कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

पातालकाण्डः · धातुवर्गः (5/5)

प्रत्याङः पुनरावृत्तौ परेरालिङ्गने मतः ।आङः समः पदद्वंद्वे रभिः कैश्चित्समीरितः ॥ ८० ॥
3.5.80 · p. 83
अनुष्टुप्
दहत्योषत्योलति च श्रेषति श्लेषतीत्यपि ।प्रोषति प्लोषति व्युष्यत्यपि प्लुष्यति कुण्डते ॥ ८१ ॥
3.5.81 · p. 83
अनुष्टुप्
शट[215a]ति स्यात्तापयति तपत्यपि च चूर्यते ।कूटयत्यपि दाहेऽथ संदाहे स्याद्दहिर्निरः ॥ ८३ ॥
3.5.83 · p. 83
अनुष्टुप्metre not read in every line
वेश्चातुर्ये[ऽथो]पशमे भवेच्छाम्यति दाम्यति ।सुनोति मद्यसंधाने सुनुते च प्रकीर्तितम् ॥ ८३ ॥
3.5.83 · p. 84
अनुष्टुप्
अभेः स्नाने सुनोतिः स्यात्स्वार्थेऽथोदः स उद्धवे ।कोपेच्छाप्रसवोत्सेके प्रारम्भे प्रपरो मतः ॥ ८४ ॥
3.5.84 · p. 84
अनुष्टुप्
क्षीबते कण्डते कण्डत्यपि स्यात्कडतीति च ।मठत्यपि मदे म्रेटत्युन्मादे म्रेडतीति च ॥ ८५ ॥
3.5.85 · p. 84
अनुष्टुप्
स्याद्गर्भग्रहणे वेति प्राणिगर्भमुचि त्विह ।स्यात्सूयते च सूतेऽथ श्वसित्यनिति जीवति ॥ ८६ ॥
3.5.86 · p. 84
अनुष्टुप्
प्राणित्यूर्जयति स्याच्च धुक्षते धिक्षते तथा ।बलति स्याद्बलयति तथा पियति लाट्यति ॥ ८७ ॥
3.5.87 · p. 84
अनुष्टुप्
जीवनेऽथो कृच्छ्रजीवे क्षञ्जति क्षञ्जयत्यपि ।तथा क्षञ्जयते तङ्कत्यपि स्यात्कठतीति च ॥ ८८ ॥
3.5.88 · p. 84
अनुष्टुप्
उदः श्वसिः समुच्छ्वासे निपरस्तद्विपर्यये ।आङो विस्रम्भणे वेस्तु विस्रम्भ-निभृतत्वयोः ॥ ८९ ॥
3.5.89 · p. 84
अनुष्टुप्
आङस्तङ्किर्व्यथाताप-शङ्कासु मुर[ज]ध्वनौ ।जन्म[215b]नि स्याद्रोहतीति प्रादुर्भावेऽपि रोहति ।खच्ञाति जायते हिठ्णात्यपि मूलयते भवेत् ॥ ९० ॥
3.5.90 · p. 84
अनुष्टुप्metre not read in every line
मूलयत्यवतस्तु स्यादधोयानार्थको रुहिः ।आङ आक्रम उच्छ्रायेऽध्याङोऽभ्यधिकतार्थकः ॥ ९१ ॥
3.5.91 · p. 84
अनुष्टुप्
गर्भग्रह-प्रसूत्योः प्राद्वेर्विकार-विजन्मनोः ।वन्दनेऽवादथोत्पत्ति-प्रसूत्योरभितो जनिः ॥ ९२ ॥
3.5.92 · p. 84
अनुष्टुप्
संस्कारे स्याद्वाजयति तदभावे तु कथ्यते ।श्वण्ठयते श्वण्ठयति श्वठयत्यपि कीर्तितः ॥ ९३ ॥
3.5.93 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ण्ठ (wrong syllable)
तथा शठयते श्वाठयते श्वठयतेऽपि च ।शठयत्यपि चाथ स्यादङ्कते चाङ्कयत्यपि ॥ ९४ ॥
3.5.94 · p. 85
अनुष्टुप्
लाञ्छति स्याल्लक्षयति तथाङ्गयति लच्छति ।तथा लक्षयतेऽमी स्युर्लक्षते चयतेऽपि च ॥ ९५ ॥
3.5.95 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्ल (wrong syllable)
वितो लक्षयतिर्हेतुशून्यास्यायां प्रकीर्तितः ।विक्रमे स्याच्छूरयते तथा वीरयते मतम् ॥ ९६ ॥
3.5.96 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छू (wrong syllable)
असिना हन्त्येतदर्थे भवेदसयतीति च ।इषुध्यतीषुधरणे मेधायत्याशु च ग्रहे ॥ ९७ ॥
3.5.97 · p. 85
अनुष्टुप्
मेधायां मेधति प्रोक्तं तथा मेदति मेदते ।ऊहते स्यात्स्यामयते तथा जोषयतीति च ॥ ९८ ॥
3.5.98 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स्या (wrong syllable)
जोष[216a]ति स्युर्वितर्केऽमी निरस्तृहिर्बहिष्कृतौ ।वितर्के निश्चये वेस्तु मतो रचन-संघयोः ॥ ९९ ॥
3.5.99 · p. 85
अनुष्टुप्metre not read in every line
प्रतेर्विघ्ने समो जन्म-संहत्योः संग्रहेऽपि सः ।अपाद्व्यावृत्तावयं स्यादूहतिस्तूपसर्गतः ॥ ५०० ॥
3.5.500 · p. 85
अनुष्टुप्
अकर्मा वा सकर्मा वा विकल्पेनात्मनेपदी ।विचिकित्सति संशेते संदिग्धे चारयत्यपि ॥ १ ॥
3.5.1 · p. 85
अनुष्टुप्
संदेहे स्युरथान्वेषे मार्गयत्यपि मार्गति ।मृग्यति स्यान्मृगयते गवेषयति गेषते ॥ २ ॥
3.5.2 · p. 85
अनुष्टुप्
तथैव ग्लेषतेऽन्विष्यत्यन्वेषयति च स्मृतः ।सवति स्यात्सौति तथाभ्यनुज्ञातार्थ ईरितम् ॥ ३ ॥
3.5.3 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सौ (wrong syllable)
विमृशति तु विचारयतिस्यादिह मीमांसते च विन्ते वा ।दीदांसते च दीदां-सति च भवेदार्जवे तद्वत् ।जानाति वेत्ति मनुतेऽवति मन्यते चस्याद्बुध्यते ज्ञपयतीह च वेणते च ।बोधत्यवैति कलयत्यवगच्छति स्या-ज्ज्ञाने तथा भवति वेद च वेणतीति ॥ ३ ॥
3.5.3 · p. 85
वसन्ततिलकाmetre not read in every line
ज्ञा तूपादादिबोधेऽनुसंधाने प्रत्यभेः परः ।परेः परिचये स्फूर्तौ त्वङ्गीकारे च सं[216b]प्रतेः ॥ ४ ॥
3.5.4 · p. 86
अनुष्टुप्metre not read in every line
अपह्नवेऽपादवतोऽवमाने चेतने समः ।हस्तादिनार्थव्यक्तौ च स्मृति-दर्शन-नामसु ॥ ५ ॥
3.5.5 · p. 86
अनुष्टुप्
अभेः स्मृतौ वेस्तु शास्त्रादिमतौ परिकीर्तितः ।अपाज्ज्ञा निह्नुतौ तङ्वानकर्मा परगे फले ॥ ६ ॥
3.5.6 · p. 86
अनुष्टुप्
संप्रतिभ्यामनौत्कण्ठ्ये केवलः कर्तृगे फले ।अनुं विना सनन्तो ज्ञा भवति ह्यात्मनेपदी ॥स्मृ-दृशौ च सनि प्रत्याङ्भ्यां विनाथ तथा श्रुतिः ।समो वेत्तिस्तङ्यथास्य झे स्यात्संविद्रते लटि ॥ ७ ॥
3.5.7 · p. 86
अनुष्टुप्
तथा संविदते संतस्त्विच्छायां मन्यतिर्मतः ।अनुज्ञानेऽनुतोऽभेस्तु गर्वप्रणयहिंसने ॥ ८ ॥
3.5.8 · p. 86
अनुष्टुप्
ज्ञानेच्छयोर्गारयते तूक्तं विज्ञानवाचकम् ।चेतति स्याद्वेदयते तथा चेतयते मतम् ॥ ९ ॥
3.5.9 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वे (wrong syllable)
स्याद्बोधते वेदयते वेदयत्यपि बोधति ।तथा चेतयते चेतयति स्युर्बोधनार्थकाः ॥ १० ॥
3.5.10 · p. 86
अनुष्टुप्
पश्यति निशामयतिनिशामयते च चायति च ।रूपयति लक्षयतेलक्षयतीक्षते निभालयति संवनति ॥ ११ ॥
3.5.11 · p. 86
metre not recognised
स्यादीषते[217a] [च] बुन्द-त्यपि दंसयते च दासयते ।बष्कयते बष्कयति चस्मृतं तथा धेकयत्यत्र ।लोकते लोचते निर्वर्णयत्यपि च बुन्दते ।चायते च प्रेक्षणे स्युर्नेर्दृशिः स्यादुदाहृतौ ॥ १३ ॥
3.5.13 · p. 86
अनुष्टुप्metre not read in every line
उदो विमर्शने कर्महीनस्त्वेष समस्तङि ।ईक्षिः कालहृतावुत्प्राद्विमर्शे स परेर्विदि ॥उपादुदासीनभावेऽपाल्लिप्सुत्वे निरः परः ।प्रयत्ने सादरालोके प्रात्तूत्प्रेक्षण-बोधयोः ॥अवात्प्रतिविधानेऽनोरालोचे संवियुक्पुनः ।गवेषे व्रजतिर्गत्यामुत्परः परिकीर्तितः ॥अथ चित्रयतीति स्यादद्भुतस्य प्रदर्शने ।स्याद्वेणते वेणति च तथा वेनति वेनते ॥ १४ ॥
3.5.14 · p. 87
अनुष्टुप्
स्मृतौ चिन्तयते चिन्तयत्यध्येति स्मरत्यपि ।ध्यायतिर्वेः क्षयेऽभेस्तु वाञ्छायां दुःस्मृतावपात् ॥ १५ ॥
3.5.15 · p. 87
अनुष्टुप्
निरो दृष्टौ सदा स्मृत्यामनोः प्रात्तीव्रचिन्तने ।सोत्कण्ठस्मरणे तु स्यात्स्मरयत्यपि कण्ठते ॥ १६ ॥
3.5.16 · p. 87
अनुष्टुप्
मण्ठते स्यात्कण्ठयति तथा कण्ठति च स्मृतम् ।कण्ठिः कण्ठयतिश्चोद औत्कण्ठ्ये[217b]परिकीर्तितौ ॥ १७ ॥
3.5.17 · p. 87
metre not recognised
ध्वनति रणति रौति क्षौति कौत्यम्भते स्या-दणति वणति मञ्जत्यम्बते रम्बते च ।मणति कणति पिञ्जत्यञ्जति क्नूयते चस्तनति वनति लञ्जत्यं[ह]यत्यंहति स्यात् ॥ १८ ॥
3.5.18 · p. 87
मालिनी
गजति गर्जति गञ्जति गृञ्जतिक्वणति कायति गायति नासते ।स्वरति मोजति मुञ्जति रासतेरसति तोसति रङ्घति लङ्घति ॥ १९ ॥
3.5.19 · p. 87
द्रुतविलम्बितम्
द्रेकते ध्रेकते रम्भते रेभतेलम्भते लम्बते रेभति स्त्यायति ।रंहयत्यत्र रंहत्यपि [त्रंसति]त्रंसयत्यत्र [ता]दृग्भवेद्भञ्जतिः ॥ २० ॥
3.5.20 · p. 87
स्रग्विणी
कवते खवते गवते घवतेङवते कुरति द्रुणति व्रणति ।धणति ध्रणति भ्रणति स्यमतिह्लसति ह्रसति ध्वनयत्यपि च ॥ २१ ॥
3.5.21 · p. 88
तोटकम्
पेटति वेटत्यमतिक्नूनाति स्याद्गृणाति गायति ।मार्जयति च मर्चयति चपाटयति स्याच्च पोटयति ॥ २३ ॥
3.5.23 · p. 88
metre not recognised
तुञ्जति तुञ्जयति स्या-न्मिञ्जयति तद्वच्च लोटयति ।मिञ्जति लुञ्जति लंषतिलुञ्जयति स्याच्च लञ्जयति ॥ ३३ ॥
3.5.33 · p. 88
metre not recognised
ह्वयति मिमीते रसति चम[218a]शति मिशत्यत्र भञ्जयति ।पिंसति लंषयति स्या-त्पिंसयति स्याच्च कुंसयति ॥ २४ ॥
3.5.24 · p. 88
metre not recognised
कुंसति दंशयति स्या-द्दंशति दंसत्यपीह दंसयति ।कुंशति कुंशयति स्या-द्घाटयति स्याद्रवीति घण्टयति ॥ २५ ॥
3.5.25 · p. 88
metre not recognised
बृंहति बृंहयति चबल्हयति वणति च चीवयति ।गोपयति च पोथयति[विच्छयते स्या]त्तथात्र विच्छयति ॥ २६ ॥
3.5.26 · p. 88
metre not recognised
लोचयति कोपयति चलोकयति स्यात्तथेह तर्कयति ।वर्तयति वर्धयति चरोटयति स्याच्च घोटयति ॥ २७ ॥
3.5.27 · p. 89
metre not recognised
नाटयति शीकयति चभृंशयति स्याच्च भृंशति स्तनति ।जोव(?)यति रङ्घयति च स्या-ल्लङ्घयति तथात्र मंहयति ॥ २८ ॥
3.5.28 · p. 89
metre not recognised
मंहति लण्डयति स्या-त्ताडयति स्याच्च नालयति ।गुजति च कुणति च कलतेस्वनति त्रंसत्यमी शब्दे ॥ २९ ॥
3.5.29 · p. 89
metre not recognised
प्रगुण्ये क्रमनिम्ने च प्रतो वणिरुदाहृतः ।वेर्लम्बिः कालयापे स्यादालम्बे त्वाङवान्मतः ॥ ३० ॥
3.5.30 · p. 89
अनुष्टुप्
स्पर्धायां स्यात्प्रतेर्गर्जिरुद्गै * सेवने मतः ।वेर्निन्दायामवाद्दृष्टो निर्वा[218b]दे वापि गर्हणे ॥ ३१ ॥
3.5.31 · p. 89
metre not recognised
स्वरतिः संपरस्तङ्वान्पद्यकर्मा भवेदयम् ।प्रत्यनुभ्यां गृणातिः स्याच्छब्दे प्रोत्साहनेऽपि च ॥ ३२ ॥
3.5.32 · p. 89
अनुष्टुप्
अभेः स्तुतिर्निगरणे स्तुवतः श्रवणेऽपि च ।उदः परो निगदने गृणातिः परिकीर्तितः ।निरः स्वनिः स्यात्पीडायां व्यवाभ्यां स्वनतिर्भुजि ॥ ३३ ॥
3.5.33 · p. 89
अनुष्टुप्
स्तनयति गदयति दैवेशब्दे संशब्दने तु कीर्तयति ।मानसशब्दे जपतिस्याद्भेदेऽसावुपात्पश्चात् ॥ ३३ ॥
3.5.33 · p. 89
metre not recognised
कोचति तारे शब्दे-ऽथोत्पूर्वोऽसौ रहोदाने ।वेगेऽथ गोपनोक्तौमन्त्रयते शाब्दिकैरुक्तम् ॥ ३४ ॥
3.5.34 · p. 90
metre not recognised
गद्गद्यति वाक्स्खलनेतूष्णीभावे तु कल्लते कथितम् ।म्लेच्छत्यसाधुशब्दे-ऽथाक्रन्दयतीह घोषयति ॥ ३५ ॥
3.5.35 · p. 90
metre not recognised
सांतत्येन च शब्देकुन्द्रति तु स्याच्च कुन्द्रयति ।कुन्द्रयतेऽनृतशब्देसंदेशोक्तौ तु वादयति ॥ ३६ ॥
3.5.36 · p. 90
metre not recognised
रवीति रवते रौति तिरश्चां शब्दिते मताः ।करिशब्दे बृंहति [स्यात् ] ह्रेषते हेषतेऽश्वजे ॥ ३७ ॥
3.5.37 · p. 90
अनुष्टुप्
भषति स्या[219a]द्बुक्कयति बुक्कति स्वनिते शुनः ।रिणाति रेषते च स्याद्वृकशब्देऽथ पायुजे ॥ ३८ ॥
3.5.38 · p. 90
अनुष्टुप्metre not read in every line
पर्दते शर्धते शब्दे कर्दतीति तु कुक्षिजे ।कासते हिक्कते हिक्कत्यपि कासादिशब्दिते ॥ ३९ ॥
3.5.39 · p. 90
अनुष्टुप्
द्राङ्क्षति ध्राङ्क्षति ध्वाङ्क्षतीमे शब्देऽतिदारुणे ।अव्यक्तशब्दे नदति प्रनर्दति च गर्दति ॥ ४० ॥
3.5.40 · p. 90
अनुष्टुप्
कूजति स्याद्गुञ्जति च गुवते क्षीजतीत्यपि ।शिङ्क्ते पिङ्क्ते मार्जयति म्लेच्छयत्यपि कीर्तिताः ॥वज्रनिष्पेषशब्दे तु स्फूर्जतीति प्रकीर्तितम् ।अथ देवयते प्रोक्तं परिकूजनवाचकम् ॥ ४१ ॥
3.5.41 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्गु (wrong syllable)
गदति वदति वक्ति ख्याति चष्टे ब्रवीतिश्वठयति शचते च ह्लापयत्याह तद्वत् ।रपति लपति च स्याद्घोषते भाषतेऽस्मि-ञ्छठयति वचति स्याद्वाचयत्येवमाहुः ॥ ४२ ॥
3.5.42 · p. 90
मालिनी
रटति रठति पठति भणतिकथयति जल्पति च वेदयति ।क्लापयति क्लपते च ।प्रव्यक्तायां स्मृता वाचि ॥ ४२ ॥
3.5.42 · p. 91
metre not recognised
अध्यापने नेर्गदिः स्याद[219b]थावाद्वदतिर्मतः ।आज्ञप्तिगर्हा विस्रम्भे निरः प्राकट्य-गर्हयोः ॥ ४४ ॥
3.5.44 · p. 91
अनुष्टुप्metre not read in every line
स्तुत्यभावे परेः सान्त्वगूढोक्त्योरपपूर्वकः ।अपादुत्सर्गबाधे स्याद्दूषणेऽथाभितो नतौ ॥ ४५ ॥
3.5.45 · p. 91
अनुष्टुप्
वेः स्याद्विरुद्धवचने वैमत्येऽनुकृतौ समः ।अनोः साम्येऽथ विप्राभ्यां विसंभ्यां च विसम्मितः ॥ ४६ ॥
3.5.46 · p. 91
अनुष्टुप्
वचने च वियोगे च तथा पूर्वविपर्यये ।संप्राभ्यां सहवादेऽथ तङ्वान्दीप्त्युपसान्त्वयोः ॥ ४७ ॥
3.5.47 · p. 91
अनुष्टुप्
ज्ञाने यत्ने च वैमत्ये स्यादुपच्छन्दनेऽपि च ।सदोच्चारे मनुष्याणामनोस्तादृगकर्मकः ॥ ४८ ॥
3.5.48 · p. 91
अनुष्टुप्
विरुद्धोक्तौ व्यक्तवाचां वदतिर्वात्मनेपदी ।प्राद्वचिः स्यात्प्रकथने निरो निर्वचने मतः ॥ ४९ ॥
3.5.49 · p. 91
अनुष्टुप्
ख्याक्षोपलम्भेऽपाङः स्यात्समश्चर्चाविधौ युधि ।****** गणनेऽभ्याङः स्यान्निराकृतौ ।आङः संकेतने प्रात्तु लपिर्दुष्टगिरि स्मृतः ॥ ५१ ॥
3.5.51 · p. 91
अनुष्टुप्metre not read in every line
अपात्प्रेमणि निह्नुत्यामाङः संभाषणे मतः ।द्वेषोक्तौ विप्रतो व्यर्थभाषणे वेस्तु शोचने ॥ ५२ ॥
3.5.52 · p. 91
अनुष्टुप्
आङो घुषिः सदा[220a]क्रन्दे क्रन्दनेऽपात्तु भाषतिः ।दोषे वेः स विरुद्धोक्तौ विकल्प उपसंयुतः ॥ ५३ ॥
3.5.53 · p. 91
अनुष्टुप्metre not read in every line
सान्त्वनोपच्छन्दनयोराङः संभाषणे परेः ।निन्दोपालम्भनियमशास्त्रसंकेतनेषु सः ॥ ५४ ॥
3.5.54 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छ (wrong syllable)
परेः पठिः क्रमेऽपात्तु दुष्टाध्ययनकर्मणि ।समः कथिर्मिथोवाचि प्रात्तु प्रख्यातिभाषणे ॥ ५५ ॥
3.5.55 · p. 92
अनुष्टुप्
अधीते स्याच्चर्चयति पठत्यध्ययनार्थकाः ।मनति स्याच्छीलयति चाभ्यस्यत्यभ्यसत्यपि ॥ ५५ ॥
3.5.55 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छी (wrong syllable)
क्रन्दते स्यादाह्वयति कन्दति क्लन्दतीत्यपि ॥ ५६ ॥
3.5.56 · p. 92
दायति क्रोशति तथा प्रोक्ता आह्वानवाचिनः ।अनोः क्रुशिः कृपायां स्यादाङः शापे पदद्वये ॥वेः पारुष्ये जुगुप्सायां तूपाङ्भ्यां स प्रकीर्तितः ।शप्यते शपते च स्यादाक्रोशे शपतीति च ॥ ५७ ॥
3.5.57 · p. 92
अनुष्टुप्
स्याद्बेटति तथाक्रोशे श[पि]र्मिथ्याभिशंसने ।अभेरथ कर्तृगोऽसावुपालम्भार्थकस्तङि ।जिज्ञासायां शिक्षते स्याज्ज्ञीप्सायां पृच्छति स्मृतम् ।समः पृच्छिर्विमर्शे स्यात्परिचित्यामथाङ्प[220b]रः ॥ ५९ ॥
3.5.59 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
न्यासे प्रश्ने प्रीती(?) स चेत्समस्तङ्वानकर्मकः ।तद्वदाङः सकर्मा स्यादतेः प्रश्नाग्रहे मतः ॥ ६० ॥
3.5.60 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ती (wrong syllable)
शृणोत्याकर्णयति च श्रवणेऽवति च स्मृतम् ।समः श्रुतिः प्रतिज्ञानेऽथाङ उक्तेरधीनके ॥ ६१ ॥
3.5.61 · p. 92
अनुष्टुप्
क्लेशे च वेस्तु संतोषे ज्ञान-ख्यात्योरपि स्मृतः ।कगति स्याद्वनति च क्रियासामान्यवाचकौ ॥ ६२ ॥
3.5.62 · p. 92
अनुष्टुप्
विशेषणे शिनष्टि स्यादञ्चयत्यपि चाञ्चति ।वितः शिषिः स्यादुत्कर्षे परेर्णिच्यवशेषणे ॥ ६३ ॥
3.5.63 · p. 92
अनुष्टुप्
उदस्त्यागेऽथ सुखने भन्दते मन्दतेऽपि च ।छन्दति ह्लादते सात[य]ति च वातयत्यपि ॥ ६४ ॥
3.5.64 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मृद्नाति स्यान्मृडयति मृडत्यपि च सुख्यति ।पृडति स्यात्सुखयति तद्वदेव समीरितम् ॥ ६५ ॥
3.5.65 · p. 92
अनुष्टुप्
सेधति सिध्यति राध्यतिफलति च राध्नोति साध्नोति ।सिद्धावेते गदितागत्यां साधिर्णिजन्तः स्यात् ॥ ६६ ॥
3.5.66 · p. 93
metre not recognised
अलंकृतौ साधयतिः प्रपूर्वोविपूर्वकोऽसौ परिवृत्तिवाची ।प्रतेः फलिः स्यात्परिणामवाचीवितः परोऽसावपि सिद्धिहानौ ॥ ६७ ॥
3.5.67 · p. 93
उपेन्द्रवज्रा
इ[221a]न्दति परमैश्वर्येऽथेष्टे वा तप्यते सुरति ।सौति सवत्यपि चेयंतप्यत इह पत्यते च स्यात् ॥ ६५ ॥
3.5.65 · p. 93
metre not recognised