कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मोक्ष

mokṣaपुं · masc.

In 18 kośas: 20 synonym verses, 7 as a nānārtha head word, 66 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.11
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.39
गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.124 · p. 15
कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.180 · p. 88
प्रयोज्यमेवं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।ब्रह्मभूयं स्त्रियां मुक्तिः पुंसि मोक्षापवर्गकौ ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.153 · p. 434
संविदागूः प्रतिज्ञानं समाधिस्तु प्रतिश्रवः ।अङ्गीकारोऽभ्युपगमोऽप्यथ मोक्षोऽपुनर्भवः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.33 · p. 4
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 154
कलिङ्गकः शक्रनामा स्यादथो मोक्ष-मुष्ककौ ।गोलीढो गोलिहो मुष्टिर्मुञ्चकः सूर्यकस्तथा ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.164 · p. 90
मुष्कके मूषको घण्टा झातलो मोक्षमुञ्चकौ ।पाटलिर्गोलिहः क्षारश्रेष्ठः, कृष्णः सितश्च सः ॥ १६४ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.150 · p. 27
ब्रह्मभूयं ब्रह्मभावे देवभूयादिकं तथा ।अमृतत्वं तु कैवल्यं मुक्तिर्मोक्षो[ऽपुनर्]भवः ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.266 · p. 85
कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः ।मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.68 · p. 10
वाल्मीकं कठिनं शाम्बं लोहितं ऋजु मङ्गलम् ।चाक्षुषं भासुरं मोक्षं तेजोमयमरिंदमम् ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.148 · p. 34
मोक्षोऽपवर्गो निर्वाणं मुक्तिर्निःश्रेयसं शिवः ।महोदयोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.48 · p. 7
महानन्दोऽमृतं मुक्तिः मोक्षो ब्रह्म महोदयः ।श्रेयो निःश्रेयसं सिद्धिः कैवल्यमपुनर्भवः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.328 · p. 23
या बुद्धिः शिल्पशास्त्रादौ विज्ञानं तत् प्रकीतितम् ।मुक्तिर्निःश्रेयसं श्रेयः कैवल्यममृतं परम् ।मोक्षोऽपवर्गो निर्वाणं मुक्तिपर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.80 · p. 63
पाटलिः पाटली घण्टा घण्टापाटलिरित्यपि ।घण्टाको झाटलो झाटो गोलीटमोक्षमूष्ककाः ।तिलकं क्षुरकं श्रीमान् त्रयं तिलकभूरुहे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.275 · p. 37
मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् ।मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.488 · p. 64
समानाः स्युः परिव्याधकर्णिकारद्रुमोत्पलाः ।घण्टा तु पाटलिर्मोक्षमुष्कगोलीढझाटलाः ॥ ४८८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नाट्यवर्गः Trikāṇḍaśeṣa 1.6.11 · p. 23
दुःखलोको भवश्चैव संसारः कष्टचारकः ।निर्वाणमन्तको मोक्षः शीतिभावः शमोऽमृतम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.238 · p. 102
अमृतत्वं तु कैवल्यं मुक्तिमोक्षोऽपुनर्भवः ।मोक्षावलंबिनः प्रायः पाषण्डा बाह्यलिंगिनः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.812 · p. 93
नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
आर्या
meanings
धरणिकोश Dharaṇikośa · धरणिदास क्षार्धश्लोकः Dharaṇikośa 33.2.2 · p. 232
मोक्षौ मोचननिर्वाणौ मोक्षो घण्टाख्यपाटलिः ।रूक्षो वृक्षप्रभेदः स्याद्रूक्षोऽप्रेमण्यचिक्कणे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.54 · p. 374
वस्त्रे च भित्तावथ वीक्षमीक्ष्ये-द्भुतेऽथ मोक्षो नरि मुष्ककद्रौ ।निःश्रेयसे मोचनवाचकोऽथरूक्षस्तु वृक्षे त्रिषु हार्दही[85b]ने ॥ ५४ ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.95 · p. 29
गृहाख्यसोमपात्राणामेकस्मिन् यज्ञकारिणाम् ।माथस्तु मथने मार्गे मोक्षस्तु स्याद्विमोचने ॥ ९५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.96 · p. 29
अपवर्गे च मृत्यौ च मुष्कराख्यद्रुमान्तरे ।मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ॥ ९६ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.11 · p. 292
भिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि ।माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् ।मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.47 · p. 217
मृगस्तु मृगशीर्षेऽपि मोक्षो मृत्यौ मरुद्गिरौ ।यन्ता हस्तिपके सूते यज्ञोऽग्न्यात्महरीष्टिषु ॥ ४७ ॥
अनुष्टुप्

मोक्ष as a meaning in nānārtha verses