प्रतिज्ञा
pratijñāस्त्री · fem.In 13 kośas: 10 synonym verses, 2 as a nānārtha head word, 38 as a meaning of another word.
संवित्संधाऽऽस्थाऽभ्युपायः संप्रत्याङ्भ्यः परः श्रवः ।अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ २७८ ॥
अनुष्टुप्
genderस्त्रीfem.
आगूः सङ्गरसन्धाप्रतिश्रवाः संश्रवः प्रतिज्ञा च ।हेला स्यादवहेलं रीढावज्ञावलीढा च ॥ ७१५ ॥
आर्या
genderस्त्रीfem.
संवित्संधास्थाभ्युपायः संप्रत्याङ्भ्यः परः श्रवः ।अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
आश्रवश्चाभ्युपगमोऽभ्युपायो नियमोऽपि सः ।संगरो ना प्रतिज्ञाऽऽगूः संवित्संधा-तुरः (गुवः?) स्त्रियः ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गीकाराभ्युपायास्थाः संधा संविच्च संश्रवः ।प्रतिश्रवाभ्युपगमौ प्रतिज्ञासंगराश्रवाः ॥ १९४ ॥
अनुष्टुप्
genderस्त्रीfem.
वाचा संधा प्रतिज्ञागूः संगरः संविदाश्रवः ।आम्नायः संप्रदायश्च गुरुक्रमः परंपरा ॥ १२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
genderस्त्रीfem.
अथाऽऽस्था संश्रवः सन्धा संवित् प्रतिश्रवाऽऽश्रवौ ।आगूश्चापि प्रतिज्ञा वै समाधिः सङ्गरस्तथा ॥ ४०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderस्त्रीfem.
आं प्रतिज्ञा प्रतिज्ञानं अङ्गीकारः प्रतिश्रवः ।ओम् समाधिः सम्बिदागूः स्त्रियामाश्रवसंश्रवौ ॥
अनुष्टुप्
genderस्त्रीfem.
आकारः सत्त्वजो भाव आकूतं चेङ्गितं समे ।आगूः संवित्प्रतिज्ञा च संगरः संश्रवाश्रवौ ॥ २६९ ॥
अनुष्टुप्
genderस्त्रीfem.
संविदागूः प्रतिज्ञास्थाप्यभ्युपायः प्रतिश्रवः ।अंगीकाराभ्युपगमनियमाश्रवसंश्रवाः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
अनोर्निगरणेऽथोदो गिरतिस्तद्विपर्यये ।समः संवित्प्रतिज्ञाजिविपत्सु परिकीर्तितः ।समोऽभ्युपगमे तङ्वानवादपि परस्तथा ॥ ७ ॥
अनुष्टुप्
meanings
अतेर्गुरिः प्रतिज्ञाया[211b]माशृणोति मुणत्यपि ।प्रतिजानात्यागुरते प्रतिज्ञायाममी मताः ॥ २९ ॥
metre not recognised
प्रतिज्ञा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् बाढभृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥ Amarakośa 3.3.44
- नामलिङ्गानुशासनम् सन्धासन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा ॥ १०२ ॥ Amarakośa 3.3.102
- नामलिङ्गानुशासनम् सङ्गरमुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ १६६ ॥ कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः । Amarakośa 3.3.316
- धरणिकोश बाढसोढा स्यान्मर्षितः शक्तो वोढा भारिकमूढयोः । मूढस्तु मुग्धजडयोः बाढं भृशप्रतिज्ञयोः ॥ Dharaṇikośa 13.1.1
- धरणिकोश संविद्संविदाजौ प्रतिज्ञायामाचारज्ञाननामसु । संभाषणे क्रियाकारे संकेते तोषणेऽपि च ॥ Dharaṇikośa 17.3.5
- धरणिकोश नियमकलमो लेखनी चैव शालीनां वाचकः पृथक् ? । नियमस्तु प्रतिज्ञायां यन्त्रणे निश्चये व्रते ॥ Dharaṇikośa 24.2.13
- कोषकल्पतरु प्रादधातिस्मृत्यामभिसमोऽनोः संप्रतेश्चालोचने दृशि । प्रतिनेः सदृशत्वे प्रात्प्रतिज्ञामुख्ययोः समः ॥ ७० ॥ Koṣakalpataru 3.5.70
- कोषकल्पतरु उपादधातिसम्यक्कृतौ प्रतिज्ञायामुपाङो धर्मचिन्तने । कैतवोपप्लवारोप-सयोजन-वियोजने ॥ ७३ ॥ Koṣakalpataru 3.5.73
- कोषकल्पतरु आतिष्ठतेप्रात्तिष्ठतिर्गतावाङः प्रतिज्ञालम्बनाक्रमे । आक्षेप-स्थान-यत्नेषु प्रत्यवाद्गदने गिरः ॥ ९३ ॥ Koṣakalpataru 3.5.93
- कोषकल्पतरु आतिष्ठतेतद्वदाङः प्रतिज्ञायां व्यवसंप्रपरस्तथा । उदोऽप्यनूर्ध्वचेष्टायां तूपतो देवपूजने ॥ ९९ ॥ Koṣakalpataru 3.5.99
- कोषकल्पतरु अथोअथो अथानन्तरमङ्गलोप- क्रमप्रतिज्ञासकलत्ववाचि । प्रश्नेऽधिकारेऽपि च संशये च यथा पदार्थानतिवृत्तिवाचि । स्वीकारसादृश्यविनिर्णयेषु समुच्चये प्रश्नविधावपिः स्यात् ॥ ९८ ॥ Koṣakalpataru 5.1.98
- कोषकल्पतरु बाढदृढः प्रगाढेऽतिशये भृशेऽस्त्री । स्थूले सम[277b]र्थेऽविनये त्रिषु स्या- द्बाढं प्रतिज्ञादृढयोस्तथान्त्ये ॥ ९३ ॥ Koṣakalpataru 6.14.93
- कोषकल्पतरु नियमयमे प्रतिज्ञासु च यन्त्रणायां वेदे पुरे स्यान्निगमः कटे च । वणिक्पथे वाणिजके तथोक्तो- ऽथो[33b]नैगमो वाणिजनागरार्थः ॥ ८५ ॥ Koṣakalpataru 6.25.85
- कोषकल्पतरु सन्ध्याव्याधेऽद्रिभेदे गदित[39a]श्च विन्ध्यः स्त्रियां लवल्यामवधौ तु सन्ध्या । चिन्ताप्रतिज्ञाकुसुमान्तरेषु पितृप्रसूसन्धिसरिद्गता च ॥ ५२ ॥ Koṣakalpataru 6.26.52
- कोषकल्पतरु सङ्गरहस्तिहस्ताग्रके द्वीपतीर्थान्तरे वारिजे चौषधेऽसेः फले सायके । पुंसि रागो[रगे]वृष्णिपक्ष्यन्तरे सङ्गरस्तु प्रतिज्ञाक्रियाकारयोः ॥ ३२ ॥ Koṣakalpataru 6.27.32
- नानार्थार्णवसंक्षेप आस्थाप्रतिज्ञायत्नतात्पर्यगोष्ठीषु स्यादथापरे । आह्वा कण्ठे कथायां चेत्याहुराह्वा तु नामनि ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 2.1.7
- नानार्थार्णवसंक्षेप सन्धिउपांशु यच्च क्रियते स्वेष्वनीकेषु विग्रहे । सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥ Nānārthārṇavasaṃkṣepa 2.1.112
- नानार्थार्णवसंक्षेप संविद्चतुर्विंशतिरात्रे द्वे तयोः पूर्वत्र संसदः । संविद्युद्धे प्रतिज्ञायां सङ्केताचारनामसु ॥ ११५ ॥ Nānārthārṇavasaṃkṣepa 2.1.115
- नानार्थार्णवसंक्षेप बाढक्लीबं त्वनुमतौ च स्यात् प्रतिज्ञाया च धिक् पुनः । अवश्यमर्थे देवानांप्रियः प्राह हलायुधः ॥ ८५७ ॥ Nānārthārṇavasaṃkṣepa 2.5.857
- नानार्थार्णवसंक्षेप नियमआज्ञायां च प्रतिज्ञायां व्रतनिश्चययोरपि । निवहस्तु समूह स्याद् वायुस्कन्धान्तरेऽपि च ॥ ११८ ॥ Nānārthārṇavasaṃkṣepa 3.2.118
- नानार्थार्णवसंक्षेप आस्थानगजस्य स्कन्धदेशे च स्यादास्थानी तु नप्स्त्रियोः । सदस्यथ प्रतिज्ञायां क्लीबमाक्रमणेऽपि च ॥ १८१ ॥ Nānārthārṇavasaṃkṣepa 4.181
- नानार्थार्णवसंक्षेप सङ्गरसङ्गरस्तु प्रतिज्ञायां क्रियाकारे च नापदि । युद्धे विषे तु रभसः क्लीबं तु स्याच्छमीफले ॥ १८७३ ॥ Nānārthārṇavasaṃkṣepa 4.1873
- नानार्थार्णवसंक्षेप समाधिप्राणिद्यूते प्रतिज्ञायां तुल्यत्वे भेद्यवत् पुनः । सम आधिर्भवेद्यस्य तत्र स्यात् तु द्वयोरयम् ॥ १९३० ॥ Nānārthārṇavasaṃkṣepa 4.1930
- शब्दरत्नावली बाढदृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः । माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने ॥ मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः । बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः ॥ व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥ Śabdaratnāvalī 7.14.3
- शब्दरत्नावली संविद्षड्बिन्दुः पुण्डरीकाक्षे कीरभेदे च पुंस्ययम् । सम्पत्स्त्री तु गुणोत्कर्षहारभेदविभूतिषु ॥ सम्बित् ज्ञाने प्रतिज्ञायामाचारे युधितोषणे । क्रियाकारे समाधौ च तथा सम्भाषणे स्त्रियाम् ॥ Śabdaratnāvalī 7.18.22
- शब्दरत्नावली सन्धासन्धा स्थितौ प्रतिज्ञायां सन्धानेऽपि च कुत्रचित् । स्पर्धा क्रमोन्नतो साम्ये तथा संहर्षणे स्त्रियाम् ॥ Śabdaratnāvalī 7.19.16
- शब्दरत्नावली नियमनिगमो वाणिजे वेदे कटे पूर्यां वणिक्पथे । नियमश्च प्रतिज्ञायां मन्त्रणानिश्चयव्रते ॥ Śabdaratnāvalī 7.25.37
- शब्दरत्नावली सर्वथायथा तुल्येऽनुमाने च प्रशंसायामपीष्यते । वृथा निष्कारणे व्यर्थे तथा निष्फलचालने ॥ अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते । सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते ॥ Śabdaratnāvalī 8.1.36
- शब्दरत्नाकर आस्थाअधिष्ठाने चित्तदुःख आस्था गोष्ठीप्रतिज्ञयोः । तत्परत्वेऽवलम्बेऽथ शुभवाक्याहिदंष्ट्रयोः ॥ १८७३ ॥ Śabdaratnākara 4.1.1873
- शब्दरत्नाकर संविद्मृतिव्यवस्थयोः संस्था सभा तु द्यूतसंसदोः । संवित् संकेतसमयप्रतिज्ञाचारनामसु ॥ २०२४ ॥ Śabdaratnākara 4.1.2024
- शब्दरत्नाकर नियमनिश्चयाज्ञाप्रतिज्ञासु नियमो यन्त्रणे व्रते । नितम्बः पश्चिमश्रोणिभागेऽद्रिकटकेऽपि च ॥ २११२ ॥ Śabdaratnākara 4.1.2112
- शब्दरत्नाकर संगरबदरे देशभेदे ना स्यन्दनो रथवृक्षयोः । संगरस्तु प्रतिज्ञायां विपत्त्यां सांपरायिके ॥ २१८४ ॥ Śabdaratnākara 4.1.2184
- वैजयन्ती आस्थाआस्था गोष्ठ्यां प्रतिज्ञायां तत्परत्वेऽवलंबने । आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोः ॥ २ ॥ Vaijayantī 6.2.2
- वैजयन्ती संविद्शय्या तल्पे ग्रन्थगुंफे शंसा तु स्तववाक्ययोः । संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु ॥ ४१ ॥ Vaijayantī 6.2.41
- वैजयन्ती सन्धासन्धावधौ प्रतिज्ञायां सातिर्दानावसानयोः । सीमसीमे तु कूलेऽपि स्थानमर्यादयोः स्थितिः ॥ ४४ ॥ Vaijayantī 6.2.44
- वैजयन्ती नियमप्रतिज्ञायन्त्रणाज्ञासु नियमो निश्चये व्रते । पतंगः शलभे शालौ मार्जारेऽग्नौ रवौ खगे ॥ ४० ॥ Vaijayantī 7.1.40
- वैजयन्ती समाधिस्थापत्येऽधिपतौ तक्ष्णि बृहस्पतिसवी च यः । समाधिर्ध्याननीवाकप्रतिज्ञासु समर्थने ॥ ८१ ॥ Vaijayantī 7.1.81
- वैजयन्ती संगरसंगरो ना क्रियाकारे प्रतिज्ञाविपदोर्युधि । शमीफले तु षण्डोऽथ संबाधौ योनिसंकटौ ॥ ९२ ॥ Vaijayantī 7.5.92