कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवधान

avadhānaक्ली · neut.

In 8 kośas: 8 synonym verses, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1378 · p. 52
अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥ १३७८ ॥
उपगीतिः
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.3
अवधानं समाधानं प्रणिधानं तथैव च ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.30 · p. 3
चित्तेऽन्तः[3b]करणं मनोऽपि हृदयं हृच्चेतसी मानसम्स्वान्तं गूढपथोच्चलेऽलिगु तथाऽतश्चान्तरस्थोऽव्यये ।संकल्पो नरि मानमानसकृती चित्तस्थिरत्वं समा-धानं स्यादवधानवन्नरि मनस्कारो हृतं भोगवत् ॥ ३० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 153 · p. 74
जनोदाहरणं कीर्तिं साधुवादं यशो विदुः ।वर्णं गुणावलिं ख्यातिमवधानं तु साहसम् ॥ १५३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.268 · p. 85
प्रणिधानसमाधानावधानान्यपि तत्र च ।अनुकूलता दाक्षिण्ये परवाक्यसहिष्णुता ॥ २६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.271 · p. 59
आज्ञायामवधानः(वादः?) स्यान्निर्देशः शिष्ट इत्यपि ।मर्यादायां स्थितिः संस्था धारणाथापराधने ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.34 · p. 406
अवधानं पुनर्नाम समाधेर्मन्यते बुधैः ।
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2765 · p. 451
अवधानेऽवधानं स्यादवेक्षा प्रतिजागरः ॥ २७६५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.

अवधान as a meaning in nānārtha verses