कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

काय

kāyaपुं · masc.

In 17 kośas: 25 synonym verses, 9 as a nānārtha head word, 29 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.290 · p. 16
कायः कोलम्बकस्तस्या उपनाहो निबन्धनम् ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.673 · p. 34
मूलेऽङ्गुष्ठस्य स्याद्ब्राह्मं तीर्थं कायं कनिष्ठयोः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्य (wrong syllable); pāda 3, syllable 5 न्य (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.115 · p. 55
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.7
कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.122
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ।गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
अनुष्टुप्
genderपुंक्लीm. n.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.50
अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.510 · p. 58
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
उपजातिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.130 · p. 34
अङ्गं क्लीबे तनुः सान्तं गात्रं पञ्जरमस्त्रियाम् ।स्कन्धश्च संचरो न स्त्री शरीरं कायमस्त्रियाम् ॥ १३० ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.135 · p. 83
कात्यायनो वररुचिः कायोऽपि च पुनर्वसुः ।मेधापर्यायजिच्चाथ व्याडिर्विन्ध्यनिवास्यपि ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.61 · p. 14
कायं कदेवताकं स्यात्प्राजापत्यं भवादिषु ।स्वायंभुवं च दक्षस्तु मारिषेयश्च वैधसः ॥ ६१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 213
पिण्डोऽस्त्री विग्रहः कायः सरः (संचरः) स्कन्धपञ्चरः (रौ) ।अप्तुर्घनो भूघनोऽङ्गमिन्द्रियायतनं पुरम् ॥ ४४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.98 · p. 242
अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूलेकायम् ।मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् ॥ ९८ ॥
metre not recognised
genderक्लीneut.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderपुंmasc.
एतान् शब्दान् यथासङ्ख्यं स्त्रीपुन्नपुंसकेषु विद्धि । इयं तनुः । अयं कायः । इदं शरीरम् । दधिसक्थ्यस्थिशब्दा नपुंसके स्युः । यथा इदं दधि क्षीरविकारः । इदं सक्थि उर्वोर्मध्यम् । इदमस्थि कीकसम् । कक्षाशब्दः स्त्रियां भवेत् यथा इयम् कक्षा बाहुमूलम् । अन्यच्च । "जघनाभरणे स्त्रीणां करीणां मध्यबन्धने । अवस्थासु च हर्म्यानां नित्यं कक्षा व्यवस्थिता ।"सुमनोऽप्सरोविरहितमद्व्यच्कमसन्तन्तु पुंसि स्यात् ।द्व्यच्कं पुनर्नपुंसकप्रकृतादन्यत्र वै जरसः ॥ २४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 38 · p. 18
सवित्री जननी माता जनकः सविता पिता ।देहापघनकायाङ्गं वपुः संहननं तनुः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.228 · p. 129
विग्रहः संचरो वेरं मूर्तिः कायघनावपि ।क्षेत्रगात्रशरीराणि वर्ष्मसंहनने समे ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.238 · p. 55
अङ्गुल्यग्रगतीथ तु दैवं तु परिकीर्तितम् ।एवं कायं च पैत्र्यं च ब्राह्मं च ब्रह्मभूयकम् ॥ २३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 थ (wrong syllable)
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.19 · p. 21
शरीरं विग्रहो देहो गात्रं क्षेत्रं तनुस्तनूः ।अङ्गः कायो वपुर्वर्ष्म मूर्तिर्वेरं कलेवरम् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.901 · p. 136
अङ्गं गात्रं तनुः क्षेत्रं तनूः संहननं सिनम् ।वपुश्च पुद्गलः पिण्डः कायः प्रजनुकः पुरम् ॥ ९०१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1400 · p. 221
क्रमः कल्पो विधिश्चापि कल्पसंज्ञा त्रयं भवेत् ।अङ्गुष्ठमूलं ब्राह्मं स्यात् तीर्थं कायकनिष्ठयोः ॥ १४०० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.265 · p. 100
क्षेत्रं तलुः कुलं पिण्डं कन्धं स्कन्धं कलेवरम् ।द्वेऽस्त्रियौ कायदेहौ च तनूर्मूर्तिस्तनुः स्त्रियः ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1060 · p. 132
देहोऽस्त्री विग्रहः कायः पिण्डो मूर्तिस्तनुस्तनूः ।वपुः संहननं वर्ष्म गात्रं क्षेत्रं कलेवरम् ॥ १०६० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1178 · p. 145
द्यावापृथिव्यवायव्यकायपित्र्याग्निवारुणाः ।अग्निषोम्यसुनासीर्यशुक्रीयाग्नेयसौम्यकाः ॥ ११७८ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.53 · p. 177
बन्धः प्रजानुकः कायो भूघनः संचरोऽपि च ।प्राया वयांस्यस्य दशास्तारुण्यं यौवनं वयः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.6 · p. 151
कायः शरीरे लक्षे च संघाते ब्रह्मदैवते ।प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.6 · p. 287
धवे मनोज्ञे त्रिषु वृद्धिवल्ल्यांस्त्रियां स्वभावे तु तनौ च कायः ।संघे च लक्ष्ये परवत्कदैवेक्लीबे नृतीर्थेऽप्यथ सायमस्त्री ।प्रियो धवे सुन्दरवाचकश्चवृद्ध्यौषधौ मानवतीर्थके तु ।देहे च शङ्खे निकरे च कायोलक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.194 · p. 59
वाराणस्यामथो कायः शरव्ये निवहे तनौ ।ना त्रिः कदेवते क्षारः पुनः क्षरणभस्मनोः ॥ १९४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.105 · p. 174
कारा बन्दिजनागारे कुष्ठं भेषजरोगयोः ।कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.10 · p. 257
कायो मूर्त्तौ स्वभावे च संघे लक्ष्ये कदैवते ॥
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.11 · p. 257
पुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि ।क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् ।कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि ।कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु ।कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् ।गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्य (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1898 · p. 231
मत्सरे सुरभौ तिक्ते चोषणे च कटुस्त्रिषु ।कोक ईहामृगे चक्रे कायो देहे कदैवते ॥ १८९८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.308 · p. 198
उदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे ।कायः स्वभावे लक्ष्ये च सङ्घे मूर्त्तौ कदैवते ॥ ३०८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.17 · p. 231
कोला चव्येऽस्त्रपिप्पल्योः कोलः खंजे प्लवे किटौ ।कायो लक्ष्ये तनौ बृन्दे पुमांस्त्रिषु कदैवते ॥ १७ ॥
अनुष्टुप्

काय as a meaning in nānārtha verses