कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यज्ञ

yajñaपुं · masc.

In 17 kośas: 21 synonym verses, 3 as a nānārtha head word, 56 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.820 · p. 33
यज्ञो यागः सवः सत्त्रं स्तोमो मन्युर्मखः क्रतुः ।संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वरः ॥ ८२० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.13
यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.414 · p. 48
यागो यज्ञः क्रतुः स्तोमः सप्ततन्तुर्मखोऽध्वरः ।वितानं संस्तरो बर्हिः सवः सत्त्रं च कथ्यते ॥ ४१४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.57 · p. 75
अन्योन्यं श्लोकपठनं प्रतिमाला स्त्रियां च सा ।यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.11 · p. 377
द्युः कः कर्कश्च दस्मश्च शोणो धिष्ण्यश्च भास्करः ।तुत्थः श्रेष्ठश्च यज्ञश्च तमोहा हौमिरेधतुः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.1 · p. 451
यज्ञो नारायणः कुन्दो वैकुण्ठो विष्टरश्रवाः ।पीताम्बरो हृषीकेशः केशवो माधवः स्वभूः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.64 · p. 468
उडीशकुशकोटीशकुल्माषाणां वृषस्य (च) ।यज्ञनिर्यूहकलहनिःकुहाहसनस्ततः ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.36 · p. 235
यज्ञः सवोऽध्वरो यागो वसुरोचिर्मखः क्रतुः ।मन्युः स्तोमः संस्तरश्च संचाय्यः सप्ततन्तुकः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.121 · p. 23
क्षणः पर्व च कल्याणं मधुपर्कं तु निष्टकम् ।यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.127 · p. 24
अहीना द्वादशाहान्वान्सत्रादूर्ध्वं स तु द्वयम् ।सर्वेऽमी यज्ञक्रतवस्त एवैन्द्राः प्रजागमाः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.52 · p. 8
श्रीपतिर्गोपतिर्गोप्ता हीरो हंसः पुरातनः ।यज्ञः सम्राड्यजः प्राज्ञः सर्वज्ञः सर्वतोमुखः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.86 · p. 12
उशीरः सुषिरो धूमकेतुर्यज्ञश्च पिङ्गलः ।वामनो दहनश्चिन्त्यः कामारिश्च प्रजापतिः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.112 · p. 8
पितृयज्ञः स्वधावर्त्तः श्राद्धं पिण्डनिपातनम् ।सप्ततन्तुः क्रतुर्यज्ञोऽध्वरो यागोऽग्नितर्पणम् ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.5 · p. 35
यज्ञो यागः क्रतुः सत्रं सप्ततन्तुर्मखोऽध्वरः ।होमो होत्रं वषट्कारो हवनं देवतर्पणम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1367 · p. 217
यज्ञो यागो मखो मन्युः स्तोमश्च संस्तरः सवः ।सप्ततन्तुः क्रतुः सत्रं वितानं बर्हिरध्वरः ॥ १३६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.25 · p. 112
यज्ञो यागः सप्ततन्तुरिष्टिरिष्टं मखः क्रतुः ।वितानमध्वरो मन्युराहवः सवनं सवः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1171 · p. 144
ब्रह्माग्रजन्मा यज्ञस्तु सप्ततन्तुः सवः क्रतुः ।हवोऽध्वरो मखो यागो वितानं सवनं समे ॥ ११७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1771 · p. 214
---[अभि]तपा यज्ञो वातजूतिः सदापृणः ।नारायणः [शि]खण्डिन्यौ पूरुः कुत्सो बृहद्दि[वः] ॥ १७७१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.63 · p. 88
यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ।षट्कर्माणि महायज्ञा देवयज्ञादिपंचकम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.82 · p. 89
अधीतसांगवेदो यस्सोऽनूचानो युगी गणिः ।यज्ञो यागोऽध्वरः स्तोमः सप्ततन्तुर्मखः सवः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.97 · p. 29
अजयस्त्वाह तन्द्रायामपि यज्ञस्तु केशवे ।अग्नावात्मनि योगे च यक्ष्मस्तु व्याधिमात्रके ॥ ९७ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास यकारादयः Paramānandīyanāmamālā 5.21.341 · p. 205
यज्ञो नारायणे यागे वह्नौ मेषात्मनोरथ ।यमो ध्याङ्क्षे कृतान्ते च यानं युग्ये गतावपि ॥ ३४१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.47 · p. 217
मृगस्तु मृगशीर्षेऽपि मोक्षो मृत्यौ मरुद्गिरौ ।यन्ता हस्तिपके सूते यज्ञोऽग्न्यात्महरीष्टिषु ॥ ४७ ॥
अनुष्टुप्

यज्ञ as a meaning in nānārtha verses