अवधि
avadhiपुं · masc.In 14 kośas: 10 synonym verses, 9 as a nānārtha head word, 25 as a meaning of another word.
पाटकस्तु तदर्धे स्यादाघाटस्तु घटोऽवधिः ।अन्तोऽवसानं सीमा च मर्यादापि च सीमनि ॥ ९६२ ॥
अनुष्टुप्
genderपुंmasc.
ग्रामान्तिकमुपशल्यं पर्यन्तः परिसरः कटः प्रोक्तः ।अवधिर्मर्यादा स्यादाघाटः सीम सीमा च ॥ २५९ ॥
आर्या
genderपुंmasc.
प्रकरी चत्वरमही ग्रामेया त्रिषु तद्धिता ।ग्रामेयकस्तु कथितो ग्रामीणो ग्राम्य इत्यपि ॥दाक्षीग्रामीय उदितो यो दाक्षीग्रामसंभवः ।एकग्रामीयमेवं स्यात्समूहे ग्रामता स्त्रियाम् ॥ग्रामान्त उपशल्यं स्यादत्र सीमेयनादिते (?) ।अवधिर्घट आघाटः सीमा स्त्री सीम पुं सिमः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रो वारिराशिश्च सरस्वान् सागरोऽर्णवः ।सीमोपकण्ठं तीरञ्च पारं रोधोऽवधिस्तटम् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
तथा कुडुंबसंज्ञे च परिमाणेऽर्दतिः पुनः ।अग्नौ च शास्त्रभेदे च याच्ञायामवधिः पुनः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
ग्रामो निवसथश्चापि तथा संवसथः स्मृतः ।तदर्धे पाटकः प्रोक्तः सीमाघाटो घटोऽवधिः ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
आघाटोऽन्तोऽवसानं च मर्यादा चाऽवधिर्घटः ॥ १६४० ॥
अनुष्टुप्
genderपुंmasc.
ग्रामेयकाश्च ग्रामीणा ग्राम्याश्च ग्रामवासिनः ।सीमसीमे स्त्रियौ पुंसि त्वाघाटोऽवधिरित्युभौ ॥ ३९७ ॥
अनुष्टुप्
genderपुंmasc.
गर्तः पतेरो भूश्वभ्रमवखातोऽवटोऽवधिः ।शेषोऽनन्तो नागराजः सर्पराजस्तु वासुकिः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
पत्न्यामपि द्वितीया दर्भेऽपि पवित्रमवधिरवटेऽपि ।प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥
आर्या
meaningsअवट
विवरे सीम्नि काले चाप्यथर्वा त्वृषिभेदके ।वेदभेदे च तत्रत्यमन्त्रेष्वपि तथास्य च ॥ ९ ॥
अनुष्टुप्
doubtful
अवधि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अन्तरअन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ॥ १८७ ॥ छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च । Amarakośa 3.3.352
- नामलिङ्गानुशासनम् यावत्यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४७ ॥ Amarakośa 3.3.247
- धरणिकोश अन्तरअन्तरं स्थानतादर्थ्यछिद्रान्तर्धिविनात्मसु । भेदावसरबाह्येषु मध्यात्मीयावधिष्वपि ॥ Dharaṇikośa 26.3.36
- कोषकल्पतरु अणिवेणिः[280a]केशनिबन्धने च सरितोः स्यात्संगमे च स्त्रियां । जीमूताभिधभेषजे मणिरजाकण्ठस्तने गोलके । रत्ने मेहनकाग्रके च युगुलेऽणिस्त्वाणिरक्षाग्रके कीलेऽश्राववधौ द्वयोरथ कुणिस्तुन्नद्रुमे कोकिले ॥ १५ ॥ Koṣakalpataru 6.15.15
- कोषकल्पतरु नेमतद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरः संपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ । अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौ वित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥ Koṣakalpataru 6.25.64
- कोषकल्पतरु सिमस्याद्गुग्गुलुश्चाथ सिमस्तु सर्व- शक्तावबद्धेषु तथावधौ च । स्यात्सर्वनामापि समोऽखिलार्थः साधौ सदृक्षे च विशेष्यवत्स्यात् ॥ ७६ ॥ Koṣakalpataru 6.25.76
- कोषकल्पतरु शल्यशरे च वंशादिकवंशिकायां क्ष्वेडेऽन्तिमे तोमरवाचकश्च । छिद्रेऽवधौ मद्रपतौ तु पुंसि गालद्रुमे श्वाविधि तद्वदुक्तः ॥ २९ ॥ Koṣakalpataru 6.26.29
- कोषकल्पतरु सन्ध्याव्याधेऽद्रिभेदे गदित[39a]श्च विन्ध्यः स्त्रियां लवल्यामवधौ तु सन्ध्या । चिन्ताप्रतिज्ञाकुसुमान्तरेषु पितृप्रसूसन्धिसरिद्गता च ॥ ५२ ॥ Koṣakalpataru 6.26.52
- कोषकल्पतरु अन्तरअनूर्ध्व[51b]हीने परगोऽध्वरस्तु स्यात्सावधाने वसुभिन्मखार्थः । अस्त्र्यन्तरं रन्ध्रविनावकाशा- न्तरात्मभेदावधिमध्यवाचि ॥ ८४ ॥ Koṣakalpataru 6.27.84
- कोषकल्पतरु विग्रहसूत्रे तुलाया नरि तद्वदेव प्रग्राह आद्येऽप्यथ भर्त्सने स्यात् । बन्धेऽवधौ चाथ रणे शरीरे स्याद्विग्रहो विस्तरणे विभागे ॥ ४६ ॥ Koṣakalpataru 6.32.46
- नानार्थार्णवसंक्षेप सन्धिउपांशु यच्च क्रियते स्वेष्वनीकेषु विग्रहे । सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥ Nānārthārṇavasaṃkṣepa 2.1.112
- नानार्थार्णवसंक्षेप सीमासुमेरुशिरसः प्राग्दिग्गतगङ्गान्तरेऽपि च । जानक्यामथ सीमा स्यादवधौ भूमिकूलयोः ॥ १२० ॥ Nānārthārṇavasaṃkṣepa 2.1.120
- नानार्थार्णवसंक्षेप सीमन्क्षेत्रव्यवस्थयोश्चेति डाबन्तार्थाः समीरिताः । मन्नन्तापि च सीमास्ति तस्याश्चार्था इमे मताः ॥ १२१ ॥ Nānārthārṇavasaṃkṣepa 2.1.121
- नानार्थार्णवसंक्षेप अन्तरविशेषविवरान्तर्धिष्ववसानविनार्थयोः । अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 4.11
- परमानन्दीयनाममाला नेमनेमः कालेऽवधौ गर्तदम्भयोर्वरणेऽपि च । नेमिर्वृक्षे प्रधौ निन्दापवादे निन्दने स्मृता ॥ २६७ ॥ Paramānandīyanāmamālā 5.18.267
- परमानन्दीयनाममाला नियमनियमोऽथावधौ ज्ञाने व्रते निश्चयबन्धयोः । नालिका चुल्हिकारन्ध्रे बिलकालविशेषयोः ॥ २७३ ॥ Paramānandīyanāmamālā 5.18.273
- शब्दरत्नावली नेमनेमः खण्डेऽवधौ गर्ते नाहादौ कैतवान्ययोः । पद्मोऽस्त्रीपद्मके पद्मे निधिसंख्याभिदोर्न्नजौ(?) । नागे ना स्त्री चारटी-श्री-फञ्जिका-पन्नगीषु च ॥ Śabdaratnāvalī 7.25.14
- शब्दरत्नावली सीमासीमाऽवधिस्थितिक्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् । सूक्ष्मो नाकतकेद्यात्मे क्लीबं स्यात्त्रिषु चाल्पके ॥ Śabdaratnāvalī 7.25.27
- शब्दरत्नाकर कोटिशिक्षायां निष्कृतौ चेष्टाचिकित्सोपाययुक्तिषु । आरम्भे कोटिरश्र्यग्रप्रकर्षावधिसीमसु ॥ १९०५ ॥ Śabdaratnākara 4.1.1905
- शब्दरत्नाकर सन्धाप्रतिज्ञानेऽवधौ संधा ज्ञानमर्यादयोः स्थितिः । संज्ञा नाम्न्यर्कभार्यायां ज्ञाने हस्तादिसूचने ॥ २०२६ ॥ Śabdaratnākara 4.1.2026
- शब्दरत्नाकर अन्तरअवकाशेऽवधौ भेदे विनार्थच्छिद्रयोरपि । अपानः पुंसि देहस्थवायौ पायौ नपुंसके ॥ २०३९ ॥ Śabdaratnākara 4.1.2039
- शब्दरत्नाकर यावत्यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे । वृथा निष्कारणे वन्ध्ये शश्वद्भूयः सदेति च ॥ २२७६ ॥ Śabdaratnākara 5.2.2276
- वैजयन्ती सन्धासन्धावधौ प्रतिज्ञायां सातिर्दानावसानयोः । सीमसीमे तु कूलेऽपि स्थानमर्यादयोः स्थितिः ॥ ४४ ॥ Vaijayantī 6.2.44
- वैजयन्ती अन्तरक्ली तु मध्येऽवकाशे च तादर्थ्येऽवसरेऽवधौ । विशेषविवरान्तर्धिष्ववसानविनार्थयोः ॥ २ ॥ Vaijayantī 7.5.2
- वैजयन्ती यावत्यावत्तावच्च साकल्यमानावध्यवधारणे । वृथा निष्कारणाविध्योः शश्वद्भूः सदेति च ॥ २८ ॥ Vaijayantī 8.7.28