अम्भोधि
ambhodhiपुं · masc.In 7 kośas: 2 synonym verses, 6 as a meaning of another word.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderपुंmasc.
समुद्रः सागरः कन्धिः पयोधिर्जलशेवधिः ।नदीनः सिन्धुरम्भोधिः पयस्वान्पवनानुगः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
अम्भोधि as a meaning in nānārtha verses
- धरणिकोश यादसांपतिमूर्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च । यादसांपतिरम्भोधिः प्रचेता यादसांपतिः ॥ Dharaṇikośa 15.2.86
- नानार्थार्णवसंक्षेप अर्णवअथ त्र्यक्षरपुंल्लिङ्गशब्दाध्यायः प्रणेष्यते । अथ पुंस्यर्णवोऽम्भोधौ तथा षण्णवतिस्वरे ॥ १ ॥ Nānārthārṇavasaṃkṣepa 3.2.1
- नानार्थार्णवसंक्षेप रत्नाकरधर्मपुत्रेऽपि शक्रेऽथ रत्नाकर इति ध्वनिः । रत्नानामाकरेऽम्भोधौ रञ्जसानस्तु वारिदे ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 6.102
- शब्दरत्नाकर अप्पतिअयाचिते जले मोक्षे त्रिषु स्यात् स्वादुनित्ययोः । अप्पती वरुणाम्भोधी अगस्त्यौ मुनिपादपौ ॥ २०३७ ॥ Śabdaratnākara 4.1.2037
- तन्त्राभिधान कवर्गाद्यश्च मु(सु)खं ब्रह्मा सखाम्भोधिः शिरो(वो) जलम् । माहेश्वरी तुला पुष्पं(ष्पा) मङ्गलश्चरणं करः ॥ ५८ ॥ Tantrābhidhāna 2.18.58
- वैजयन्ती अविषअविषो निर्विषेंऽभोधावविषी दिवि पुंसि वा । अपानो देहजो वायुरपानं वृषणे गुदे ॥ १२ ॥ Vaijayantī 7.5.12