रधानक्षत्रियक्षितिपालयोः ।मूर्द्धन्यभिषिच्यते स्म मूभिषिक्तः ।त्रिष्वपि यथा-मूभिषिक्तशतसंश्रितपादपद्मः ॥ २० ॥
2.20 · p. 60
metre not recognised
यादसांपतिः पाश्यन्ध्योः ।यादसां जलचराणां पतिर्यादसाम्पतिः ।बाहुलकादलुप् ।पाश, वरुणः, द्वयो यथा यादसांपतिरपारपयोभिः ।वसन्तदूत आम्रके पिके पञ्चमरागे ।वसन्तस्य दूत इव वसन्तदूनः ! त्रिष्वपि यथा-वसन्तदूतज्वरिता वियोगिनः ।वसन्तदूत्य तिमुक्तके ।पाटलायो ।अतिमुक्तको माधवी ॥ २१ ॥
2.21 · p. 60
metre not recognised