याञ्चा
yāñcāस्त्री · fem.In 7 kośas: 7 synonym verses, 2 as a meaning of another word.
सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्येषणा परीष्टिः स्यादन्वेषणा गवेषणा ।याचनाध्येषणा याञ्चा परीष्टिरपि चार्थना ॥ १११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderस्त्रीfem.
विषाक्तबाणनिहतौ कलञ्जौ मृगपक्षिणौ ।याञ्चा तु याचना भिक्षाऽभ्येषणाऽप्यर्दनाऽपि च ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् ।घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री ।येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥
metre not recognised
genderस्त्रीfem.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderस्त्रीfem.
अथाऽर्थना याचना याञ्चा भिक्षणाऽध्येषणाऽर्दना ।एषणा प्रणयश्चापि मार्गणा च सनिस्तथा ॥ ५७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
याञ्चैषणाऽध्येषणापि भवितरि भविष्णुयुक् ।भूष्णुर्भविष्यति भवी भाव्यथो स्यात् प्रसारिणि ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 वि (wrong syllable)
genderस्त्रीfem.
याञ्चा as a meaning in nānārtha verses
- कोषकल्पतरु निष्ठानिष्ठा तु निष्पत्तिविनाशयाञ्चा- नाट्याङ्गभेदेषु च संप्रदिष्टा । षष्ठी तु गौर्यामपि पुंसि तु स्यात् दक्षान्तकारि- Koṣakalpataru 6.11.8
- शब्दरत्नावली भिक्षाभिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥ मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥ मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.31.11