अङ्गीकार
aṅgīkāraपुं · masc.In 10 kośas: 10 synonym verses, 8 as a meaning of another word.
संवित्संधाऽऽस्थाऽभ्युपायः संप्रत्याङ्भ्यः परः श्रवः ।अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ २७८ ॥
अनुष्टुप्
genderपुंmasc.
संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः ।अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
संविदागूः प्रतिज्ञानं समाधिस्तु प्रतिश्रवः ।अङ्गीकारोऽभ्युपगमोऽप्यथ मोक्षोऽपुनर्भवः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
संवित्संधास्थाभ्युपायः संप्रत्याङ्भ्यः परः श्रवः ।अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
वितण्डा पक्षहीना धीर्व्यापादो द्रोहचिन्तनम् ।विमतिः प्रतिकूला धीरनुकूला तु सम्मतिः ॥विमतित्वं तु वैमत्यं वैमतं च नपुंसके ।स्त्रियां विमतिता भावे पुमान्विमतिमा मतः ॥एवं पञ्चैव रूपाणि सम्मतेर्भाव ईरयेत् ।अङ्गीकारः संश्रवः स्यादस्तुंकारः प्रतिश्रवः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
अङ्गीकाराभ्युपायास्थाः संधा संविच्च संश्रवः ।प्रतिश्रवाभ्युपगमौ प्रतिज्ञासंगराश्रवाः ॥ १९४ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गीकारोऽभ्युपायश्च स्यादभ्युपगमस्तथा ।गीतनृत्यवाद्ययुक्तं नाट्यं तौर्यत्रिकं भवेत् ॥ ४०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable)
genderपुंmasc.
आं प्रतिज्ञा प्रतिज्ञानं अङ्गीकारः प्रतिश्रवः ।ओम् समाधिः सम्बिदागूः स्त्रियामाश्रवसंश्रवौ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गीकारोऽभ्युपगमो नियमश्च प्रतिश्रवः ।आधिर्ना मानसी पीडा समाधिर्धर्मचिन्तनम् ॥ २७० ॥
अनुष्टुप्
genderपुंmasc.
संविदागूः प्रतिज्ञास्थाप्यभ्युपायः प्रतिश्रवः ।अंगीकाराभ्युपगमनियमाश्रवसंश्रवाः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
अङ्गीकार as a meaning in nānārtha verses
- धरणिकोश एवम्अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ Dharaṇikośa 34.15.4
- कोषकल्पतरु अनुमोदतेअङ्गीकारानुमत्योः स्यादनुपूर्वश्च मोदतिः । मनोहर्षे निर्वृणोति तथा तूषति तुष्यति ॥ २२ ॥ Koṣakalpataru 3.5.22
- कोषकल्पतरु उपावतिव्यवाद्व्यतिकरे य[197b]ब्घावन्तर्घौ दुर्गतौ निरः । समः संगति-सादृश्य-संविदाचरणे रणे ॥ समाभियानशपथे संपराभ्यां रणापदोः । अपादपगमेऽथोपादङ्गीकारोपहारयोः ॥ ३० ॥ Koṣakalpataru 3.5.30
- कोषकल्पतरु ज्ञाज्ञा तूपादादिबोधेऽनुसंधाने प्रत्यभेः परः । परेः परिचये स्फूर्तौ त्वङ्गीकारे च सं[216b]प्रतेः ॥ ४ ॥ Koṣakalpataru 3.5.4
- शब्दरत्नावली सङ्गरक्लीबन्तु प्रतियत्नान्तर्भावमानसकर्मसु । सङ्गरस्तु क्रियाकारे विषाङ्गीकारयोर्युधि ॥ Śabdaratnāvalī 7.27.109
- शब्दरत्नावली तथातथाङ्गीकारसदृशप्रतिवाक्यसमुच्चये ॥ Śabdaratnāvalī 8.1.35
- शब्दरत्नावली ओम्मा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
- शब्दरत्नावली अलम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50